________________
उद्देशक :-४, मूल - १०२, [भा. १७४९] [भा.१७४९] गोणादीए पविठूधाडतमधाडणेभवेलहुया ।
अहिगरणवसहिभंगा तह पवयणसंजमेदोसा ।। वृ- गवादिके गोश्वच्छगलशुकरादिके प्रविष्टे यदि तान् गवादीन् घाटयति ततस्तत्प्राऽयोगोलकल्पास्तिर्यञ्च इति तद्धाटने भवति प्रायश्चित्तं चत्वारो लघुकाः, तथा ते गवादयो निर्धाटिताः संतो हरितादीनी खादेयुस्ततोऽधिकरणदोषसंभवः । अधाडणत्ति अथ न निर्धाटयति तर्हि वसतिभंगस्तथा प्रवचनेसंयमेचदोषाः प्रवचनविराधना, उपलक्षणमेतत्आत्मविराधनाचेत्यर्थः । तथा हियदिश्वादयो बालमृतकलेवरादिभक्षयन्तस्तिष्ठन्तितदामहती प्रवचनस्य कुत्सेतिप्रवचनविराधना,शूकरप्रभृतयश्च निष्काश्यामानाः कदाचित्संमुखा अपि चलेरन तत आत्मविराधना । श्वादयश्च तिष्ठन्तो मारिमूषिकादिमुपहन्युरितिसंयमविराधना । तदेवं गोणेसाणेत्यादिव्याख्यातम् ।। [भा.१७५०] दुक्खं ठिएसुवसहीपरिकम्मंकीरइत्ति इतिनाउं ।
भिखाइनिगएसुंसअट्टमीसं विमंकुजा ।। वृ- ते गृहस्थाः परिभाक्यन्ति-स्थितेषु साधुषु दुःखं महता कष्टेन वसतेः परिकर्म क्रियते स्वाध्यायभङ्गादिदोषभावात्, गतेषु तुन कश्चिद् दोष इति ज्ञात्वा परिभाव्य भिक्षादिनिमित्तं निर्गतेषु साधुषुसअट्ठत्तिस्वार्थ स्ववसतिबलिष्ठताकरणार्थमिश्रवासंयता अपिसुखेन स्वाध्यायादिकंचकुर्युरिति स्वार्थं संयमनिमित्तंच इदं वक्ष्यमाणंपरिकर्म कुर्युः । तदेवाह[भा.१७५१] उच्छेव बिलच्छगणे, भूमीकम्मेसपुञ्चणामज्जे ।
कुड्डाण लिंपणंदूमणंच एवं तुपरिकम्मं ।। वृ- उच्छेवो नाम यत्र पतितुमारब्धं तत्रान्यस्येष्टकादेः संस्थापनम् । बिलस्थगनं कोलादिकृताबिलेष्विष्टकाशकलादिप्रक्षिप्योपरि गोमयमृत्तिकादिना पिधानम् । भूमिकर्म नाम विषमाणि भूमिस्थानानि भक्त्वा समार्जन्या संमार्जनम् आमर्जनं मृदुगोमयादिना लिम्पन् ।। तथा कुड्यानामेव चमणंतिधवलन एतत्परिकर्म कुर्युः। अत्रैव प्रायश्चित्तविधिमाह- [भा.१७५२] जइ ढक्कतोच्छेवाततिमास बिलेसुगुरुग सुद्धेसु ।
पंचेंदियउद्दाते, एगदुगतिगे उमूलादी ।। वृ-यति यावन्त उच्छेवा ढक्किताः समारचितास्तति तावन्तो लघुमासाः प्रायश्चित्तं, बिलेषुशुद्धेषु पञ्चेन्द्रियजीवरहितेषुस्यगितेषुगुरुगत्तिचत्वारो गुरुमासाः अथ पञ्चेन्द्रियव्याधातो बिलस्थगने अभूत तत एकद्वित्रिषु व्याहतेषु यथाक्रमं मूलादि एकस्मिन् पञ्चेन्द्रियेऽपद्राविते मूलं द्वयोरनवस्थाप्यं त्रिषु त्रिप्रभृतिषुपारांचितमिति ।। [भा.१७५३] भूमीकम्मादीसुफासुग, देसे उहोइमासलहुं ।
सव्वंमिलहुगअफासुएणदेसंमिसब्वे वा ।। वृ-भूमिकर्मादिषु-भूमिकर्मसंमार्जनामर्जनकुड्यलेपनधवलनेषुः । देशतः प्रासुकेषु कृतेषुप्रत्येक प्रायश्चित्तंभवतिमासलघु, सर्वस्मिन्उपाश्रयेषुप्रासुकेषुकृतेषुप्रत्येकंचत्वारोलघुकाः ।अप्रासुकेनापि जलादिना देशतः सर्वतोवाभूमिकर्मादिषुकृतेषु प्रत्येकं चत्वारोलधुकाः ।। [भा.१७५४] सोचा गयत्तिलहुगा अप्पत्तिय गुरुगजंचवोच्छेदो ।
बटुचारणभडमरणे पाहुणनिक्केयणासुन्ने ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org