________________
उद्देशक : ३, मूलं : ९४ [भा. १६३३]
[भा. १६३३]
४५१
अहवादीवगमेयं जह पडिसिद्धो अभिक्खमाइन्नो ।
सागारिसेवि एवं अभिवक्ख ओहावणकरीय ।।
वृ- अथवेति पूर्ववत् दीपकमेतत् सप्तसूत्रकं पूर्वसूत्रेष्वधिकार्योद्दीपनार्थमिदं सूत्रसप्तकमधिकमेवार्थमुपदर्शयति । यथानेन सूत्रसप्तकेन अभीक्ष्णं मायी बहुशो मायावी यावज्जीवमाचार्यत्वादिषु, पदेषु प्रतिषिद्धस्तथा मैथुनसूत्रपञ्चकमध्ये यो भिक्षुसूत्रे निक्षेपणसूत्रद्वये च सागारिकसेवी मैथुनप्रतिसेवी संवत्सरत्रयातिक्रमे योग्य उक्तः । सोऽप्येवमभीक्ष्णं सागारिकसेवी सन् यावज्जीवं प्रतिषिद्धो द्रष्टव्यः । तस्यापि यावज्जीवमाचार्यत्वादीनि न कल्पन्ते इतिभावस्तथा अवधावनसूत्रेयो भिक्षुसूत्रे निक्षेपणसूत्रद्वये वर्षत्रयातिक्रमेण योग्य उक्तः सोऽपि यदि अभीक्ष्णमवधावनकारी भवति ततस्तस्यापि यावज्जीवमाचार्यत्वादिपदप्रतिषेधः । अनेन सम्बन्धेनायातस्यास्य व्याख्या- भिक्षुर्बहुश्रुतं सूत्रं यस्यासौ बहुश्रुतस्तथा बहुरागमोर्थपरिज्ञानं यस्य स बह्वागमः । तथा कुलप्राप्तं गणप्राप्तं संघप्राप्तं यत्सचित्तादिकं व्यवहारेण च्छेत्तव्यं कार्यं तथा आगाढागाढं कारणं तेषु आगाढागाढेषु कारणेषु बहुप्रभूतेषु बहुशोऽनेकप्रकारं मायी मायावान् मृषावादी अशुचिराहारद्यर्थमव्यवहारी पापजीवी कोण्टलाद्याजीवी तस्य यावज्जीवं तत्प्रत्ययं मायित्वमृषावादित्वादिप्रत्ययं न कल्पते । आचार्यत्वं वा यावत् गणावच्छेदित्वं वा उद्देष्टुंवाऽनुज्ञातुं स्वयं वा धारयितुं एवं प्रथमसूत्रसंक्षेपार्थः । एवं गणावच्छेदसुत्रं आचार्योपाध्यायसुद्रं चभावनीयं । पाठोऽपि सुप्रतीतः । यथाच त्रीणि सूत्राणि एकत्वेनोक्तानि इत्येवं त्रीणि सूत्राणि बहुत्वे वक्तव्यानि सप्तमं बहुभिक्षुबहुगणावच्छेदि बह्वाचार्यविषयं तदपि तथैव । अत्र भाष्यकृदाहएगत्त बहुत्ताणं सव्वेसिंतेसिमेगजातीणं । सुत्ताणं पिंडेणं वोच्छं अत्थं समासेणं ।।
I
[ भा. १६३४ ]
वृ- एकत्वबहुत्वादिसम्बन्धिनां सर्वेषामेतेषां सूत्राणामेकजातीयानामेकप्रकाराणां पिण्डेनाप्युक्ती वैचिक्त्येन प्रतीतः । तत्र प्रथमत एकत्वबहुत्वविषया वाक्षेपपरिहारावाह | [भा. १६३५] एगत्तियसुत्ते संभणिएसुं किं पुनो बहुगणं । चोयग सुणसू इणमो जं कारणमो बहुग्गहणं ।।
I
वृ- एकत्वेनैकवचनेन निवृत्तान्यैकत्विकानि तेष्वेकत्विकेषु किं पुनर्बहुप्रहणं । बहुत्वविशिष्टसूत्रचतुष्टयोपादानं सूरिराह- यत्कारणं येन कारणेन मो इति पादपूरणे बहूग्रहणं बहुष्वपि विशिष्टसूत्रोपादानं तत्कारणमिदं हे चोदक श्रृणु । तदेवाह
[भा. १६३६]
लोगंमि सयमवज्झं होइ अदंडं सहस्समा एवं । होहिति उत्तरियम्भि विउत्ताउकया बहुकएवि ।।
बृ- लोके बहुभिरकृत्ये सेवितेऽयं न्याय: शतमवध्यं सहस्त्रमदण्ड्यं ततएवमौत्तरिकेऽपि लोकोत्तरिकेऽपि व्यवहारे प्रसङ्गोमा भूत इतितत्प्रतिषेधार्थं चत्वारि सूत्राणि बहुकेऽपि बहुवचने कृतानि । साम्प्रतमागाढागाढकारणादिनि पदानि व्यचिख्यासुराह
[भा. १६३७]
कुलगणसंधपत्तं सचित्तादीउ कारणागाढं । छिद्दाणि निरिक्खता मायी तेनेव असुतीओ ।।
वृ-सचित्तनिमित्तो अचित्तनिमित्तो वा यो व्यवहारः कुले क्षिप्तो यथेदं सचित्तादिकं विवादास्पदीभूतं कुलेन च्छेत्तव्यमिति तत्कुलप्राप्तमेवं गणप्राप्तं सङ्घप्राप्तं भावनीयं । यत्र यत्सचित्तादिकं विवादास्पदीभूतं व्यवहारेण च्छेद्यतया कुलप्राप्तं वा गणप्राप्तं वा तत्कारणागानं कारणं तथाकथमहमेनं व्यवहारमाहाराद्युपग्रहे वर्तमानं तोज्झितंच्छिद्यामिति । बुद्ध्या परेषां च्छिद्राणि निरीक्ष्यमाणो मायी तेनैव मायित्वेनैव सोऽशुचिः तमेवाशुचिं द्रव्यभावभेदतः प्ररूपयति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org