________________
४२१
उद्देशकः३, मूलं :७३, [भा. १४७४] [भा.१४७४] आयारकुसलासंजमपवयणपणात्तिसंगहोवगहे ।।
__ अक्खुया असबलभिन्नसंकिलिट्ठायारसंपन्ने ।। वृ- अत्र कुशलशद्धः पूर्वार्द्ध प्रत्येकं सम्बध्यते । ततोऽयमर्थः आचारकुशलशद्वस्य प्रवचनकुशलशद्वस्य प्रज्ञप्तिकुशलशद्धेस्य सङ्ग्रहकुशलशद्धस्य उपग्रहशद्धकुशलस्य च । अक्खुए इत्यादि । अत्राचारशद्वसम्पन्नः प्रत्येकमभिसम्बन्धनीयः । अक्षताचारसम्पन्नस्य अक्षताचारस्येत्यर्थः, एवं शवलाचारसम्पन्नस्य अभिन्नाचार सम्पन्नस्य असंक्लिष्टाचारसम्पन्नस्य च व्याख्या कर्तव्या । तत्राचारकुशलशद्वस्यव्याख्यानार्थमाह[भा.१४७५] अब्भुट्ठाणे आसनकिंकर अब्भासकरणमविभत्ती ।
पडिरुवजोगजुंजणनिजोगपूजा जहाकमसो ।। [भा.१४७६] अफरुस अणवलअचवलमकुकुयमडंभगोम(अ)सीभरगा। ..
सहितसमाही उवहिगुणनिहि आयाकुसलो ।। वृ• आचारकुशलो नाम यो गुर्वादीनामागच्छतामभ्युत्थानं करोति, । आसनत्ति आसनप्रदानं च तेषामेवगुर्वादीनां विधत्ते, समागतानांपीठकाद्युपनयतीतिभावः, तथा प्रातरेवागत्य आचार्यान्वदति संदिशत किं करोमीति स किङ्करः । तथा अब्भासकरणमिति य अभ्यासादभ्युपेतास्तेषामात्मसमीपवर्तित्वकरणमभ्यासकरणं,अविभक्तिर्विभागाभावः शिष्यप्रतीच्छिकानांविशेषाकरणमितिभावः,। पडिरुवजोगजुंजणत्ति प्रतिरुपः खलु विनयः कायिकादिभेदतश्चतुर्धाऽधस्तात् पीठिकायामभिहितस्तदनुगता योगा मनोवाकायास्तेषां योजनं व्यापारणवश्यकरणं, अविभक्तविभागायोजनं, नियोगत्तियो यत्रवस्त्राद्युत्पादने नियोक्तव्यः तस्यतत्रनियोगकरोति, । पूजाजहाकमसोत्तिगुर्वादीनां यथानुरुपंक्रमशो येन पूजा क्रियते । अपरुषमनिष्ठुरंमनः प्रह्लादकृदित्यर्थः । तद्भाषते, अणबलत्ति तत्र प्राकृतत्वात् यकारलोपः तेन अवलया इति द्रष्टव्यं । तस्याबावोऽवलया अकुटिलत्वम् इत्यर्थः । अचपलः स्थिरस्वभावः अकुकुचो हस्तपादमुखादिविरुपचेष्टारहितः । अदम्भको वञ्चनानुगतवचनविरहितः सीभरोनामय उल्लपम्पलालया सिञ्चति । तत्प्रतिषेधादसीभरः,प्राकृतत्वात् ।स्वार्थिकप्रत्ययविधानेन असीभरकः । एषसर्वोऽपिकिलविनय इतिवीर्याचारः प्रतिपादितोद्रष्टव्यः ।सम्प्रतिशेषाणां ज्ञानाद्याचाराणां प्ररुपणानिमित्तं पश्चार्धमाह-सहितो नाम सो यस्य ज्ञानादेरुचितः कालस्तेनोपेतः । किमुक्तं भवति? काले स्वाध्यायं करोति । काले प्रतिलेखनादिकं काले चस्वोचितं तप इति सम्यक् आदितो यत् यस्योपधाने तत्करणेवा स्वाभिप्रायः समाहितः उपशमी ज्ञानादीनां हितः स्थित उत्पत्तिके ज्ञानाद्यधिकं निर्मलतरंआत्मनोवांच्छन्सदैव गुरुषुबहुमानपर इतिभावः ।एवंज्ञनाद्याचारसमन्वितो गुणनिधिर्भवति । तत आह-गुणनिधिर्गुणानामाकारः एष आचास्कुशलः ।
साम्प्रतमेतदेव गाथाद्वयं विनेयजनानुग्रहायभाष्यकृद्धयाख्यानयति[भा.१४७७] अब्भुठाणं गुरुमादियाण आसनदानंच होइतस्सेव ।
गोसेवय आयरिए संदिसह किं करोमित्ति ।। वृ-अत्र गोसे इति प्रातरेवेत्यर्थः । [भा.१४७८] अब्भासकरणधम्मभुयाण अविभत्तिसीसपाडिच्छे ।
पडिरुवजोगोजह पीढ़ियाए झुंजण करेमिधुवं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org