________________
उद्देशकः-४, मूल - ११३, [भा. २०७२] . अभिनिधारिकां चरितुं यत्पुनस्तत्र स्थविरैरवितीर्णेऽननुज्ञाते एकतोऽभिनिचारिकां चरन्ति । तन्निमित्तं से तेषां प्रत्येकमन्तरातं अन्तरा नाम तस्मात्स्यानादप्रतिक्रमणंच्छेदः परिहारो वा उपलक्षणमेतदन्यद्वा तपः-प्रायश्चित्तमिति___ मू.(११४)चरियापविटेभिक्खू जावचउरायपंचरायातो थेरापासेज्जा सच्चेव आलोयणा, सच्चेव पडिक्कमणा सच्चेव ओग्गहस्स पुव्वाणुन्नवणा चिट्ठति अहालंदमवि उग्गहे ।।।
वृ-चरिकानिमित्तंयेव्रजिकादिषुप्रविष्टास्तेषामेकतरंपरिगृह्येदमुच्यते-चरिकाप्रविष्टोभिक्षुर्यावत् परिमाणावधारणे ततोऽयमर्थः । एकरात्रं द्विरात्रं चतुरात्रं पञ्चरात्रं यावत् व्याखानतो विशेषप्रतिपत्तिरिति द्वितीयं तृतीयमपिपञ्चाहं यावदिति द्रष्टव्यम् । स्थविरान् पश्येत् कुत्र पश्येदिति चेत् उच्यतेअभिनिचारिकां गन्तुमुत्कलापितेनाचार्येण यत्र सन्देशको दत्तस्तत्र स्थविरैः सह मिलितानां सैवालोचना तिष्ठति, या अन्यस्मात् गणादागतेनोपसम्पद्यमानेनवितीर्णा तदेव च प्रतिक्रमणं यदवसन्नादागत्य तस्मिन् गच्छे उपसम्पद्यमाने तस्मात् स्थानान् प्रतिक्रान्तं सैव चावग्रहस्य सैव पुर्वानुज्ञापना तिष्ठति । या अन्यस्मात् गणादागतेनोपसम्पद्यमानेन साधर्मिकाव्रहस्यानुज्ञापना कृता यथालन्दमपि यताकालमपि अपिशब्दोऽत्र संभावने न केलवं यथाकालं किन्तु चिरमपि-यथाकालं यावत्ततो गच्छात्तस्य भावो न विपरिणमति तावदवग्रहे अवग्रहस्य सैव पूर्वा अनुज्ञापना तिष्ठति । एतच्चान्तर्दीपकमतो यथालन्दमप्पालोचनाप्रतिक्रमणंचद्रष्टव्यम् ।।
मू. (११५) चरियापविढे भिक्खू परं चउरायपञ्चरायाओ थेरे पासेजा पुनो आलोएज्जा पुनो पडिक्कमेचा पुनो चेयपरिहारस्स उवट्ठाएजा । भिक्खुभावस्स अट्टाए दोच्चपि ओग्गहे अनुन्नवेयव्ये सिया कप्पति से एवं वदित्तए अनुजाणह । भंते! मिओग्गहंअहालंद धुवं नितियं निच्छइयं, वेउट्ठियं, तओ पच्छा कायसंफासं ।।
वृ-चरिकाप्रविष्टो भिक्षुः परं चतूरात्राद्वा अत्रापि व्याख्यानतो विशेष प्रतिपत्तिस्त इदं द्रष्टव्यं यदि तस्य भावो विपरिणातो यथा कोऽत्र स्थास्यतीति ततश्चतू रात्रात् पञ्चरात्राद्वा आरतः परतो वा स्थविरान्पश्येत्पुनरपि च तस्य भावो जातो यथा तिष्ठाम्यत्र न चैवोपसम्पदा तथा प्रयमोपसम्पदीव पुनरालोचयत् । पुनः प्रतिक्रामेत् पुनःच्छेदस्य पहिरस्य वा उपतिष्ठेत् । किमुक्तं भवति? विपरिणते अविपरिणतेवाभावे यत् किञ्चिदापन्नः प्रायश्चितस्थानं तस्मिन् आलोचतेय आचार्येणच्छेदः परिहारो वा निर्दिष्टस्तंसम्यक् श्रद्धायतस्य करणार्थअभ्युत्तिष्ठेत् । भिक्षुरुपपातस्य आज्ञाया अर्थाय पाठान्तरं भिक्षुभावस्य । भिक्षुत्वस्यार्थाय । मे यथावस्थितं भिक्षुत्वं भूयादित्येवमर्थः द्वितीयमपि वारमवग्रहोऽनुज्ञातव्यः स्यात् । कथमित्याह-अनुजानीत । भदन्तपरमकल्याणयोगिमितमेवमवग्रहग्रहणं गमनादीनामुपलक्षणंमितंगमनं । मितमवस्था मितस्थाननिषीदनत्वग्वर्तनादिअनुजानीत । यथालन्दं यथाकालध्रुवं यदवश्यं कर्तव्यं नियतं यावन्नावधावाभि तावदवश्यमहापनीयं । नित्यं यावत्सहायान्न लभे तावदवश्यमनुष्ठेयं । तथा व्यावृत्तं किमुक्तं भवति ? व्यावृत्य यद्बहुधा उपपातप्रतीच्छनं तत् अनुजानीत ततो गुरुणा अभ्युपगते कायस्य क्रमयुगललक्षणस्य शिरसा संस्पर्श करोति । अथवा कृतिकर्मादिष्वागमनेनिर्गमनेचयः कायसंस्पर्शस्तमप्यनुजानीत । एवं नियट्टेविदोगमाइति । एवममुना प्रकारेण यथाचरिकाप्रविष्टौ द्वौ गमावृक्तोद्वे सूत्रेऽभिहिते । तथा चरिकानिर्वत्तेपि द्वौ गमौ वक्तव्यौ ।
तौ चैवम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org