________________
उद्देशक:-४, मूल - ११७, [भा. २११५]
महाकल्पश्रुते द्वादशवर्षाण्युत्कृष्टास्वाध्यायभूमिः । अत्राभवव्यवहारमाह[भा.२११६] संकेतोयवहतोकाउस्सगंतुच्छिन्न उवसंपा।
अकयम्मी उस्सग्गोजा पढतीतंसुयखंधं ।। वृ-योगं वहन् गणान्तरमन्यत्र संक्रामन् च्छिन्ना उपसम्पदिदानीमिति प्रतिपत्यर्थं कायोत्सर्ग कृत्वा व्रजेत् । अथकथमपितस्य विस्मृतंभवतिततआचार्येणस्मरयितव्योयथाकुरुकायोत्सर्गमथ द्वयोरपि विस्मरणतः सोऽकृतेकायोत्सर्गे याति, तर्हियावत्सोऽन्यत्रगतोपितं श्रुतस्कन्धंपठति ।। [भा.२११७] तालाभो उदिसणायरियस्स जइ वहइ वट्टमाणिसे ।
अवहंतमि उलहुगा, एस विही होइअनागाढे ।। वृ- तावत् यत्किमपि स लभते सचित्तादिकं समस्तोऽपि लाभउद्देशनाचार्यस्य येनोद्दिष्टः स श्रुतस्कन्धस्तस्य पूर्वाचार्यस्याभवति, केवलं यदिसपूर्वतन उद्देशनाचार्यः से तस्यान्यत्र गतस्य सतो वर्तमानां सारां वहति, अथ स तस्याकृतकायोत्सर्गस्य सतोऽन्यत्र गतस्य सारांन वहति । ततस्तस्मिन् सारामवहत्युद्देशनाचार्ये प्रायश्चित्तं चत्वारो लघुकाः । यच्च सचित्तादिकं स प्रातीच्छिको लभते तदपिन तस्या भवति, एषोऽनन्तरोदितो विधिर्भवत्यनागाढेयोगे !सम्प्रत्यागाढे भिधित्सुरिदमाह[भा.२११८] आगाढो विजहन्नो कप्पिगकम्पादि तिन्नहोरत्ता ।
उक्कोसौछम्मासे विवाहपन्नत्ति आगाढे ।। वृ- आगाढोऽपि योगो जधन्यस्त्रयोऽहोरात्रा तथा कल्पिका कल्पिकादेरुत्कर्पत आगाढयोगे षण्मासान् यथाव्याख्याप्रज्ञप्रेः पञ्चमाङ्गस्य अत्राभवद्व्यवहारमाह[भा.२११९] तत्थविकाउस्सग्गं आयरियविसज्जियम्मिच्छिन्ना उ ।
संसरमसंसरंवा अकएलभंतोभूमीए ।। वृ- अत्राप्यागाढयोगे पूर्णेऽपूर्णे वा आचार्येण यस्य सकाशे योगं प्रतिपन्नस्तेन सूरिणा विसर्जिता विसर्जने कृते च्छिन्ना उपसम्पदिति ज्ञापनार्थ संस्मरन् कायोत्सर्गे कुर्यात् । असंस्मरन् वा आचार्येण स्मरयितव्यः । तत्र भूमौ स्वाध्यायभूमावागाढे योगेऽपरिपूर्णे आचार्येण विसर्जितः । कृते कायोत्सर्गे यदिव्रजति तर्हिसव्रजन् यत्किमपि लभते सचित्तादिकं तत्तस्यैवाभवति, नोद्देशनाचार्यस्य, अथाकृते कायोत्सर्गे व्रजति । तर्हि यावदन्यत्र गतोऽपितं श्रुतस्कन्धं पठति, सारां चोद्देशनाचार्यस्तस्य करोति, तावद्यत् किमपिससचित्तादिकमुत्पादयति, तत्सर्वमुद्देशनाचार्योलभतेन पुनरितरः.. [भा.२१२०] तीरिय अकए उगतेजा अन्नंन पठएउता पुरिसे। .
आसन्नाओ नियत्तइदरगतो वावि अप्पाहे ।। वृ-तीरिते समाप्तिं नीते आगाढे योगे श्रुतस्कन्धे च भक्तिपुरस्सरमाचार्यादिक्षमणया तोषिते यदि कथमपिगमनवेलायामनाभोगतोऽकृतेकायोत्सर्गेयाति, तर्हिसगतः सन्यावदन्यं पठतिपठितुमारभते, तावद्यत्किमपि लभते, तत्पूर्वस्याचार्यम्याभवति न तस्य, तस्य चास्मरणतोऽकृते कायोत्सर्गे गतस्येयं सामाचारी, यदि आसन्नेप्रदेशेगत्वास्मृतंततआसन्नान्निवर्तते । अथदूरंगतेन स्मृतंतर्हितत्रयंसाधर्मिक पश्यति, तस्यसमीपेकायोत्सर्गतुकृत्वा अप्पाहेतिसंन्देशंकथयति, । यथा मया कृतोऽमुकस्य समीपे कायोत्सर्ग इति ।।
[भा.२१२१] अवितोसविते पाहुडे नितेच्छेदो पडिच्छे चउगुरुया ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org