________________
उद्देशक :- ६, मूल- १५२, [भा. २७२४]
२०५
दोषः किं पुनस्तत्कारणमत आह- 'वसही असती' इत्यादि, वसतिरेकत्र सर्वेषां न विद्यते यदि वा भिक्षा सर्वेषामेकत्र न भवति । अथवोभयमेकत्र सर्वेषां न संभवति तत एतेषां त्रयाणां कारणानामन्यतमेन कारणेन पृथक् पृथक् वसन्ति । तत्र च यतना कर्तव्या यतनया च संवसां प्रायश्चित्ताभावः तामेवाहसंकिठा वसहीए निवेसणस्संतो अन्नवसहीए । असती वाडगंतो तस्स असती होज दूरे वा ।।
[ भा. २७२५ ]
बृ- स्वग्रामे संक्लिष्टायामतिसङ्कटायां वसतौ सर्वेषामेकत्र स्थानं न भवति । तदा एकनिवेशनस्यान्तः पृथगन्यस्यां वसतौ स्थातव्यमसत्येकनिवेशनस्यान्तरन्यस्या वसतेरभावे वाटकस्यान्तः पृथगन्यस्यां वसतौ वसन्ति । अथवा वाटकस्याप्यन्तः पृथगन्या वसतिर्न लभ्यते तदा वाटकस्यबहिर्हस्तशताभ्यन्तरे पृथगन्या वसतिर्गवेषणीया । तस्य हस्तशतस्याभ्यन्तरे वसतेरभावे दूरेऽपि वसतिरन्या स्यात् । तत्र हस्तशताभ्यन्तरं यावत् यतनाविधिमाह
[भा. २७२६]
वीसुंपि वसंताणं दोनिवि आवासगा सह गुरुहि । दूरे पोरिसि भंगे उघाडा गंतु विगडंति ।।
वृ- निवेशनपाटकहस्तशताभ्यन्तरे विष्वगपि वसतामेष विधिर्दिवसे दिवसे द्वे अप्यावश्यके प्रभातिकवैकालिकप्रतिक्रमणलक्षणे सह गुरुभिः कर्तव्ये | भिक्षामप्यटित्वा ततः संनिवृत्ता आचार्यस्य समीपे समागत्यालोचयन्ति । अथ हस्तशतस्यवहिर्वसतिर्लब्धा तर्हि गुरुसमीपे चतुर्थपौरुष्यामालोचनां कृत्वा वैकालिकमावश्यकं स्वकीयायां वसतौ कुर्वन्ति । ततः प्रातरप्यावश्यकं तत्र कृत्वा गुरुमसमीपमागत्य प्रत्याख्यानां गृह्णन्ति दूरे इत्यादि यदि पूनदूर अन्यस्मिन् ग्रामे स्थिता भवेयुस्ततो यदि गुरुसकाशमागच्छातां पौरुषीभङ्गस्तत उद्घाटायां पौरुष्यामागत्याचार्यसमीपे आलोचयन्ति प्रत्याख्यानं च गृह्णन्ति पूर्वार्धिका एतत् दूरे स्थितानामविशेषेणोक्तम् अधुना विशेषमभिधित्सुराहगीयसहाया गया आलोयण तस्संतिय गुरुणं ।
[भा. २७२७]
अगडा पुन पत्तेयं आलोयंती गुरुसगासे ||
वृ- तत्र यदि तेषां दूरस्थितानां कोऽपि गीतार्थः सहायोऽस्ति तर्हि ते गीतसहाया गीतार्थसहाया दूरे गताः सन्तस्तस्य गीतार्थस्य पुरत आलोचयन्ति । स पुनर्गीतार्थ उद्घाटायां पौरुष्यां गुरुणां समीपमागत्य कथयति, अधनास्तिकोपितेषं गीतर्थसहायस्तर्हि ते केवला अकृतश्रुता उद्घाटायां पौरुष्यां गुरुसकाशे समागत्य प्रत्येकं प्रत्येकमालोचयन्ति ।
[भा. २७२८] • एताण य जंताण य पोरिसिभंगो गुरुवयेती । थेरेअजंगमंभिव मज्झण्हे वावि आलोए ।।
बृ- यदि दूरे वसतिर्लब्धा उद्घाटायां च पौरुष्यामागच्छतां गच्छतां च पौरुषीभङ्गस्ततो गुरवः स्वयं तेषामकृतश्रुतानां समीपं व्रजन्ति । आचार्योवृद्धत्वेन ग्लानत्वेन वा गन्तुंन शक्तस्ततः स्थविरे अजङ्गमे वाचार्ये ते अकृतश्रुता मध्यान्हे गुरुसमीपमागत्यालोचयन्ति ।
[भा. २७२९]
एवं पिल्लाए पडिवसहटिया न एंति पतिदिवसं । समगुण दढधिइय अतरुणेय बहिया विसज्जति ।।
वृ- एवमपि अनेनापि दुर्लभायां वसतौ दूरे प्रतिवृषभस्थिता न प्रतिदिवसं गुरुसमपमागच्छन्ति, अर्थादापन्नं द्वितीये दिवसे आलोचका आगच्छन्ति । अथ कीदृशास्ते प्रतिवृषभा यानाचार्यः प्रेषयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org