________________
२०८
व्यवहार-छेदसूत्रम् - २६ / १५२ वृ- यस्तेषां स्पर्धकः साधूनां मध्ये कोऽपिसाधुर्मेधावी । सर्वेषां साधूनामपराधान् हृदये धारयितुमलं तेन स्पर्धकसाधव आलोचयन्ति । तद्यथा स तेषामपराधपदानि कलापं कृत्वा हृदये संपिण्डयाचार्यसमीपमागत्यालोचयति । तान्याचार्यः श्रुत्वा यदापन्नाः प्रायश्चित्तं ततोयत्येनापन्नं प्रायश्चित्तं तमेन मित्थं वाहयेदिति भणित्वा प्रेषयति । सोऽपिच साधुस्तेषां तत्कथयति प्रायश्चित्तं च तेऽपि साधवस्तद्वहन्ति । पडिच्छए वत्ति अथवा आचार्य आत्मीयान् स्पर्धकान् विनिर्गत्य येन प्रदेशेन इतरौ स्पर्धकावागच्छतस्तस्मिन् प्रदेशेऽन्तरा प्रतीक्षमाणस्तिष्ठति । तत्र स्पर्धकसाधव आगच्छन्ति । एको वा मेघावी अत्राप्यालोचनादिकं तथैव अइदूरे इत्यादि यद्यतिदूरे स्थितास्तत्तदा पञ्चमे पञ्चमे दिवसे यदि वा पक्षेण पक्षेण अथवा मासेन मासेन परतरे वेति परतरेणवा द्व्यर्धमासादिना समागच्छन्ति । आगत्य चाचार्यादिसमीपे शोधिं कुर्वन्ति ।।
मू. (१५३) से गामंसिवा जाव.. रायहाणिसि वा अभिनिव्वगडाए अभिनिदुवाराए अभिनिक्खमणपवेसणाए नो कप्पइ बहुसुयस्स बब्भागमस्स भिक्खुस्स वत्थए, किमङ्गंपुन अप्पागमस्स अप्पसुयस्स । [भा. २७४१ ]
अगडसुयाण न कप्पइ वीसुं मा अइप्पसंगतीसुयवं । एगानितो वसेना निकायणं चेव पुरिमाणं ।।
वृ- अनन्तरसूत्रे अकृतश्रुतानां न कल्पते विष्वग् वास इति श्रुत्वा मातिप्रसङ्गतः श्रुतवानेकाकी वसंदित्येवमर्थमिदं सूत्रं तथा निकाचनं च नियमश्च पूर्वाणामकृतश्रुतानां कृतमनेन सूत्रेण । तथा हि यदि कृतश्रुतस्यापि न कल्पते एकाकिनो वासः किमङ्गपुनरकृतश्रुतस्य तस्य सुतरामेकाकिनो न कल्पते वास इत्येष सूत्रसम्बन्धः । अनेन सम्बन्धेनायातस्यास्य व्याख्याअथ ग्रामे वा नगरे वा यावद्राजधान्यां वा अभिनिव्वगडायामभिनिद्वारायामभिनिष्क्रमणप्रवेशायामेतेषां त्रयाणामपि पदानां व्याख्यानं पूर्ववत् न कल्पते बहुश्रुतस्य सूत्रापेक्षया एकाकिनो भिक्षोर्वस्तुं किमङ्गपुनरल्पागमस्याल्पश्रुतस्येति सूत्रसंक्षेपार्थः । सम्प्रति भाष्यविस्तरः
[भा. २७४२]
अंतो वा बहिं वा अभिनिविगडाए डायमाणस्स !
गीयन्थे मास लहं गुरुतो मासो अगीतत्थे ।।
बृ- अन्तरुपाश्रयस्याभिनिव्विगडायां पृथक् परिक्षेपायां वसतौयथा एकस्यां वलभ्यां विष्वगपवरके बहिरुपाश्रयस्याभिनिर्विगडायामन्यस्मिन् प्रतिश्रये यदि गीतार्थो भिक्षुर्वसति तदा तस्य तत्र तिष्ठतो गीतार्थस्य प्रायश्चित्तं मास लघु अगीतार्थस्य गुरुको मासः । साम्प्रतमन्तर्बहिर्वा गृहस्य या अभिनिर्विगडा तस्याः प्रकारानाह
[ भा. २७४३]
अंतोनिवेसणस्स सोहीमादीव जाव सग्गामो । घरवगडाए सुत्तं एमेव य सेस वगडासु ।।
वृ- निवेशनस्यगृहस्यान्तरभिनिर्विगडा अथवा निवेशनाद्बहिरन्या वसतिरभिनिर्विगडा तस्यां मुख्यतो द्रष्टव्यम् । एवमेव शेषवगडा निवेशनाद्बहिरभिनिर्विगडाप्रकारेषु वा तच्च गीतार्थानामगीतार्थानां भिक्षूणामेकाकिनां वसतां प्रायश्चित्तं तदेव प्रागुक्तं । केवलं प्रायश्चित्तं किन्त्वन्येऽपि च दोषास्तथा चाहआणादिणो य दोसा विराधना होइ संजमायाए । लज्जाभयगोरवधम्मस ढरक्खा चउद्वाय ।।
[भा. २७४४]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org