________________
११६
व्यवहार- छंदसूत्रम् - २ ४/१२६ सोऽपि नाभ्युद्यतविहारं प्रतिपद्यते । तस्य शिष्यनिष्पत्त्यभावे नाभ्युद्यतविहारप्रतिपत्त्वशक्त्या वा गच्छं परिपालयतो दीर्घायुषो वृद्धवासस्य कालः । । एनामेव गाथां व्याख्यानयतिसुत्तागमो बारससमा चारिय देसाण दरिसणं तु कया । उवकरण देह इंदिय तिविहं पुन लाघवं होइ ।।
[भा. २२५५]
वृ- बिद्यानाम सूत्रागमः । स च द्वादशवर्षाणि यावत् तदुपलक्षणमेतदर्थागमोऽपि विद्या सोऽपि द्वादशवर्षाणि कृतः । तथा चरितं नाम देशानां दर्शनं तदपि द्वादश वर्षाणि कृतं । लाघवं पुनस्त्रिविधं भवति । तद्यथा - उपकरणलाघवं, देहलाघवं, इन्द्रियलाघवं च । तत्रो पकरणलाघवं नाम यदतिरिक्तमुपकरणं न गृह्णाति, गृहीतं वारक्तद्विष्टः सन् सूत्रोक्त विधिना परिभुंक्ते, शरीरलाघवं - यन्नातिकृशो नातिस्थूलः शरीरेण, इन्द्रियलाघवं यदिन्द्रियाणि तस्य वशे वर्तन्ते ।।
[भा. २२५६] चउत्थ छठादि तवो कतो उ अव्वोच्छित्ताए होइ सिद्धिपहो । सुत्तविहीए संजमो वुड्डो अह दीहमाउं च ।।
वृ- तपञ्चतुर्थषष्ठादिकं कृतं । तथा अव्यवच्छित क्रियमाणायां सिद्धिपथो मोक्षमार्गो देशितो भवति । तथा सूत्रविधिना संयमः परिपालितः स च जातो वृद्धोऽथ दीर्घमायुः !! अब्भुज्जयमवतो अगीत सिस्सो व गच्छपडिबद्धो ।
[भा. २२५७ ]
अच्छति जुन्नमहल्लो कारणतो वा अजुन्नो वी ! 1
वृ- अभ्युद्यतविहारमशक्नुवन् अगीताः शिष्याः अद्यापि यस्यासौ वा गच्छप्रतिबद्धो गच्छपरिपालनमप्रवृत्तः सन् जीर्णो महान् वृद्धवासे तिष्ठति । अजीर्णोऽपि वा तरुणोऽपि वा कारणतः क्षीणजङ्घाबलतया रोगादिना वा वृद्धवासमुपसेवते ।। तदेव कारणजातं गाथाद्वयेनाहजंघाबले च खीणे गेलने सहाय ताव दुब्बल्ले । अहवावि उत्तम निप्पत्ती चेव तरुणाणं ।। खेत्ताणं व अलंभे कय संलेहे य तरुणपडिकम्मे । एएहिं कारणेहिं, वुड्डावासं वियाणाहि ।।
[भा. २२५८]
[भा. २२५९]
बृ- जङ्घाबलं वा क्षीणं ग्लानत्वं वा तस्यान्यस्य वा जायं, असहायता वा समुत्पन्ना, दौर्बल्यं वा शरीरस्योपजातं । अथवा उत्तमार्थप्रतिपन्नोऽथवा तरुणानामात्मपरलक्षणानां निष्पत्तिः सूत्रतोऽर्थतश्च कर्तव्या, क्षेत्राणां वा संयमस्फीतिहेतूनामलाभः कृतः संलेखो वा प्रतिपन्नसंलेखनाको वर्तते । यदि वा तरुणस्य वा रोगविमुक्तस्य सतः प्रतिकर्मबलविवृद्धिकरणं समारब्धं ततो वृद्धवासस्तथा चाह-एतैः . कारण वृद्धावासं विजानीहि । तत्र प्रथमे द्वारे जङ्घाबलं परिक्षीणमित्येवं रूपं कियत् क्षेत्रं कियता कालेन गन्तुमशक्नुवन् विहरणार्हो भवति । कियद्वा अशक्नुवन् जङ्घाबलपरिक्षीणइत्येतत्प्रतिपादयति[ भा. २२६० ] दुन्निवि दाऊण दुवे सुत्तं दाऊण अत्थवज्जं च । दोत्री दिवमेगं गाऊयं तीसु अनुकंपा ।।
"
वृ- द्वे पौरुष्यौ सूत्रपौरुषीमर्थपौरुर्षी चेत्यर्थः । दत्वा यावद्भिक्षावेला भवति तावद्यो द्वे गव्यूते व्रजति, एष सपराक्रमो विहर्तुं सुत्तं दाऊण अत्थवज्जं चेति सूत्रं सूत्रपौरुषीं दत्वा अर्धवर्जं अर्थपौरुषीमदत्त्वा यो भिक्षावेलात अर्वाक् द्वे गव्यूते व्रजति सोऽपि पराक्रमो विहर्तुं च शब्दोऽनुक्तसमुच्चयार्थः । स चैतत्सूत्रं पौरुषीमर्यपौरुषीं वा दत्वा भिक्षावेलात आरतो यो द्वे गव्यूते याति
-
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International