________________
व्यवहार - छंदसूत्रम् - १- २/५२ अडाण अनाभोगा विदेस असिवादितुंदोवि ।।
बृ- यस्मात्परायत्तदीक्षणे अनार्यदेशगमे चैते दोषा तस्मादपरायत्तान् दीक्षयेत् । अनार्यांश्च देशान् वर्जयेत् । अत्रैवापवादमाह अद्वाणेति अध्वानं प्रतिपन्नस्य ममोपग्रहमेते करिष्यन्तीति हेतोः परायत्तानपि दीक्षयेत् । यदिवानाभोगतः प्रव्राजयेत् विदेशस्था वा स्वरूपमजानाना दीक्षयेयुरशिवादिषु पुनः कारणेषु दोवितित्ति द्वे अपि परायत्तदीक्षणानार्यदेशगमने अपि कुर्यात् । किमुक्तं भवति । अशिवादिषु कारणेषु समुपस्थितेषु परायत्तानपि गच्छोपग्रहनिमित्तं दीक्षयेत् अनार्यानपि देशान विहरेदिति ।
३५६
भू. (५३) अणवट्टप्पं भिक्खु अगिहिभूयं नो कप्पइ तस्स गणावच्छेयस्स उवट्टावेत्तए । मू. (५४) अणवट्टप्पं भिक्खूं गिहिभूयं तस्स गणावच्छेदियस्स उवट्टावित्तए इति । वृ- अथास्य सूत्रस्य कः सम्बन्ध उच्यते
[ भा. ११९९ ]
अट्ठस्स कारणेणं साहम्मियतेणमादिज्जइ कुज्जा । इइ अणवट्टे जोगो । नियमातोयावि दसमस्सा ।।
वृ साधर्मिकैः कारणेन प्रागुक्तेनोत्पादितो योऽर्थस्तस्य स्तैन्यमादिशब्दादन्यधार्मिकस्तैन्यादि परिग्रहः यदि कुर्यात्ततः सोऽनवस्थाप्यो भवति । एतदर्थख्यापनार्थमर्थजातसूत्रानन्तरमनवस्थाप्यसूत्रं । इति एषोऽनवस्थाप्यसूत्रस्य योगसम्बन्ध: । पाराञ्चितसूत्रस्यापि सम्बन्धमाह-नवमात्प्रायश्चित्तादनवस्थाप्यादनन्तरं किलं दशमं पाराञ्चितनामकं प्रायश्चित्तं भवति । ततो नवमान्नवम प्रायश्चित्तसूत्रस्यारंभः । अनेन सम्बन्धेनायातस्यास्य व्याख्या- अनवस्थाप्यं भिक्षुमगृहीभूतमगृहस्थीकृतं नो कल्पते यस्य समीपेऽवतिष्ठते तस्य गणावच्छेदिनो गणस्वामिन उपस्थापयितुं । तथाऽनवस्थाप्यं भिक्षुगृहीभूतं कल्पते तस्यगणावच्छेदिन उपस्थापयितुं, सम्प्रति पाराञ्चितसूत्रमाह
भू. (५५) पारांचियंपि भिक्खु अगिहिभूयं नी कप्पते तस्स गणावच्छेदियस्स उवडावेत्तए । मू. (५६) पारांचियं भिक्खु गिहिभूयं कप्पइ । तस्स गणावच्छेदियस्स उचट्ठावित्तए ।। वृ- अस्य सूत्र द्वयस्याक्षरगमनिका प्राग्वत् । सम्प्रति भाष्यविस्तरअनवट्टो पारंचिय पुव्वं भणिया इमं तु नाणत्तं ।
[भा. १२०० ]
गिरिभूयरस य करणं, अकरणे गुरुगा य आणादी ।
वृ- अनवस्थाप्यः पाराञ्चित एतौ द्वावपि पूर्वं भणितौ । इदं त्वत्र नानात्वं गृहिभूतस्य गृहस्थ रूपसदृशस्य करणं यदि पुनर्गृहिभूतम कृत्वा तमुपस्थापयति । तदा गृहिभूतस्याकरणे प्रायश्चित्तं गुरुकाश्चत्वारो गुरुमासाः । तथा आज्ञादय आज्ञानवस्था मिथ्यात्वविराधनादोषाः । अन्यच्च प्रमत्तं सन्तं देवताच्छलयेत् गृहिभूतस्य तु च्छलना न भवति । यस्माद्गृहीभूतं कृत्वा तमुपस्थापयेत् । गृहस्थरूपताकरणमेव भावयति-
[भा. १२०१ ]
वस्नेयत्थं एगे पहाणादि विवज्जमवरे जुगलमेत्तं । परिसामज्झे धम्मं, सुणेज्जतो कहणदिक्खा ।।
बृ- एके आचार्या एवं ब्रुवते -स्नानविवर्जं वरं नेपथ्यं तस्य क्रियते । अपरे दाक्षिणात्याः पुनरेवमाहुर्वस्त्रयुगलमात्रं परिधाप्यते । तत्पर्षन्मध्ये आचार्यसमीपमुपगम्य ब्रुवते । भगवन् धर्मं श्रोतुमिच्छामि । ततः कहणत्ति आचार्यः धर्म कथयति कथिते च सति सकलजनसमक्षं ब्रूते श्रद्धधामि सम्यग् धर्ममेनमिति मां प्रवाजयत । एवमुक्ते तस्य दीक्षालिङ्ग समर्पणानन्तरं च तत्क्षणमेवोपस्थाप्यते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org