SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ४८ व्यवहार - छेदसूत्रम्-१उच्चारप्रश्रवणखेलमल्लकादिरूपः आर्यिकाणामधिको चारकः उत्कृष्टोऽक्षाः संस्तारक एकांगिका इतरो वा, द्वितीयपदे पुस्तकपंचकं फलकंच उक्तंच - अक्खासंथारो वादुविहो एगंगिको वइयरोवा । बिइय पय पोत्थपनगंफलगंतह होइ उक्कोसो ।। तत्रोत्कृष्टमुपधिं यदि यथाकालं न प्रत्युपेक्षते चतुर्मासलघु मध्यमं यदि न प्रत्युपेक्षते तदा मासगुरु जधन्यं न प्रत्युपेक्षते पंचरात्रिदिवानि; दोषैः प्रत्युपेक्षते भासलघु पोसहिय तवे य तहा इति पोषं दधाति इति पोषधं अष्टमी पाक्षिकादि, पोषधे भवं पौषधि तच्च तत् तपश्चर्या पौषधिकतपरतस्मिन्नक्रियमाण इतिसामर्थ्यात्गम्यते, सामान्यतोमासनिष्पन्नंप्रायश्चित्तमिति योजना, तद्यथाअष्टम्यां चतुर्थन करोति मासलघु पाक्षिके न चतुर्थं करोति मासगुरु चतुर्मासके षष्ठस्याकरणे चतुसिलघु सांवत्सरिक अष्टमं न करोति चतुर्मासगुरु, तथा एतेष्वेव अष्टमीपाक्षिकादिपुचैत्यानां जिनबिंबानांच शब्दात्ये अन्यस्यां वसतौसुसाधवस्तेषामप्यवंदनेमासलधुतथायेचैत्यभवनस्थितावकालिकंप्रतिक्रम्य अकृते आवश्यक प्रभातेच कृते आवश्यकेयदिचैत्यानि नवंदंते तेषामपिमासलघुउक्तंचास्यैव व्यवहारस्य चूर्णौ एएसु चैव अट्ठमीमादीसुचेइयाइंसाहुणो वाजे अणाए वसहीए ठिया तेन वंदति मासलघु जइचेइयघरे ठिया वेयालियं कालं पडिक्कंता अकए आवस्सए गोसे य कए आवस्सए चेइए न वंदंति तो मासलहु इति, सांप्रतमेनामेवगाथा व्याचिख्यासुः प्रथमतः सज्झायस्स अकरणे इत्येतत्व्याख्यानयति । [भा.१३०] सुतत्थपोरिसीणं अकरणे मासो उहोइगुरुलहुगो । चाउक्कालंपोरिसिउवायणंतस्सचउलहुगा ।। वृ- सूत्रार्थपौरुष्योः सूत्रपौरुष्याः अर्थपौरुष्या इत्यर्थः अकरणं यथाक्रमं गुरुमासो लघुमासः, अर्थपौरुषी हिप्रज्ञादिविशिष्टसामग्यपेक्षासूत्रायत्ताच, सूत्रपौरुषी त्वभिनवदीक्षितनापिजडमतिनापि च यथाशक्ति अवश्यं कर्तव्या, सूत्राभावे सर्वस्याप्यभावादतः सूत्रपौरुष्या अकरणे मासगुरु, अर्थपौरुष्या अकरणे मासलघु, द्वयोः सुत्रपौरुष्योरकरणे ही लघुमासौ तिसृणां पौरुषीणामकरणे त्रयो लघुमासाइतिसामर्थ्यात्प्रतिपत्तव्यं, चाउक्कालमित्यादिचतुःकालं दिवारात्रिगतंप्रथमचरमप्रहररुपेषु चतुषु कालेषु सुत्रपौरुषीरवपातयतो भ्रंशयतोऽकुर्वत इत्यर्थः चतुर्लघुका श्चत्वारो लघुमासाः संप्रति काउसग्गे इतिव्याख्यानयति ।। भा.१३१) जइ उसगे न कुणइतइमासा निसणए निवणेय । सव्वं चेवावस्संन कुणइतहियंचउलहंति ।। वृ-आवश्यक प्राभातिको वैकालिकेवा यावतः कायोत्सर्गान्नकरोतिततिमासास्तस्य प्रायश्चित्तं, एकं चेन्न करोति एकोलघुमासः । द्वौ न करोति द्वौ लघुमासौ त्रीन्न करोति त्रयो लघुमासा तथा निषण उपविष्टो निर्वन्नः पतितः सुप्त इत्यर्थः । चशब्दात् प्रावरण प्रावृतो वा यद्यावश्यकं करोति तदा सर्वत्र मासलघु, यदि पुनःसर्वमेवावश्यकं न करोतिचतुर्लधुचत्वारोलघुमासा प्रायश्चित्तं । अधुनाअपडिलेहा इतिव्याचष्टे ।। [भा,१३२] चाउम्मासुक्कोसे, मासियमज्झे यपंचउजहन्नो । उवहिस्स अपहाएएसा खलु होइआरुवणा ।। वृ. उत्कृष्टे उत्कृष्टस्य प्रागुक्तस्वरूपस्य उपधेरप्रेक्षायामप्रत्युपेक्षायां चत्वारो लघुमासा मध्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy