________________
पीठिका - [भा. ११३] __ वृ-एवमेवभक्तपानयोरिवशेषेष्वपिस्थानेषुशयनसनादिषुयावत्नाद्यापिवेलाभवतितावत्यावत् प्रतीक्षणंतदेतदत्रांतरं तस्मिन् अंतरे निषद्यायामुपवंशन केवलं गमनंप्रतिक्रमणीयंभवति तथाहिशयनं नाम संस्तारकादि आसनं पीठकादि तद्याचनार्थं वचनापि गतस्तत्र ग्लानचारित्वादिभिः कारणः शरीरदुर्बलतया जातपरिश्रमो विश्रमितुकामः,संस्तारकादिप्रभुर्वा न विद्यतेक्वचिदन्यत्रगतत्वात्ततस्तं प्रतीक्षितुकामएपिथिकपापविशोधनायगमनं प्रतीक्रमतीतिआगमनं जंतत्तोइतिएवंभक्तपानाद्यर्थं विश्रभ्य कार्यसमाप्तौ ततः स्थानात्यदा भूयः स्वोपाश्रये प्रत्यावन्नते तदा केवलमागमनं प्रतिक्रमणीयं भवति यदि पुनरेतेष्वेव प्रयोजनेषु नोक्तप्रकारेणापांतराले विश्रमणं भवति तदा निरंतरे भवति उक्तलक्षणस्यांतरस्याभावेगतागतंगमनागमनंसमुदितंप्रतिक्रमणीयंजायतेएवमर्हच्छमणशय्यास्वपि गमनमागमनं गमनागमनं च प्रतिक्रमितव्यंभावनीयं, तद्यथा पाक्षिकादिषु जिनभवनादौ चैत्यवंदको गत्वायदास्नानादिदर्शननिमित्तमैर्यापथिकीप्रतिक्रम्य विश्राम्यतितदा केवलंगमनमेव प्रतिक्रमणीयं, ततः स्वोपाश्रये प्रत्यायातावागमनं विश्रामणासंभवेगमनागमनमिति, तथापाक्षिकादौयेऽन्यवसतिषु सुसाधवस्तेऽश्यं वंदनीय इति विधिस्ततस्तत्र वंदको गतो यदा विश्राम्यति तदागमनं, ततः स्वीपाश्रये प्रत्यागमने आगमनं, विश्रामणाभावे गमनागमनं प्रतिक्रमणीयमिति; उच्चारे प्रश्रवणे च हस्तशताद् बहियुत्सृष्टेऽपांतराले प्राये विश्रामणासंभवात् गमनागमनं समुदितं प्रतिक्रमणीयं भवति, यदापि हस्तशतस्याम्यंतरे उच्चारं प्रश्रवणं तन्मात्रकं वा परिष्ठापयति तदापि विचारे इति वचनात एपिथिकीप्रतिक्रमणपुरस्सरः पंचविंशत्युच्छ्रासप्रमाणः कायोत्सर्गः प्रायश्चित्तं, संप्रति सुत्ते इति पदं व्यातिख्यासुराह - [भा.११४] उद्देससमुद्देसे सत्तावीसंतहा अनुनाए ।
अठेवयऊसासा पठवणा पडिक्कमणमादी ।। वृ-उद्देशोवाचनासूत्रप्रदानमित्यर्थः समुद्देशोव्याख्याअर्थप्रदानमितिभावः, अनुज्ञासूत्रार्थयोरन्चप्रदानं प्रदानं प्रत्यनुमननंएतेषु तथेतिशब्दोऽनुक्तसमुच्चयार्थस्तेन श्रुतस्कंधपरिवर्तने अंगपरिवर्तन च कृते तदुत्तरकालमविधिसमाचरणपरिहाराय प्रायश्चित्तं कायोत्सर्गः सप्तविंशत्युच्वासप्रमाणं पर्यन्तैकपादहीनः समस्तश्रतुर्विंशतिस्तवस्तत्र चिंतनीय इति भावः, अद्वेवय इत्यादि । प्रस्थापन स्वाध्यायस्य प्रतिक्रमणःकालस्य तयोःकरणेकायोत्सर्गःप्रायश्चित्तमष्टावेवोच्छासः अष्टोच्छ्रासप्रमाणः आदिशब्दात्पानकमपिपरिस्थाप्यापथिकी प्रतिक्रमणोत्तरकालंकार्योसर्गाष्टोच्यासप्रमाणः करणीय इति द्रष्टव्यमेतच्चास्यैव व्यवहारस्य चूर्त्यां दृष्ट्रालिखितमिति । अत्रैवाक्षेपमभिधित्सुराह - [भा.११५] पुव्वं पट्टवणाखलु उद्देसाईयपच्छत्तो होति ।
पट्टवणुद्देसादिसु अनानुपुव्वी कया किंनु ।। वृ-ननुपूर्व प्रस्थापनाखलुस्वाध्यायस्य क्रियते, पश्रादुद्देशादयो भवंति,ततः प्रस्थापनोद्देशादिषु व्यवस्थितेषु किंनु इत्याक्षेपे किमर्थं ननु अनानुपूर्वी अनंतरगाथायां कृता किमिति पश्रात् गाथायां पूर्वमुद्देशादय उक्तास्तदनंतरं प्रस्थापनमितिभावः, नैपदोषोमतांतरेणेवंरुपायाअप्यानुपूर्व्याः संभवात् तथाचाह[भा.११६] अज्झयणाणंति तयं पुव्वुत्तं पढविजईजेहिं ।
तेसिं उद्देसादि, पुवमतो पच्छपट्ठवणा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org