________________
४६४
व्यवहार - छेदसूत्रम्-१-३/९४ निबिडकर्मणाऽनर्वाक परिसंसारे क्षिप्तत्वात् । [भा.१७२२] थिरपरिबाडीएहिंसंविग्गेहिं अनिस्सियकरहिं ।
. कज्जेसु जंपियव्वं अनुओगियं गंधहत्थीहि ।। वृ- स्थिराः सूत्रार्थपरिपाट्यो येषां ते स्थिरपरिपाटीकास्तैः संविग्नैः मोक्षाभिलाषिभिरनिश्रितको रागद्वेषपरिहारतो यथावस्थित व्यवहारकारिभिः आनुयोगिक गन्धहस्तिभिरनुयोगधरप्रकागडैः कार्येषु जल्पितव्यं, नशेषैरिति । एतदेवभावयति[भा.१७१५] एयगुणसंपउत्तो ववहाईसंघमझयारंमि ।
एयगुणविप्पमुक्के आसायणसुमहती होति ।। वृ- एतैरनन्तरगाथयोक्तैः स्थिरपरिपाटीकत्वादिभिर्गुणैः सम्प्रयुक्तः सङ्घमध्ये व्यवहरति । एतद्गुणविमुक्ते पुनर्व्यवहरतिसुमहती आशातनाभवति, न केवलमाशातनाव्रतलोपश्च तथा चाह[भा.१७१६] आगाढमुसावादी वितियतईए य लोवतिवएऊ ।
माईय पावजीवी असुईकन्ने कणगर्दडे ।। वृ-आगाढे कुलकार्वे गणकार्ये सङ्घकार्ये वा अनाभाव्यस्वा भावस्या वा नाभाव्यस्य ज्ञानतया रागद्वेषाज्ञानस्य वा भणनात् मृषा वदतीत्येवं शील आगाढे मृषावादी द्वितीयतृतीयमृषावादादत्तादानविरतिरूपे व्रते लोपयति, । तत्र द्वितीयव्रतलोपो मृषावादभणनात् तृतीयव्रतलोपो ना भाव्यं ग्राहयतोऽनुमतिदोषभावात् तु शुद्वात् शेषाण्यपि व्रतानि लोपयति । एकव्रतलोपे सर्वव्रतलोप इति वचनात् ।मायीसूत्रमुल्लङ्घय शठोत्तरैर्व्यवहारकरणात्पापजीवीदुर्व्यवहारादिकरणात्परदत्तापराहाराधुप जीवनात्अतएवाशुचिम॒षावादित्वादिदोषदुष्टत्वात् । अशुचित्वादेवयथा कनकदण्डः संज्ञालिप्तः स्पृष्टुं नकल्पते । एवमेषोऽपिन कल्पते । यावजीचमाचार्यत्वादिपरेषुस्थापयितव्यमिति ।
उद्देशक-३: समाप्त मुनि दीपरत्नसागरेणसंशोधिता सम्पादिता व्यवहारसूत्रेतृतीयोद्देशकस्य संधदासगणि विरचितंभाष्यं एवं मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता ।
३६/१ तृतीयं छेदसूत्रं "व्यवहारं" समाप्तम् |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org