SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छेदसूत्रम् - १- ३/८७ स्वदेशेऽकृत्यसेवी चतुर्थो विहारभूमौ स्वविहारभूभावकार्यसेवी पंचमी निक्षिप्तगणः कृतयोगी कृतयतनायोगोऽपि सन् स्वदेशे भवत्यकार्यसेवी । तथाचाह - जइ सेवंतीत्यादि । पञ्चाप्यकरणमकरणीयं मैथुनमित्यर्थः सेवन्तेपञ्चापि पञ्चानामपि आचार्यादिपदानां बाह्या भवंति एतदेवाहआयरियमाइआणं, पंचहं जज्जिय अनरिहाऊ । चउगुरुसत्तरतादि, जाव आरोवणा धरते ।। [भा. १६२९] वृ-पंचापि पदानां यावज्जीवमनर्हाः चउगुरुय इत्यादि । यदिपुनस्तेषामनर्हाणामपियोगणं निसृजति तेषामन्यतमो वा यो धारयति तदा तस्योभयस्यापि सप्तरात्रं तस्मिन् गणं धारयति आरोपणं प्रायश्चित्तं चत्वारो गुरुकाः, । आदिशद्वादन्यसप्तदिनातिक्रमे षट्गुरु । सत्तरतारियाव आरोपणधरेते आचार्यादीनां पञ्चानामपि पदानां यावज्जावलघुकस्ततोऽन्यसप्तदिवसातिक्रमे षट्गुरुकच्छेद एतावता कालेन यदि पर्यायो न च्छिन्नस्ततस्त्रिचत्वारिंशत्तमे गणं निस्रष्टुर्द्धारयतश्च प्रायश्चित्तं चतुश्चत्वारिंशत्तमे दिवसेऽनवस्थाप्यं पञ्चचत्वारिंशत्तमे पाराञ्चितमेव तदारोपणमिति । ४५० [भा. १६३० ] अहव अक्खित्तगणाइएस चउसुंपि सोलसउभंगो । चरमे सुत्तानिवातो जावज्जिय अनरिहा सेसा ।। बृ- अथवेति प्रकारान्तरे अनिक्षिप्तगणोऽकृतयोगी जन्मतः स्वदेशेऽकृतसेवी बिहारभूमावकृत्यकारीत्येषंरूपेषु चतुर्षु पदेषु षोडशभङ्गस्ते च प्रस्तारतोऽमी अमीषां षोडशानां भङ्गानां मध्ये यश्चरमो भङ्ग स्तत्र सूत्रनिपातः । भिक्षुसूत्रस्य निक्षिप्तसूत्रद्वयस्य चावकाशः शेषाः पुनः पञ्चदशस्वपि भङ्गेषु वर्तमाना यावज्जीवमनर्हाः । मू. (८८) भिक्खू बहुस्सुए बब्भागमे बहुस्सो बहु आगाढागाढेसु कारणेसु माई मुसावाई असुई पावजीवी जावज्जीवाए - (जाव) धारेतएवा । भू. (८९) गणावच्छेइए (जाव) धारेत्तए वा । मू. (९०) आयरिय उवज्जाए जाव धारेत्तएवा । भू. (९१) बहवे भिक्खुणी बहुस्सुया बब्भागमा बहुसो (जाव) नवरं तेसिं तस्स धारेतए । मू. (९२) बहवे गणावच्छेइया (जाव) धारेतए वा । मू. (९३) बहवे आयरिय उवज्झाया (जाव) धारेत वा । मू. (९४) बहवे भिक्खुणो बहवे गणावच्छेइया बहवे आयरिय उवज्झाया (जाव) धारेत्तए वा । वृ- सूत्र सप्तकं अथास्य सूत्रस्य पूर्वसूत्रैः सह सम्बन्धमाह [भा. १६३१] वय अतियारे पगते अयमवि अन्नो उ तस्स अइयारो । इत्तिरियमत्तं वा वृत्तं इदमावकहियं तु ।। वृ- पूर्वसूत्रेषुव्रतस्य । मैथुनविरत्यादेरतिचारः प्रकृतोऽधिकृतोऽयमपिचान्यस्तस्य व्रतस्यातिचारः इति तत्प्रतिपादनार्थमिदं सूत्रसप्तकं अथवा पूर्वसूत्रेषु त्रीणि संवत्सराणि यावदाचार्यत्वादीनि न कल्पन्ते इति वचनादित्वरमपात्रमुक्तमिदं पुनः सूत्रसप्तकेनाभिधीयमानमपात्रं यावत्कथितं बहुशो यावज्जीवमाचार्यत्वादीनि कल्पन्त इति वक्ष्यमाणात् । [भा. १६३२ ] अहवा एगहिगारो उद्देसो तइओ उववहारी । केरिसितो आयरिओठविज्जइ केरिसो नेति ।। वृ- अथवेति सम्बन्धस्य प्रकारान्तरोपदर्शने व्यवहारे तृतीयोद्देशकाधिकारे यथा कीदृशः आचार्यः स्थाप्यते । कीदृशो न तत्र यादृशः स्थाप्यो यादृशश्च न स्थाप्यः तादृश उक्तो मयन्यो न स्थाप्यत इति प्रतिपादनार्थमेप सूत्रसप्तकारंभः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy