________________
उद्देशक : - ६, मूल- १४९, [ भा. २६३५ ]
१८९
प्रतीच्छिकस्य वैयावृत्त्यकृतौ महती निर्जरा, इह सूर्येऽर्थे तदुभये च यथोत्तरं बलवती निर्जरत्युक्तं तत्र यथोत्तरं निर्जराया बलवत्तां भावयति[भा. २६३६ ]
अत्थोउ महिद्धितो कडकरणेणं घरस्स निप्पती । अठ्ठाणे गुरुगारणोपीय देवीया ||
वृ- सूत्रात् केवलात् अर्थाद्वा स सूत्रार्थो महर्द्धिकः किं कारणमिति चेत् उच्यते । अत्र कृतकरणेन । गृहस्य निष्पत्तिर्दृष्टान्तः । इतश्च सूत्रादर्थः ससूत्रो महर्द्धिकः, सूत्रमण्डल्याचार्यादयः प्राघूर्णकप्रभृतीनामभ्युत्थानं कुर्वन्ति । अर्थ मएडल्यां पुनर्यस्य समीपेऽनुयोगं श्रुतवान् तमेकं मुक्त्वाऽन्यस्य दीक्षागुरोरप्यभ्युत्थाने चत्वारो गुरुकाः प्रायश्चित्तं । ततः सूत्रार्थो राज्ञः शातवाहनस्य याने निगमने दृष्टान्तः । एष गाथाक्षरार्थः । साम्प्रतमेनामेव विवरीषुः कृतकरणेन गृहस्य निष्पत्तिरिति दृष्टान्तं भावयतिआराहितो नवती तिहिँउ पुरिसेहिं तेसि संदिसति । अमुगपुरे सयसहस्सं घरं च एएसि दायव्वं । पट्टगं घेत्तूण गतो उंडियबितियो उ तइओ उभयं । निफ्फलगा दोन्नि तहिं मुद्दा पट्टी य सफलो उ ।।
[भा. २६३७]
[भा. २६३८ ]
वृ- एको नरपतिस्त्रिभिः पुरुषैरराधितः ततः परितुष्टः सन्नरपतिस्तेषां प्रत्येकं संदिशति । यथाअमुकपुरे सुन्दरं गृहं शतसहस्रं च दीनाराणामित्येषां प्रत्येकं दातव्यमिति । तत्रैकोऽमुं संदेशं पट्टकै गृहीत्वा लेखयित्वा गतो, द्वितीय उंडि मुद्रां गृहीत्वागतस्तृतीय उभयं पट्टके लिखापयित्वा गतस्तत्र येन पट्टके लेखापितं यथामुकपुरे सुन्दरं गृहं शतसहस्रं च दीनाराणां न तूपरि मुद्रा दापिता । येन पट्टकव्यतिरेकेण मुद्राप्रतिबिम्बमात्रं गृहीतंतौ द्वावपि निष्फलौ जातौ । तथाहि ते त्रयोऽपि तन्नगरंगतास्तत्र आयुक्तस्तस्य समीपमुपागताः पट्टकं मुद्रामुभयं च दर्शयन्ति । तत्रायुक्तेन प्रथमो भणितो मुद्रां न पश्यामि कथं च दामि, द्वितीयो भणितो जानामि राज्ञो मुद्रांन पुनर्जानामि राज्ञः सन्देसं किंदातव्यमिति । एवं तौ निष्फलौ जातौ । यस्य तु तृतीयस्य मुद्रा पट्टकश्च स सफलस्तस्यायुक्तेन यथाज्ञप्तदानात् एष दृष्टान्तः एवं पट्टगसरिसं सुत्तं अत्थो य उंडियत्थाणे । उस्सगववायत्थो उभयसरित्थोय तेन बली ||
[भा. २६३९]
वृ- एवममुना प्रकारेण पट्टकसदृशं पट्टकस्थानीयं सूत्रं, उंडिका मुद्रा ततः स्थानीयोऽर्थः उत्सर्गापवादस्थ उभयसदृशस्तेन बली । तस्योभयस्य भावात् ।
[ भा. २६४० ]
सुत्तस्समंडलीए नियमा उठति आयरियमादी ।
मुत्तूण पवार्यतं न उ अत्थे दिक्खाण गुरुंपि ।।
वृ- सूत्रमण्डल्यां वाचयंत आचार्यादय आचार्योपाध्यायप्रभृतयः प्राघूर्णकादीनामागच्छतां सर्वेषामपि नियमादुत्तिष्ठन्ति अभ्युत्थानं कुर्वन्ति । अर्थमण्डल्यां पुनरुपविष्टः सन् यस्य समीपेऽनुयोगः श्रुतस्तमेकं प्रवाचयन्तं मुक्त्वान्यं दीक्षणगुरुमपि नाभ्युत्तिष्ठति यदाभ्युतिष्ठति तदा तस्य प्रायश्चित्तं चत्वारो गुरुकाः, श्रोतारोऽपि यद्याचार्येऽनभ्युत्तिष्ठत्यभ्युतिष्ठन्ति तदा तेषामपि प्रायश्चित्तं चतुर्गुरुकं, यदि पुनर्यस्य समीपेऽनयोगं श्रुतवान् तस्य नाभ्युत्तिष्ठति तर्हि तदापि तस्य चतुर्गुरुकम् । अत्र दृष्टान्तो राज्ञो याने देवी तं भावयति
[भा. २६४१]
Jain Education International
पतिलीलं करेमाणी नोठिया सालवाहणं ।
For Private & Personal Use Only
www.jainelibrary.org