SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ व्यवहार-छेदसूत्रम् -४/१०२ ततस्तेऽपिनिग्रहीतव्याः, अन्यथाप्रवचनोपघातस्ततस्तन्निग्रहणेऽपिव्याकुलना;तथा महतिगणेबहवः प्राधूर्णकाः समागच्छन्ति, ततस्तेषां विश्रामणया पर्युपासनया च व्याघातः । तथा बहवः खलु महति गणेग्लानास्तेषांयावदालोचनाश्रूयते,तदाव्याकुलना । तथामहतिगणेभूयसांप्राघूर्णकादीनांप्रायोग्यं भैक्षंदुर्लभमितिसाधवः केऽपिकुत्राप्यन्यत्रप्रेषणीयाइतिव्याघातः,वाउलणेसा इत्यादिएषाव्याकुलना यथा कल्पे कल्पाध्ययने पञ्चमे उद्देशे सविस्तरं भणिता तथात्रापि द्रष्टव्या, ।। नवमे पुव्वम्मीति व्याख्यानयतिनवमेदशमे पूर्वेऽभिनवे गृहीते यदिसततंततो नश्येतामतोऽर्थद्वयोर्विहारः।। [भा.१७३५] असिवादिकारणेहिं उम्मुगनायंति होज जादोन्नि । सागरसरिसं नवमंअतिसयनयभंगगहणत्ता ।। वृ- अशिवं नाम मारिः, सा उपस्थिता, तत्र च ज्ञातमुल्मुकं यथा उल्मुकानि बहून्येकत्राहृतानि ज्वलन्ति एकं द्वौ वा न ज्वलतः, एवं त्रिप्रभृतिषु बहुषु मारिः प्रभवति, नैकस्मिन् द्वयोर्वा, तत एवमशिवकारणेनादशब्दादवमौदर्येणराजप्रद्वेषतोवागणभेदस्तावद्भवति यावत् पृथक् पृथग द्वावपि भवेतामतो नानुपपन्नो द्वयोर्विहारः । । सागरेति व्याख्यानयति-सागरसदृशं स्वयंभूरमणजलधितुल्यं नवममुपलक्षणमेतत् दशमंचपूर्व, कस्मादित्याह-अतिशयनयभङ्गादनेकरतिशयैरनेकैर्नयैरनेकैश्चि गुपिलत्वात् । ततोऽगीतार्थानामतिशयाकर्णनमा मूत् । नयबहुलत?आ भङ्गबहुलतयावाबहूनांमध्ये परावर्तनंदुष्करमितिद्वयोर्विहारः । अन्यच्च[भा.१७३६] पाहुड, विजातिसया, निमित्तमादी, सुहंचपइरिक्के । छेदसुयंमिव गुणणा अगीयबहुलंमिगच्छंमि ।। वृ-प्राभृतंयोनिग्राभृतंगुणयितव्यम् । विद्यातिशयानाम विद्याविशेषायैराकाशगमनादीनिभवन्ति ते वा परावर्तनीया वर्तन्ते । निमित्तमतीतादिभावप्ररुपकम् आदिशब्दात् योगा मन्त्राश्च परिगृह्यन्ते । एते सर्वेऽपि सुखं सुखेन प्रतिरिक्त विविक्ते प्रदेशेऽभ्यस्यन्ते, न अगीतबहुले अगीतार्थसंकुले गच्छे छेदश्रुतस्य व्यवहारादेः, गाथायांसप्तमीषष्ठ्यर्थे, गुणना परावर्तनां(नं) कर्तुशक्यम्, तेषामगीतार्थानां कर्णाभ्यटनतः श्रुत्वा विपरिणामतो गच्छान्निर्गमनं मा भूदिति, सूरेरुपाध्यायस्य वात्मद्वितीयस्पान्यत्र गमनम् ।।सम्पतियादृशे द्वयोरन्यत्रगमनमुचितंतादृशमाह[भा.१७३७] कयकरणिज्जाथेरा सुत्तत्थविसारया सुयरहस्सा। जेयसमत्था वोढुंकालगवाणंउवहिदेहं ।। वृ-कृतकरणा नाम गीतार्थतया परिणामकतया चान्पदापि अन्यैः सहानेकश ईदृशानि कार्याणि कृतवन्तः, यद्यपिचकदाचिद्वितीयः सहायोन कृतवान्तथापियोग्यतयास कृतकरणीयइवद्रष्टव्यः, स्थविरः श्रुतेन पर्यायेण च, तथा सूत्रार्थयोर्विशारदाः सूत्रार्थविशारदाः, तथा श्रुतानि रहस्यानि अनेकान्यनेकशो यैस्ते श्रुतरहस्या इति सहायं प्रति विशेषणम् । सूरेरुपाध्यायस्य वा पूर्वगतसूत्रार्थधारिणोऽधिगतच्छेदश्रुतस्य चश्रुतरहस्यत्वाव्यभिचारात् ।तथा द्वयोरेकतरस्मिन्काले गतेऽपरेण शरीरपारिस्थापनिकां कर्तुगच्छताद्वयोरप्युपाधिःशून्यायां वसतौनमोक्तव्यो,मादस्यवस्तमपहाधुरिति कृत्याद्वयोरप्युपर्धिमृतकशरीरंचान्यरेणवोढव्यम् ।ततो येकालगतानांदेहंद्वयोरुपधिंचवोढुंसमर्थास्ते अधिकृतमूत्रविषयाः । तथा चाह[भा.१७३८] एयगुणसंपउत्ता,कारणजाएणतेदुयग्गावि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy