________________
उद्देशक :-४, मूल - १०२, [भा. १७३८]
उउबद्धम्मि विहारो, एरिसयाणंअनुन्नातो ।। वृ- एतैरनन्तरगाथोक्तैर्गुणैः सम्प्रयुक्ता एतद्गुणसम्प्रयुक्ताः कारणजातेनानन्तरोदितेन केनचित्कारणविशेषेण तावाचार्यादिकावुपाध्यायादिको वा ऋतुबद्धे काले विहरतो न कश्चिद्दोषोऽधिकृतसूत्रेणानुज्ञानात् तथा चाह ईशयोर्ऋतुबद्धे काले अधिकृतसूत्रेण विहारोऽनुज्ञातो दोषाभावात् कारणविशेषस्य च गरीयस्त्वात् ।। जातेतिचत्वारः कल्पाः सूचिताः, तानेवाह[भा.१७३९] जातोयअजातो वा दुविहो कप्पोउहोति नायव्यो ।
एकेको विय दुविहो, सम्मत्तकप्पो यअसमत्तो ।। वृ-द्विविधः खलुकल्पोभवतिज्ञातव्यस्तद्यथा जातोऽजातश्च । एकैकोऽपिच द्विधा-समाप्तकल्पः असमाप्तकल्पश्च । एतानेव चतुरो व्याख्यानयति[भा.१७४०] गीयत्थो जायकप्पोऽगीतोखलुभवे अजातोतु ।
पनगंसमत्तकप्पो, तदूनगो होति असमत्तो ।। वृ- जातकल्पो नाम यो गीतार्थः सूत्रार्थतदुभयकुशलो, ऽगीतोऽगीतार्थः खलु भवेदजातोऽजातकल्पः,समापतकल्पोनामपरिपूर्णसहायः, सचजधन्येन पञ्चकंपञ्चकपरिमाणऋतुबद्धे काले, वर्षाकाले सप्तपरिमाणः, तदुनकस्तस्मात् पञ्चकात्सप्तकाद्वा हीनतरः कल्पो भवत्यसमाप्तो अपरिपूर्णसहायत्वात् ।। अत्रभंगचतुष्टयं, तदेवाह[भा.१७४१] अहवा जातोसमत्तो, जातोचेव यतहेव असमत्तो ।
असमत्तोजातोय, असमत्तोचेव उअजातो ।। वृ- अथवेति प्रकारान्ते पूर्व कल्पचतुष्टयं सामान्यतः प्ररुपितमिदानी संयोगतः प्ररुप्यते, जातकल्पोऽपि समाप्तकल्पोऽपीत्येको भङ्गः, जातकल्पोऽसमाप्तकल्प इति द्वितीयः, अजातकल्पः समाप्तकल्पइतितृतीयः, अजातकल्पोऽसमाप्तकल्पइति चतुर्थः । अत्र प्रथमभङ्गः शुद्धःशेषेषुत्रिषु भङ्गेषु यतना कर्तव्या ।।तेसिंजयणेतिसूचागाथोक्तं पदंव्याख्यानयन्प्राह[भा.१७४२] तेसिंजयणा इणमो, भिक्खग्गह निक्खमप्पवेसेय ।
अनुन्नवणंपिय, समगंबेतिय गिहि दिज ओहाणं ।। वृ- तेषामाद्यवर्जानं त्रयाणां भङ्गानामियं यतना, समकमेककालं भिक्षाग्रहाय, उपलक्षणमेतत् विचाराय च, निष्क्रमः समकमेव चावग्रहस्यानुज्ञापनम् । इयमत्रभावना-भिक्षाग्रहणाय विचाराय वा सर्वमुपकरणमादाय समकमेव निष्क्रामतः समकमेव च प्रविशतः । तथा वसतिं प्रथमं याचमानौ समकमेव शय्यातरमनुज्ञापयतः तथा निर्गच्छन्तौ समकमेव शय्यातरसमीपमुपगम्य ब्रुवाते, यथा गृहे गृहस्य प्रतिश्रयस्य उपधानंस्थगनं दद्यादिति।। उउबद्धेतिपदव्याख्यानार्थमाह[भा.१७४३] उंउबद्धे अविरहियं, एतंजंतेहिं होइ साहूहिं ।
कारेइ कुणइव सयं, गणीवि ओलोयणमभिक्खं | वृ- ऋतुबद्धे काले तयोः कारणवशतस्तथास्थितयोस्तत्स्थनमागच्छद्भिश्च भिक्षार्थ ग्राम प्रविशभिर्विचारार्थाय यथा वा निर्गत्य मिलनार्थमायद्भिर्गच्छद्भिश्च पुनः स्वस्थानं प्रतिचलद्भिः साधुभिरविरहितं भवति ।। आलोयगत्ति पदं व्याख्यानयति-यो-ऽसौ गणी आचार्यः सोऽपि तयोर्द्धयोर्जनयोः अवलोकनां गवेषणामभीक्ष्णंद्वितीयेतृतीयेवा दिने स्वयं करोति, अन्यैर्वा कारयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org