________________
૪૦૪
व्यवहार - छेदसूत्रम्-१-३/६६
[भा. १३९७ ] सुत्तेण अत्थेण य उत्तमी उ आगाढपणेसु य भावियप्पा । जच्चन्निओवा वि विसुद्धभावो, संते गुणेवं विकत्थयंति ।
वृ-सूत्रेणार्थेन च एष उत्तमः प्रधानः परिपूर्णः सूत्रस्यार्थस्य चावदातस्यास्य संभवात् । तथा आगाढा प्रज्ञा येषु व्याप्रियतेन या काचन तान्यागाढ प्रज्ञानि शास्त्राणि तेषु भावितात्मा तात्पर्यग्रहितया तत्रावीत निष्पन्नमतिरिति भावः । तथा जात्या सकल जनप्रशस्ययान्वितो युक्तो जात्यन्वितस्तथा विशुद्धः स्वपरसंसारनिस्तोरेणैकतानतया अवदातो भावोऽभिप्रायो यस्य स विशुद्धभावः । एवं सतो गुणान् गणधारिणः शिष्या अपरे च प्रकर्षतो हर्षातिरेकलक्षणतो विकत्थयन्ते - श्लाघ्यन्ते । एवं च पूज्यमाने आचार्ये पूजकानां यो गुणस्तमुपदर्शयति
[ भा. १३९८ ] आगमा एवं च बहुमानितोहु, आनधिस्तं च अभावितेसु । विनिज्जरविनिययाय निच्चं, माणस्स भंगोवि य दुज्जयं ते ।।
वृ पूज्यमाने आचार्ये पूजकैरागमो बहुमानितो बहुमानविषयीकृतो भवति । आगमस्य तत्रस्थत्वात्तथा भगवतामर्हतामाज्ञा परिपालिता भवति । भगवतां हि तीर्थ कृता मियमाज्ञा युदत गुरोः सदा पूजा कर्तव्या । तथा चोक्तम्
जहाहि अग्गिजलणं नमसे, नाणो हुती मंतपयाभिसित्तं । एवायरियं उवचिट्ठएज्जा अनंतनाणोवगतो विसंतो ।।
तथा गुरुविनयकरणेन येनाद्यापि भावितातेष्वभावितेषु क्रियमाणपूजादर्शनतः स्थिरत्वमुपजायते । तथा वैनयिकैर्विनयनिमित्ता विनिर्जरा कर्म निर्जरणं सदा सततं भवति । गुरुविनयस्य सदा कर्तव्यत्वात् । तथा मानस्याहंकारस्य भङ्गोऽपि च कृतो भवति । एते पूजकानां गुणाः । सम्प्रति निर्जनार्थमेव गणधारणं व्यवसितस्य पूजामपीच्छतः आचार्यस्य दोपाभावे यस्तडागदृष्टान्तस्तं भावयति ।
[ भा. १३९९] लोइयधम्म निमित्तं, तडागखाणावियमि पउमादि । नगिरिहियाणुभेत्तुं एमेव इमपि पासामो ।।
वृ- केनापि लौकिकी श्रुतिमाकर्ण्य धर्मनिमित्तं तडागं खानितं । तस्मिंश्च तडागे पद्मादीनि जातानि । वर्षारात्रे चापगते यत्र यत्र पानीयं शुष्यति तत्र तत्र धान्यं वापयति । तत्र यथा पद्मादीन्यनुभवितुं भोक्तुं गृह्यमाणान्यपि न तस्य गर्हितानि भवन्ति लोके तथा संमतत्वादेवमेवानेनैव प्रकारेण इदमपि गणधारणं पश्यामः । निर्जरार्थमाचार्यमाणं गणधारणमप्युक्तप्रकारेण पूजानिमित्तमप्यदोषायेतिभावः । सम्प्रति सन्तेसेत्यादि पश्चार्धं व्याख्यानयति
[भा. १४०० ] संतंमिउ केवईओ, सिरसगणोदिज्जतीति ता तस्स । पव्वाविते समाणे तिन्निजहन्नेन दिज्जति ।।
वृ- भावपरिच्छन्नस्य शिष्यस्य सति विद्यमाने परिवारे तेन तस्याचार्यस्य ततो गणधारणानुज्ञापनानन्तरं कियान् शिष्यगणो दीयताम् । अत्रोत्तरं प्रव्राजितेशिष्यगणो सतितत्रो त्रयो जघन्येन दीयन्ते, उत्कर्षणो बहुतरकाः सर्वे वा इति वाक्यशेषः ।
अथ किं कारणं जघन्यतस्त्रयोऽवश्यं दातव्या इत्यत आह
[भा. १४०१]
Jain Education International
एगो चिट्ठति पासे सन्ना आलित्तमादिकज्जत्था ।
For Private & Personal Use Only
www.jainelibrary.org