________________
१२८
व्यवहार- छेदसूत्रम् - २-५ / १४२ वा, साय संवेस्सामीति' नो संठवेज्जा, एवं से नो कप्पइ पवित्तिणित्तं वा गणावच्छेइयित्तं वा उद्दिसित्तए वा धारेतएवा ||
वृ- 'निग्गंथीए नवडहरतरुणाए' इत्यादि सूत्रद्विकम् । अस्य व्याख्या -निर्ग्रन्ध्या नवडहरतरुण्या वक्ष्यमाणस्वरुपायाः आचारप्रकल्पो नामाध्ययनं परिभ्रष्टं स्यात्, सा च प्रष्टव्या, केन कारणेन आचारप्रकल्पो नामाध्ययनं परिभ्रष्टमभवत्, किमाबाधेन प्रमादेन वा, एवं पृष्टा सती सा, यदीति गम्यते, वदेत्, नावाधेन किन्तु प्रमादेन, तर्हि यावज्जीवं तस्यास्तत्प्रत्ययं प्रमादतोऽध्ययननाशनप्रत्ययं न कल्पते प्रवर्तिनीत्वं वा गणावच्छेदिकात्वं उद्देष्टुं नापितस्याः स्वयं धारयितुम् । अथ सा वदेत् आबाधेन नष्टं न तु प्रमादेन सा च नष्टमध्ययनं संस्थापयामीत्युक्त्वा संस्थापेत्, एवं 'से' तस्याः कल्पते प्रवर्तिनीत्वं वा गणावच्छेदिकात्वं वा उद्देष्टुं अनुज्ञातं स्वयं धारयितुम् । अथ नष्टमध्ययनं संस्थापयिष्यामीत्युक्त्वा न संस्थापयेत् एवं तर्हि से तस्यान कल्पते प्रवर्तिनीत्वं गणावच्छेदिकात्वं या उद्देष्टुं वा स्वयं धारयितुमितिः । अत्र तु केन कारणेन सूत्र विपर्ययः कृतः ।। सूरिग्रह
[ भा. २३०८]
जइ विच पुरिसादेसो पुव्वं तहवि विवज्जओ जुत्तो । जेन समणीउपगया पमायबहुला य अथिराय ।।
वृ- यद्यपि च पुरुषोत्तमो धर्मः पूर्वत्र वाध्ययनद्वये पूर्वं पुरुषोदेशस्तथाप्यत्र विपर्ययो युक्तः । केन कारणेनेत्याह-येन कारणेन श्रमण्यः प्रकृतास्तथा प्रायः श्रमण्यः प्रमादबहुला अस्थिराश्च, नतु श्रमणाः, अध्ययनस्य च नाशः प्रायः प्रमादतस्ततः श्रमण्यधिकारादधिकृतसूत्रार्थस्थानत्वात् पूर्वं निर्ग्रन्थोसूत्रमुक्तम्, पश्चात् निर्ग्रन्थसूत्रम् । नवडहरतरुणीनां व्याख्यानमाह
[भा. २३०९ ]
ते वरिसा होइ नवा अठारसिया डहरिया हो ।
तरुणी खलुजा जुवई चउरो दसगा य पुव्युत्ता ।।
बृ- व्रतपर्यायेणयावत्रिवर्षा तावद्भवतिनवा, जन्मपर्यायेणयावदष्टादशिका अष्टादशवर्षप्रमाणा तावद्भवति डहरिका, तरुणी खलु तावद्द्रष्टव्या यावद् युवतिः । अथवा पूर्वोक्तास्तृतीयोद्देशके नवडहरतरुणसूत्रे येऽभिहितास्तरुणस्य चत्वारो दशकाञ्चत्वारिंशद्वर्षाणीत्यर्थः, ते अत्रापि तरुण्या द्रष्टव्या: 11
[भा. २३१०]
सा एय गुणोवेया सुत्तत्थेहिं पकप्पमज्झयणं । समहिजिया इतोयाअवि आगयानवसु या अन्ना ।।
बृ- सा नवडहरा तरुणी एतावद्गुणोपेता सूत्रार्थाभ्यां प्रकल्पनामकमध्ययनमधीता अधीतिनी ततः सा प्रवर्तिनीत्वस्य योग्या सूरिभिः संभाविसाधिता । अथ च तस्याः सूत्रतोऽर्थतश्चाचारप्रकल्पः परिभ्रष्टः स कथं ज्ञात इत्याह- इतश्चापि आगता अन्यगच्छादन्या साध्वी उपसम्पन्ना, सा विज्ञपयति ।। [ भा. २३११] अत्थेण मे पकप्पो समानितो न य जितो महभंते ।
अमुगा मे संघाई, ददतुं कुत्ता उसागणिणा ।।
वृ- हे भदन्त ! भगवन् ! अर्थेनार्थतो मम आचारप्रकल्पः समानीतः समाप्तिं नीतः, परंन च नैव मम स जितः परिचितोऽभूत्, ततोऽमुका, या प्रवर्तिनीत्वेन संभाविता, तां संघाटं पूज्या ददतु; एवं तया विज्ञापितेन गणिता आचार्येण सा उक्ता आर्य देहि एतस्याः संघाटम्
[भा. २३१२]
सा दाउ आढत्ता नवरिय नऊन किंचि आगच्छे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org