________________
१६८
व्यवहार-छंदसूत्रम् -२-६/१४९ वृ-चोदकोभणति-यदि एवं कुलादिकार्यनिमित्तमाचार्यस्य निर्गमनं ततो निर्गमने सति प्रत्यागतो यदि वसतेर्बहिः सागारिकस्ततोतावद्धहिस्तिष्ठतु, यावच्चलसागारिको व्युत्क्रान्तो भवति, । तत बहिरेव पादान प्रस्फोट्य वसतेरन्तः प्रविशत, । एवं च सतिक्षपकादिदोषाः परित्यक्ता भवन्ति, आचार्य आह उच्यते-उत्तरं भण्यते । हे चोदक गुरोराचार्यस्य वसतेर्बहिस्तिष्ठत इमे वक्ष्यमाणा बहवो दोषास्तानेवाह[भा.२५२८] तगहुण्हावि अभाविए वुड्डा वाअच्छमाणपुच्छादी ।
- विनए गिलाणमादी, साहु सन्नी पडिच्छंती ।। वृ-कुलादिकार्येण निर्गत आचार्यउष्णेनाभावितेतृष्णा जायते । ततस्तृष्णाभिभूतो वसतिमागतो यदि बहिर्वसतेः प्रतीक्षते यावत्सागरिकोऽपगच्छति । तावतृष्णया उष्णेन आदिशब्दादनागाढागाढपरितापनापरिग्रहः पीडिते मूर्छा जायते आदिशब्दात् वसतिं प्रविष्टः सन् प्रचुरं पानीयमापिवतस्ततो भक्ताजीर्णतया ग्लानत्वं भवेदित्यादि परिग्रहस्तथा वृद्धा उपलक्षणमेतत् । वालशैक्षाऽसहादयश्चाचार्येतिष्ठतिप्रीतक्ष्यन्तेतेचप्रतीक्ष्यमाणाःप्रथमद्वितीयपरीपहाभ्यांपीडिता मूाद्याप्नुवन्ति तथा ग्लाना आदिशब्दात्क्षपकादिपरिहग्रहस्ते विनयेन प्रतीक्षमाणाः भोजन मकुर्वन्त औषधादिकंच गुरुणा विना अलभमाना गाढतरंग्लात्वाद्याप्नुवन्ति । यथा साधवः केचित् प्राघूर्णका गन्तुमनसः तथा संज्ञिनः श्रावका अष्टम्यादिषु कृताभक्ताः पारणके भिक्षायामदत्तायां अपारयन्त आचार्यां प्रतीक्ष्यमाणास्तिष्ठन्ति । तत्र साधूनां दिवसो गरीयान् चटति तत्र चोष्णादि परितापनादोषः, संज्ञिनां चान्तरायमित्येष गाथासंक्षेपार्थः । साम्प्रतमेनामेव विवरीषुःप्रथमतः तण्हुण्हादि भाविए इति । [भा.२५२९] तिण्हुण्हभाविवस्स पडिस्समाणस्सपुच्छमादीया ।
खद्दादियणगिलाणे सुत्तत्थविराहधनाचेव ।। वृ-आचार्यःस्वरूपत उष्णेनाभावितः क्वचित् प्रयोजनवशतो वहिर्निर्गमनात् ततः कुलादिकार्येषु निर्गतस्तृष्णाभिभूतो वसतिमागतोऽपि यदि सागारिकमपगच्छन्तं यावत्प्रतीक्षते, ततः प्रतीक्षमाणस्य तृष्णया उष्णेन च तापितस्य मूदियो भवन्ति ।आदिशब्दादागाढादिपरितापनापरिग्रहस्तथा वसतिं प्रविष्टेऽतीव तृष्णाभिभूतः खद्दस्य चतुरस्य पानीयस्यादानं ग्रहणं कुर्यात्, प्रचुरंपानीयं पिबेदित्यर्थः । ततो भक्ताणतया ग्लानो भवेत्, तस्मिंश्च ग्लाने सूत्रार्थपरिहानिर्विराधना च तस्याचार्यस्य स्यात् । म्लानत्वेनाचार्यो नियेतेतिभावः, अथवा सूत्रार्थपरिहान्याअजानतांसाधूनांज्ञानादिविराधनास्यात्, सूत्रार्थाभावतोऽजानन्तेःसाधवाज्ञानादिविराधनांकुर्युरितिभावः । अधुनावुड्डावेतिव्याख्यानार्थमाह[भा.२५३०] वुड्डासाहुसेहादी खमगोवा पारणमिभुक्खुत्तो।
अच्छइपडिच्छमाणो, नभुंजण लोइयमदिटुं ।। वृ- वृद्धा वयोवृद्धा असहाः प्रथमद्वितीयपरीषहान साढुमसमर्थास्तथा शैक्षका आदिशब्दात ग्लानाश्चाचार्य प्रतीक्षमाणास्तिष्ठन्ति, तेच तथा तिष्ठन्तस्तृडादिभिः पीडिता मूर्छाद्याप्नुवन्तिम्लानस्य च गाढतरं ग्लानत्वमुपजायते, । यदि पुनरागतमात्र एव वसतौ प्रविशति, ततो यथायोगं वृद्धादिनामकालहीनं सम्पाद्यते इति, न कश्चिद्दोषः । अधुना विनये गिलाणादी इत्येतद्वयाख्यानयतिखमगो वा इत्यादि क्षपको वा कोऽपि विकृष्टेन तपसा क्लान्तो विनयेन पारणके बुभुक्षातः प्रतिक्ष्यमाणस्तिष्ठति ।न पुनर्भुक्तेअद्यापिनालोचितमाचार्येणचन दृष्टमितिकृत्वा ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org