________________
व्यवहार - छेदसूत्रम् - १-२ / ५८ आरोवणाउ तस्स कायव्या पुव्व निद्दिट्ठा ।।
वृ- यः पुनराचार्यः केनापि प्रमादेन जनव्याक्षेपादिना उपेक्षां कुरुतेन तत्समीपंगत्वा तच्छरीरस्योदन्तं वहति । तस्य आरोपणा प्रायश्चित्तप्रदानं पूर्वनिर्दिष्टा कर्तव्या । चत्वारो गुरुकास्तस्य प्रायश्चित्तमारोपयितव्यमितिभावः । यदुक्तमुत्पन्ने कारणे सर्वप्रयत्नेन कर्तव्यं तद्भावयति
[ भा. १२०७].
३५८
आहरति भत्तपानं उवत्तणमादियंति से कुणति । सयमेव गणाहिवती अगिलाणो सयं कुणति ।।
वृ- अथ सोऽनवस्थाप्यः पाराञ्चितो वा प्लानोऽभवत्तत्तस्तस्य गणाधिपतिराचार्यः स्वयमेव भक्तं पानं वा हरति आनयति उद्धर्तनादिकमप्यादिशब्दात् परावर्तनोद्धरणोपदेशनादिपरिग्रहः स तस्य करोति । अथ जातो ग्लानो नीरोगस्तः स आचार्य न किमपि कारयति किंतु सर्वं स्वयमेव कुरुते । अधुना यदुक्तमुलोयणंगवेसणत्ति तद्वयाख्यानार्थमाह
[ भा. १२०८ ] उभयंपि दाऊण स पडिपुच्छं वोढुं सरीरस्स य वट्टमाणिं । आसासइत्ताण तवो किलंतं तमेव खेत्तं समुवेति थेरा ।
वृ- स्थविराः आचार्याः शिष्याणां प्रतीच्छकानांच उभयमपि सूत्रमर्थं चेत्यर्थः । किंविशिष्टमित्याहसप्रतिपृच्छं पृच्छा प्रश्नः तस्याः प्रतिवचनं प्रतिवचनं प्रतिपृच्छा प्रत्युक्तौ प्रतिशब्दः सहप्रतिपृच्छा यस्य तत् सप्रतिपृच्छं सूत्रविषयेवा यद्येन पृष्टं तत्र प्रतिवचनं चेत्यर्थः दत्त्वा तत्सकाशमुपगम्य तस्य शरीरस्य वर्तमानमुदन्तं वहति । अल्पक्लामतां पृच्छतीति भावः । सोऽपि चाचार्यं समागतं मस्तकेन वन्दे इति फेटावन्दनकेन वन्दते । शरीरस्य चोदन्त मूर्द्धा (ध्धर्व) यदि तपसा क्लाम्यति तत आश्वासयति । आश्वास्य च तदेव क्षेत्रं यत्र गच्छोऽवतिष्ठते तत्रसमुपगच्छन्ति कदाचिन्नगच्छेयुरपितत्रेमानि कारणानि । [भा. १२०९ ] गेलने विपुट्ठो अभिनव मुक्का ततो वरोगातो । कालम्मि दुब्बले वा कप्पे अने व वाघातो ।।
वृ- इहैकस्यापि कदाचिदेकवचनं सर्वस्यापि वस्तुन एकानेकरुपताख्यापनार्थमित्यदुष्टं आचार्यो ग्लान्येन वा स्पृष्टः स्यात् ग्लानो भवेदिति भावः । अथवा तस्मात् रोगात् अभिनवमुक्तस्तत्कालमुक्तः स्यात् ततो न गच्छेत् यदि वा काले दुर्बले न विद्यते बलं गमनाय यस्मिन् गाढातपः संभवादिना दुर्बलो ऽयेष्ठाषाडादिको दुरुशब्दोऽभाववाची तस्मिन् न गच्छेत् शरीर क्लेशसंभवात् । कज्जे अणे व वाघातो इति अत्र सप्तमी तृतीयार्थे प्राकृतत्वात्ततोऽयमर्थः । अन्येन वा कार्येण राज्ञा प्रद्वेषतो निर्विषयत्वाज्ञापनादिना व्याघातो भवेत् । ततो न गच्छेदिति अगमने चोपाध्यायः प्रेषणीयोऽन्योवा तथा चाह[ भा. १२१०] पेसेइ उवज्झायं अन्नं गीयं च जो तहिं जोग्गो ।
पुट्टो व अपुट्ठो वा तहाविदीवेति तं कञ्जं ।।
वृ- पूर्वोक्तकारणवशतः स्वयमाचार्यस्स गमनाभावे उपाध्यायं तदभावेऽन्यो वा गीतार्थस्तत्रयोग्यस्तं प्रेषयति । स च तत्र गतः सन् तेन पाराञ्चितेन किमिति अद्य क्षमाश्रमणो नायात इति पृष्टो वा अथवा न पृष्टस्तथापि तत्कारणं कार्यं कारणं दीपयेत् तथा अमुकेन कारणेन नायात इति ।।
[ भा. १२११]
जाणतामाहपं सयमेव भांति एत्थ तंजोग्गो । अत्थि मम एव विसयो अजाणते सोव ते बेति ।।
वृ- इह यदि ग्लानीभवनादिना कारणेन क्षमाश्रमणानाभनागमनं पृष्टेनापृष्टेन वा दीपितं तदा न
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org