________________
उद्देश : २, मूलं : ५१ [भा. ११६३ ]
३४९
वृ- अर्थ वा भाविप्रयोजनं हेतुं वा कस्यापि प्रयोजनस्य कारणं श्रमणस्याचार्यादिः शेषजनविरहिते प्रदेशे कथयन् मूर्च्छया विपतितस्यात्मनः प्रगुणं भवन्तमनुमन्यमानस्य कल्पते ग्रहणं परिज्ञायानशनप्रत्याख्यानस्य तत एतदर्थ प्रतिपादनार्थं सप्रायश्चित्तसूत्रानन्तरमिदं भक्तपानप्रत्याख्यानसूत्रमनेन सम्बन्धेनायात्तस्यास्य व्याख्या | भक्तं च पानं च भक्तपानेतेप्रत्याख्याते येन स तथा क्लान्तस्य परनिपातः सुखादिदर्शनादिति भिक्षं ग्लायन्तमित्यादि प्राग्वत् । अत्र वैयावृत्यमाह[भा. ११६४ ] गीयत्थाण असती सव्वसती एव कारणपरिणा । पानगभत्तसमाही कहणा आलोगधीवणा ।।
वृ- गीतार्थानामसति अभावे यदि वा सर्वस्यापि साधोरशिवादिकारणत एकस्यापि साधोरभावे कारणपरिणत्ति कारणवशत एकाकिना जातेन परिज्ञाप्रत्याख्यानं भक्तपानस्य कृतं ततस्तस्य कृतभक्तप्रत्याख्यानस्य गीतार्थानामभावे यदि वा कारणत एकस्यापि साधारभावे सीदतां योग्यपानक प्रदानेन चरमेप्सितभक्तप्रदानेन च समाधिरुत्पादनीया । कथना धर्मकथना यथाशक्ति स्वशरीरानाबाधया कर्तव्या । तथा आलोकं आलोचनं सदापयितव्यः । यदि कथमपि चिरजीवनेन भयमुत्पद्यते यथा नाद्यापि म्रियते किमपि भविष्यतीति न जानीम इति तस्स धीरापनाकर्तव्या । [भा. ११६५ ] जइ वा न निव्वज्जा असमाही वासे तस्मि गच्छम्मि ! करणिज्ज तत्थगते ववहारो एत्थ सुद्धो वा ।।
वृ- यदि वा प्रबलबुभुक्षावेदनीयोदयतया कृतभक्तप्रत्याख्यानतया न निर्वहेत् । न यावत्कथिकमनशनं प्रतिपालयितुं क्षम इति । यावदसमाधिर्वा तस्मिन् गच्छे तस्य वर्तते ततोऽन्यत्र गते तस्मिन् यत्कर्त्तव्यं तत्करणीयं अन्यत्र नीत्वा यद्यदुचितं तत्तस्य करणीयमित्यर्थः । पश्चादनशनप्रत्याख्यानभङ्गविषयस्तस्य व्यवहारः प्रायश्चित्तं दातव्यम् । अथ स्वगच्छसमाधिमात्रेणान्यत्र गतस्ततः समिध्यादुष्कृतप्रदानमात्रेण शुद्ध इति ।।
मू. (५२) अट्ठ भिक्खुं गिलायमाणं नो कप्पइ तस्स गणावच्छेदियस्स निज्जूहित्तए अगिलाए करणिज्जं वेयावडियं जाव रोगातंकातो विप्पमुक्के । ततो पच्छा अहालहुस्सगे नामं ववहारे पट्टवियल्वे सिया इति ।।
वृ- अथास्य सूत्रस्य कः सम्बन्धः ? उच्यते-[भा. ११६६ ]
-
वृत्तं हि उत्तमट्ठे पडियरणट्ठा व दुक्खरे दिक्खा ।
एतोय तस्समीवं जइ हीरइ अट्ठजायमंतो ।।
वृ" उक्तं हि यस्मात्पूर्वं कल्पाध्ययने उत्तमार्थे उत्तमार्थं प्रतिपत्तुकामस्य द्व्यक्षरे द्व्यक्षरस्य दासस्य दीक्षा दीयते । यदि वा प्रतिचरणाय एष दीक्षितो मां ग्लानं सन्तं प्रतिचरिष्यतीति निमित्तं । एतोय इत्यादि इतश्च दीक्षादानानन्तरं तस्सर्मापाद्यस्य समीपे दीक्षा गृहीता तस्य सकाशात् । गाथायां द्वितीया पञ्चभ्यर्थे । यदि हृदये अतो अर्थजातं भवति । प्रयोजनजातमुत्पद्यते ततः सम्प्रत्यर्थे जातस्तत्रावकाशः । अनेन सम्बन्धेनायातस्यास्य व्याख्या । सा च प्राग्वत् । साम्प्रतमर्थजातं भिक्षु ग्लायन्तमित्यत्र योऽर्थजातशब्दस्तद्व्युत्पत्तिप्रतिपादनार्थमाह-
[भा. ११६७ ]
Jain Education International
अत्थेन जस्स कज्जं संजायं एस अट्ठजातोय । सो पुन संजमभावा चालि जंतो परिगिलाइ ।।
For Private & Personal Use Only
www.jainelibrary.org