________________
३९४
व्यवहार - छेदसूत्रम् - १-३/६६ वृ- एवमेवानेनैव नामगतेन प्रकारेण भवति स्थापना स्थापनेच्छा अतिदेशोक्तमेव यदिच्छति निक्षिप्यते सा स्थापना चासाविच्छा च स्थापनेच्छेति व्युत्पत्तेः स्थापनेच्छा । यतः स्थापनामिच्छति सा स्थापनेच्छा स्थापनाया इच्छा स्थापनेच्छेति व्युत्पत्तेः, द्रव्येच्छा द्विधा । आगमतो नो आगमतश्च । तत्र आगमत इच्छापदार्थज्ञाता तत्र चानुपयुक्तो नोआगमतस्त्रिधा ज्ञशरीर भव्यशरीर तदव्यतिरिक्तभेदात् । तत्र ज्ञशरीरभव्यशरीर प्राग्वत् । तदव्यतिरिक्ता यत् द्रव्यमिच्छति सा च त्रिधासचित्तद्रव्येच्छा, अचित्तद्रव्येच्छा, मिश्रद्रव्येच्छा । तत्रसचित्तद्रव्येच्छा त्रिधा द्विपदचतुष्पदापदभेदात् । तत्र द्विपदसचित्तद्रव्येच्छा - यत्र स्त्रियमिच्छति पुरुषमिच्छति इत्येवमादि । चतुष्पदसचित्तद्रव्येच्छायदश्वमिच्छति गामिच्छतीत्यादि । अपदसचित्तद्रव्येच्छा आम्रस्येच्छा मातुलिङ्गस्येच्छेत्यादि । अचित्तद्रव्येच्छा - सुवर्णेच्छा हिरण्येच्छेत्यादि । मिश्रद्रव्येच्छा-सुवर्णाद्यलङ्कारविभूषितस्य द्विपदादेरिच्छा | अथवा द्रव्यादिषु द्रव्यक्षेत्रकालेषु यथासंभवं स्वामित्वादि स्वामित्वकरणाधिकरणादिककरणानि भणतः स्वामित्वादिभिः प्रकारैर्द्रव्यक्षेत्रकालेच्छा वक्तव्या इति भावः । तत्र स्वामित्वेन द्रव्येच्छा यथा आत्मनः पुत्रमिच्छति इत्यादि, करणेन यथा महद्येनाऽभ्यवहतेन स्तैन्येच्छा कामेच्छा वा जायते । अधिकरणेन यथा सुप्रस्तारितायां शय्यायां स्थितस्य कामेच्छा समुत्पद्यते । क्षेत्रकालावचेतनौ ततो न तयोः स्वयं स्वामित्वेन इच्छा भवति, ततः करणाधिकरणाभ्यां तत्र योजना । तत्र क्षेत्रेणा-यथा सुन्दरेण क्षेत्रेण लब्धेन क्रीडनेच्छा वपनेच्छा वा जायते, अधिकरणेन यथा-गृहेस्थितस्य भोगेच्छा कामेच्छा था, सद्गुरुकुलवासे सम्यगनुष्ठानेच्छा वा समुपजायते इत्यादि । कालेकरणेन यथायौवनकालेन धनेच्छा कामेच्छा वा जायते इत्यादि । अधिकरणे यथा-हेमन्ते रात्रौ शीतेन पीडितः सूरोद्गमकालमिच्छति । भावत इच्छा द्विधा- आगमतो नोआगमतश्च । तत्रागमतइच्छेति पदार्थज्ञाता, तत्र चोपयुक्त उपयोगी भावनिक्षेप इति वचनात् । नोआगमत आहभावे पसत्थमपसत्थियाय अपसत्थियं न इच्छामो । इच्छामो य पसत्थं नाणाइयं तिविहमिच्छं ।।
[भा. १३५८]
वृ- नोआगमतो भावत इच्छा द्विधा प्रशस्ता अप्रशस्ता च । मकारोऽलाक्षणिकः । तत्राज्ञानादिविषया इच्छा अप्रशस्ता, प्रशस्ता ज्ञानादिविषया । तां त्रिविधामिच्छामिच्छामः । । सम्प्रति गणस्य निक्षेपमभिधित्सुराह
[ भा. १३५९ ] नामाइगणो चउहा दव्वगणो खलु पुणो भवे तिविहो । लोइयकुप्पावयणिओ लोउत्तरियो य बोधव्वो ।।
वृ- नामादिरूपो गणश्चतुर्धा | चतुष्प्रकारस्तद्यथा-नामगणः, स्थापनागणी, द्रव्यगणो भावगणश्च । तत्र यस्य गण इति नाम स नामगणः, गणस्य स्थापनाऽक्षवराटाकदिषु स्थापनागणः । द्रव्यगणो द्विधाआगमतो नोआगमतश्च । तत्रागमतो गणशब्दार्थज्ञाता तत्र चानुपयुक्तों, नोआगमतस्त्रिधा - ज्ञशरीर भव्य शरीरतद्व्यतिरिक्तभेदात् । तत्र ज्ञसरीरभव्यशरीरप्राग्वत् । तद्व्यतिरिक्तस्त्रिधा । तद्यथालौकिकः कुप्रावचनिको लोकोत्तरिकश्च । एतेषां त्र्याणामपि प्रतिपादनार्थमाह
[भा. १३६०]
सचित्तादिवसमूहो लोगंमि गणो उ मल्लपोरादि । चरकादिकुप्पवयणो लोगोत्तरओसन्नगीयाणं ।।
वृ- सचित्तादिसमुहः सचित्तसमूहो अचित्तसमूहो मिश्रसमूहश्च द्रव्यगणः । तत्र सचित्तसमूहो यथा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International