________________
व्यवहार - छेदसूत्रम्-१-३/९४ - वृ-अथवाग्राहको नाम शिष्यः गृह्णातीतिग्राहकः इतिव्युत्पत्तेर्येन तिसृभिः परिपाटीभिः निर्विशेषं व्यवहारादिकंगृहीतंपरिपाटया प्रथमतः पश्चाद्गुणितमनेकवारमभ्यस्सीकृतमवधारितं तात्पर्यग्रह्णतो हृदयं विश्रामितंसभवति व्यवहारी ।। [भा.१७०९] पारायणेसम्मत्ते, थिरपरिवाडी पुनो उसंविग्गे !
जोनिग्गओ वितिओगुरुहिंसो होइववहारी ।। वृ-पारायणेसूचकादिलक्षणे त्रिविधेसमाप्तेऽपिपुनर्यः संविग्ने संविग्नसमीप स्थिरपरिपाटीरभूद्यश्च गुरुभिर्वितीर्णोऽनुज्ञातः सन् निर्गतो विहारक्रमेणसभवति व्यवहारी, नशेषस्तथा चाह[भा.१७१०] पडिनीयमंदधम्मो. जो निणतोअप्पणो सकम्महि ।
नहसो होइपमाणं, असंभतो देस निग्गमने।। - आत्मनः परेषां च प्रतिकूलः प्रत्यनीको धर्मे मन्दो मन्दधर्मः राजदन्तादि दर्शनात् धर्मशद्वस्य पानिपातः, संवमे शिथिल इत्यर्थः । तथा य आत्मनः स्वकर्मभिः स्वव्यापारर्निगतो विहारक्रमेण न तु गुरुभग्नुज्ञातः सन्हुनैवभवति प्रमाणमसमाप्तश्च भवतिदेशनिर्गमनेन देशेषु विहारक्रमकरणे ।। [भा.१७११] आयरियादेसाधारिएणअत्येणगुणिवक्खारिएण ।
तो संघमज्झयारेववहरियव्वं अनिस्साए ।।। वृ-यत एवं विपक्षे दोषास्तस्मात्सङ्घमध्यकारे कारशद्वोऽत्र स्वरुपमात्रेसङ्घमध्ये व्यवहर्त्तव्यमर्थेन किं विशिष्टेनेत्याहाचायदिशात् आचार्यकथनादवधारितेन एतेन सम्प्रदायागतत्वमावेदितं, । तथा गुणितेन अनेकशः परावर्तित्वेन अक्षरितेन कस्मलक्षणतः स्थिरतयावस्थितसारेण एवं भूतेनाप्यर्थेन व्यवहर्तव्यमनिश्रया रागद्वेषाकरणेनान्यथा अर्थस्य तत्वतोऽक्षरितत्वानुपपत्तेः । [भा.१७१२] आयरियआणादेसाधारिएणसच्छंदबुद्धिरइएण ।।
सचित्तखेतमीसे जो ववहरतिनसोधनो ।। वृ- यः सचित व्यवहारे क्षेत्रव्यवहारे मिश्रव्यवहारे च प्रागुक्तस्वरुपाऽर्थे न व्यवहरति आचार्यानादेशात् धारितेन आचार्योपदेशमृते धारितेन कथमित्याह-स्वच्छन्दबुद्धिरचितेन स्वेच्छया निजबुद्ध्यानिजबुद्धिकलितेन नसधन्यः श्रेयान् इति । यतः. [भा.१७१३] सोभिमुहेइ लुद्धो संसारकडिल्लगंमि अप्पाणं ।
उम्मग्गदेसणाएतित्थयरासायणाएय।। वृ-स उन्मार्गदशनया तीर्थकराणामाशातनया चात्मानं संसारगहनेऽभिमुखयत्यभिमुखं करोति पातयतीत्यर्थस्तस्मानसधन्यः । अधुनास्यैव प्रायश्चित्तमाह[भा.१७१४] उममगदेसणाएसंतस्स छायणाएमगस्स,
ववहरिओमवायंते, मासाचत्तारिभारिया ।। वृ- उन्मार्गदेशनया सतो मार्गस्याच्छादनया च व्यवहरन् गीतार्थेः प्रतिषिध्यंते प्रतिषेधितश्च व्यवहरितुमशक्नुवतिप्रायश्चित्तंचत्वारो गुरुकामासाः । [भा.१७१५] गारवरहिएणतहिंववहरियव्वंतुसंघमझंमि ।
को पुन मारवडणमो परिवारादीमणेयव्यो ।। वृ-तत्रापि गौरवरहितेन संघमध्ये व्यवहर्तव्यं । किंपुनर्गौरवमिति चेत् सूरिराह-इदं वक्ष्यमाणं परिवारादिकं परिवारादिविषयंज्ञातव्यम् । तदेवाह[भा.१७१६] परिवार इड्डीधम्मकहवादिखमगा तहेव नेमित्ती । .
विज्जा रायनियाए गारवी इति अठहा होइ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org