________________
१८०
व्यवहार-छेदसूत्रम् -२-६/१४९ [भा.२५८७] एवाणाएपरिभवो बेतिदीसतियपाडिरूवंभे ।
आनेह जाणमाणा, खिसंति एवमादीहिं ।। वृ-एवमुपदर्शितेनप्रकारेणआज्ञायाः परिभव उत्पाद्यते, यथायदि यूयं प्रायोग्यं न लभध्वेकथं वयं लप्स्यामहे । एवमुक्ते यद्याचार्यो ब्रूते-आर्या उद्यमेन किंन लभ्यते । तत एवमुक्ते रुष्टाढवते-दृश्यते खलुभे भवतां प्रतिहार्यसातिश्यमाचार्यत्वं स्यवमेयं जानन्तः कस्मान्नानयत एवमादिरुच्चावचैर्वचनैः खिंसंतिहीलयंति ।।गतकारकद्वार, व्यालद्वारमाह[भा.२५८८] वालो यसाणमादी दिटुंतो तत्थ होतिछत्तेण ।
लोभेय आभिओगे विसे य इत्थीकए वावि ।। वृ-भिक्षामटतोव्यालः श्वप्रभृतिकः कदाचिल्लगतितदा महत्यपभ्राजना तत्रच दृष्टान्त छत्रेण यथा च्छत्रमुपरि ध्रियमाणं शोभते अधःपतितं तु न किमपि एवमाचार्योऽपि बहुभिः परिवारितो गच्छन् शोभते । तथा भिक्षाटनप्रवृत्तस्तुश्वादिपरिगृहीतो न किमपि तथा प्रतिरूपवानाचार्यो भवतीति लोभेन, गाथायां सप्तमीतृतीयार्थे, ऽभियोगो वशीकरणंस्त्रीकृतस्यात्, विषं वा केनचित्प्रद्विष्टने दीयते, [भा.२५८९] मोएउं असमत्थाबद्धरुद्ध नच्चणंकुसिया ।
जुवति कमणिज्जरूवोसोपुन सव्वेवितोसत्तो ।। वृ-युवतिः कमनीयरूपतया अलीकदोषसंभावनया अन्यथा बद्ध रुद्धं वा नर्तकं नटानां नायकं कुसिता मोचयितुमसमर्थास्तेषांतादृक्शक्त्यभावात्सपुनर्युवतिकमनीयरूपस्तान् कुसितान् सर्वानपि केनापि दोषेण बद्धान् रुद्धान् वा मोचयितुं शक्तस्ततो यथा स प्रयत्नेन रक्ष्यते, एवमाचार्योऽपि रक्षणीयोऽन्यथादोषस्तथा चाह[भा.२५९०] एमेवायरियस्स वि दोसा पडिस्ववंचसो होइ ।
दिजविस भिक्खुवासोअभिजोग्य वसीकरणमादी ।। वृ- एवमेव नर्तनस्येवाचार्यस्याप्यपरक्षितस्य दोषा भवन्ति, तथाहि सोऽपि प्रतिरूपवान् भवति, ततः कोऽपि भिक्षूपासको जिनप्रवचनप्रभावनामसहिष्णुर्विषं दद्यात् । स्त्री वा काचिद्रूपलुब्धा आभियोग्यं कुर्यात् वशीकरणादि वा प्रयुञ्जीत । यस्मादेते दोषास्तस्मात् प्रयत्लतो रक्षणीयोऽन्यथा तदभावे गणस्याप्यभावापत्तिस्तथा चाह[भा.२५९१] नच्चणहीनाव नडानायगहीना व रूपिणी वावि ।
चक्कं चतुंबहीनंनवति एवं गणोगणिणा ।। वृ- यथा नर्तनहीना नटा, यथा नायकहीना रूपवती स्त्री, यथा च चक्रं तुम्बहीनं न भवति, एवं गणिनाचार्येण विना गणोऽपिन भवति । तदेवं व्याल द्वारमिदानींगणचिन्ता द्वारमाह[भा.२५९२] लाभालाभद्धानि अकारके वा वुड्डमादेसे ।
सेहक्खएन नाहिति अच्छंतो नाहितिसव्वे ॥ वृ-केन पर्याप्त लब्धंकेन वानलब्धमितिनज्ञास्यतिस्वयं भिक्षाटने परिश्रान्तत्वात् । तथाअध्वनि मार्गे ये परिश्रान्ताः समागमनप्राघूर्णकाः तेषामिदमकारकमिदं वा कारकं तथा बालान् वृद्धान पूर्वागतांश्चादेशान् प्राघूर्णकान् तथा शैक्षान् क्षप कांश्च करणीयसारा करणतया न ज्ञास्यति । स्वयं भिक्षापरिश्रमणपरिश्रान्तत्वात् तिष्ठन्पुनः सर्वान् यथौचित्येन ज्ञास्यतिपरिश्रमाभावात् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org