SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ व्यवहार-छेदसूत्रम् -२-४/११७ वृ-प्रथम चरमे च कारणे नियमेन निर्गमे अनुज्ञा भवति, । शेषेषु कारणेष्वनाभोगतो निर्गमे भवत्याभवद्व्यवहारश्च तत्र प्रथमचरमानां प्रथमचरमकारणोपेतानां निर्गमे इयं वक्ष्यमाणा तत्र यतना भवति । तामेवाह[भा.२१११] सरमाणे उभएवी काउस्सगंतुकाउवच्चेज्जा । पण्हुढे दोण्हविऊ आसन्नातोनियट्टेज्जा ।। वृ- प्रथमे चरमे च कारणे समुपजाते उभयस्मिन्नप्याचार्ये प्रतीच्छके च विधिस्मरति च्छिन्नोपसंपदितिज्ञापनार्थकायोत्सर्गं कृत्वासप्रातीच्छकोव्रजेत् अथ प्रातीच्छिकस्य विस्मृतं ततः आचार्येण स्मारयितव्यं यथा कुरु च्छिन्नोपसंपन्निमित्तं कायोत्सर्गमिति अथानाभोगतो द्वयोरपि पण्हुद्वमिति एकान्तेन विस्मृतं, ततो द्वयोरप्येकान्तेन विस्मृतावकृते कार्योत्सर्गे सम्प्रस्थितो यदासन्ने प्रदेशे स्मरति, तदासन्नात् निवर्तेत, निवृत्त्यच कायोत्सर्गो विधेयः ।। [भा.२११२] दूरगएणंउसरिए साहम्मिठुतस्सगासम्मि। काउस्सगंकाउंजलदंतंच पेसेइ ।।। वृ-अथ दूर गत्वा स्मृतवान्ततो दूरगतेन स्मृतेन साधर्मिकं दृष्ट्रातस्य सकाशे समीपे कायोत्सर्गः करणीयः, सन्देशश्च प्रेषणीयः, आचार्यस्य यथा तदानीं युष्मत् समीपे कायोत्सर्गकरणं विस्मृतमिदानीममुकस्य साधर्मिकस्य समीपे कृतः कायोत्सर्ग इति कायोत्सर्गं च कृत्वा यदकृते कायोत्सर्गे सचित्तादिकमुत्पन्नं तत्प्रेषयति[भा.२११३] पढमचरमाण एसो निगमनविही समासतो भणितो | ___ एतो मज्झिल्लाणंववहारविहिंतुवुच्छामि ।। वृ- प्रथमचरमानां प्रथमचरमकारणोपेतानां एव निर्गमविधिः समासतो भणितः । इत ऊर्ध्वं मध्यमानां मध्यमकारणोपेतानां व्यवहारविधिनाभवद्यवहारविधि प्रायश्चित्तव्यवहारविधिं च वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति[भा.२११४] सज्झायभूमिवोलंतेजोएछम्मास पाहुडे । सज्झायभूमिदुविहाआगाढा चेव नागाढा !। वृ-स्वाध्यायभूमिं प्रतिपन्नः सन् तामनिक्षिप्य यो व्यतिक्रामति तस्मिन् आभवद्व्यवहार उच्यते । अथस्वाध्यायभूमिरिति किमभिधीयते । उच्यते-प्राभृत्तं नाम यदिष्टः श्रुतस्कन्धस्तस्मिन्यो योगः स स्वाध्यायभूमिः स चामाढयोगमधिकृत्योत्सर्गतः षण्मासाः । एतदेव वैतन्येनाहस्वाध्यायभूमिर्द्विविधा योगो द्धिविध इत्यर्थः । आगाढा अनागाढाच[भा.२११५] जहन्नेन तिन्त्रिदिवसा अन्नागाढुक्कोस होइ बारस उ । एसा दिठीवाएमहकप्यसुयम्मिबारसमा ।। वृ- अनागाढा स्वाध्यायभूमिर्जघन्येन त्रयो दिवसा यथा नन्द्यादिकस्याध्ययनस्य उकर्षतो भवतिद्वादशवर्षाणि ।एषा द्वादशवर्षप्रमाणाउत्कृष्टास्वाध्यायभूमिदृष्टिवादेसापिदुर्मेधसःप्रतिपत्तव्या, प्राज्ञस्य तु वर्ष, उक्तंच अनागाढो जहन्नेणं, तिन्नि दिवसा उक्कोसेणवरिसं । जहा दिठिवायस्सबारस वरिसाणिदुम्भेहस्सत्ति ।। For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy