________________
१४२
व्यवहार-छेदसूत्रम् -२-५/१४५ वृ-यादशैः सिवयैर्वस्त्रैः प्रावृत्तैःसासंयती उपविष्टा दृष्टा तादृशैर्वस्पैस्तमोऽन्धकारमस्या अस्तीति तमस्विनीरात्रिस्तस्यांतरुणसाधुर्वरितःप्रावृत्तः क्रियते । ततःसंभलितिदूतीप्रेष्यते । ततो विनाविनको नरविहीनो यत्र को निवासो गृहं इत्यर्थः, तत्र केतनं संकेतनं सङ्केतो दीयते, दत्वा च स तत्र स्थितस्तावत्तिष्ठति, यावत्स तरुणसाधुः संयतीनेपथ्योपेत आगच्छति, तस्मिन्नागते चिहुरेषु केशेषु गंडयोश्च विलपनंक्रीडनं करोति,तत्र यद्येतावताशुक्रनिपातस्तिष्ठति,तर्हिसुंदरं, अथन तिष्ठतितर्हिस संयतीनेपथ्योऽपसार्यते । प्रकारान्तरमारभ्यते । तदेव प्रकारान्तरमाह[भा.२३७३] अहवा वि सिद्धपुतिंपुव्वं गमेऊन तीय सिवएहि ।
आवरिय कालियाएसुन्नागारादि संमेला ।। वृ- अथवेति प्रकारान्तरद्योतने पूर्वं सिद्धपुत्री गमयित्वा तस्याः संयत्याः सिवयैरावृत्य कालिकायां रात्रौ शून्यमहादिषु तया सहतस्य संमेलः सङ्गमः कर्तव्यः । सम्प्रति याशा उत्सर्गत आलोचनास्तिादृशानभिधित्सुराह[भा.२३७४] गीवत्था कयकरणा पोढा, परिणामिया यगंभीरा ।
चिरदिक्खिया यवुड्डा जईण आलोयणाजोगा ।। वृ-गीतार्थाः सूत्रार्थतदुभयनिष्णातत्वात्, कृतकरणाअनेकवारमालोचनायांसहायीभवनात्, प्रौढाः समर्थाः सूत्रतोऽर्थतश्च प्रायश्चित्तदाने पश्चात्कर्तुमशक्यत्वात्, परिणामिका नापरिणामिका अतिपरिणामिका वा, गंभीरा महत्यप्यालोचकस्य दोषे श्रुते अपरिश्राविणः, चिरदीक्षिताः प्रभूतकं प्रव्रजिता, वृद्धाः श्रुतेन पर्यायेण वयसा च महान्त, एवंभूता यतीनां साधूनामुपलक्षणमेतत् संयतीनां वालोचनायोग्याः ।
मू.(१४६) जे निगंथाय निगंथीओ यसंभोइया सिया, नो ण्हं कम्पइ अन्नमन्नेणं वेयावच्चंकारवेतए। अत्थि या इत्थ व्हं केइ वेयावच्चकरे, कम्पइ ण्हं तेनं वेयावच्चं करावेत्तए; नत्थि याइ ण्हं केइ वेयावच्चकरे, एवण्हंकप्पइअन्नमन्नेणं वेयावचंकारवेत्तए ।
वृ-येनिम्रन्थानिम्रन्थ्यश्चसांभोगिकास्तेषांनो, एहमितिवाक्यालङ्कारे, कल्पतेअन्योन्यस्य वैयावृत्त्वं कारयितुं, अस्तिकश्चित्वैयावृत्यकरस्ततः कल्पतेतंवैयावृत्त्यं कारयितुं, नास्तिक्वचित्वैयावृत्त्यकरः एवं सति कल्पते अन्योन्यस्य वैयावृत्यं कारयितुमिति सूत्रसंक्षेपार्थः । अधुनाभाष्यविस्तरः[भा.२३७५] आलोयणाए दोसा वेयावच्चे विहंतितहचेव ।
नवरं पुन नाणत्तं, बितियपदे होइकायव्वं ।। वृ- ये एव विपक्षे आलोचयतां दोषा उक्ताः परस्परं वैयावृत्येऽपि त एव दोषा भवन्ति । ये चाभ्यधिकास्तेऽनन्तरगाथायां वक्ष्यन्ते, नवरं पुनर्नानात्वं द्वीतयपदे अपवादपदे भवति कर्तव्यं । तत्राभ्यधिकान् अभिधित्सुराह[भा.२३७६] उउभयमाणसुदेहिं देहसहावानुलोमभुजेहिं ।
कढिणहिययाण वि मणं वंकंत अचिरेण कइयविया ।। वृ-ऋतौ ऋतौ यैर्भज्यमानैः सेव्यमानैर्भज सेवायामिति वचनात् सुखं जन्यते तानि ऋतुभज्यमानसुखानितैस्तथा देहः शरीरं तस्य स्वो भावः स्वरूपं देहस्वभावस्यानुलोमान्यकूलानि यानि तैर्वैयावृत्त्यं कुर्वत्यः संयत्यो ये संयतीभिरानीतं भुञ्जते तेषां कठिहदयानामपि धृतिबलिष्टानामपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org