________________
३०८
व्यवहार - छेदसूत्रम्-१-२/३६ उपरितनेषु सर्वेष्वपि भावनापर्यन्तेषु अधस्तनं लिङ्गलक्षणपदं त्यजेत्त्यक्त्वा च तदनन्तरं द्वितीयपदं गृह्णीयात् । अभिगृह्य च तेनापिसह चतुर्भङ्गिका:क्रमेण योजयेत्तत्राप्युपरितनेषु सर्वेषुभङ्गेषुतदधस्तनं पदंत्यजेत्ः अग्रेतनमनन्तरमाश्रयेत् । तत्राप्ययमेवक्रम एवं तावद्वाच्यं यावदन्तिमपदद्वयचतुर्भङ्गिका इह लिङ्गेन सह दर्शनादिषु भङ्गसूचाकृता । तत्र लिङ्गग्रहणमुपलक्षणं । ततः प्रवचनेनापि सह भङ्गा द्रष्यव्यास्ते चामी-प्रवचनसाधर्मिकोनदर्शनतः एष क्षायिक औपशमिके क्षायोपशमिकेवा । उक्तं च-विसरिसदंसणजुत्ता पवयणसाहम्मिया न दंसणतो इति दर्शनतः साधर्मिकोन प्रवचनतस्तीर्थकरः प्रत्येकबुद्धश्च तेषां सङ्घानन्तर्वर्तित्वादाह च-तित्थयरापत्तेया नो पवयणदसणसाहम्मी, प्रवचमतोऽपि साधर्मिको दर्शनतोऽपि समानदर्शनी सङ्घमध्यवर्तीति, न प्रवचनतो नापि दर्शनत इति चतुर्थः । एष शून्यः । उक्ता प्रवचनेन सह दर्शनस्य चतुर्भगिकाः; । सम्प्रतिज्ञानस्योच्यते, न प्रवचनतः साधर्मिको न ज्ञानत एकोद्विज्ञानि एकस्त्रिज्ञानि चतुर्जानि केवलज्ञानी वा, ज्ञानतः साधर्मिको न प्रवचनतः तीर्थकरःप्रत्येकबुद्धो वा, प्रवचनतो ज्ञानतोऽपितृतीयः, न प्रवचनतोऽपि नापि ज्ञानतः इति चतुर्थः । एषशून्यः । तथाप्रवचनतःसाधर्मिको नचारित्रतः श्रावकः, चारित्रतोनप्रवचनतः तीर्थकरप्रत्येकबुद्धो वा प्रवचनतोऽपि चारित्रतोऽपि साधुः, न प्रवचनतो नापि चारित्रतः, एष शून्यः तथा प्रवचनतो नाभिग्रहतः श्रावको यतिर्वा उभयोरप्यन्यान्याभिग्रहयुक्तत्वात्, । अभिग्रहतो न प्रवचनतो निह्नवस्तीर्थकरः प्रत्येकबुद्धो वा उक्तं च,-साहम्मभिग्गहेणं नो पवयणनिण्ह तित्थ पत्तेया इति प्रवचनोऽप्यभिग्रहतोऽपि श्रावको यतिसिमानाभिग्रहःन प्रवचनतो नाप्यभिग्रहत इतिशून्यः । तथा प्रवचनतःसाधर्मिकोनभावनातोभिन्नभावनाकः । श्रावकोर्यतिर्वा, भावनातः साधर्मिकोनप्रवचनतः समानभावनाकस्तीर्थकरः प्रत्येकबुद्धो निह्नवी वा, प्रवचनतोऽपि भावनातोऽपि समानभावनाकः श्रावकोयतिर्वा, न प्रवचनतोऽपिनभावनातः । एषशून्यः, । उक्ता प्रवचनेन सह दर्शनादिषुभङ्गा ।
सम्प्रतिलिङ्गेनसहोच्यन्ते । लिङ्गतः साधर्मिको नदर्शनतः निलवः,दर्शनतः साधर्मिको न लिङ्गतः प्रत्येकबुद्धस्तीर्थकरोवा लिङ्गतोऽपिदर्शनतोऽपि समानदर्शनी साधुः नापि लिङ्गतो नापिदर्शनतः, एप शून्यः । तथालिङ्गतःसाधर्मिको नज्ञानतः । निहवो विभिन्नज्ञानीवा साधुः,ज्ञानतोनलिङ्गतः समानज्ञानी श्रावकः,प्रत्येकबुद्धस्तीर्थकरो वा लिङ्गतोऽपिज्ञानतोपिसमानज्ञानीसाधुः, नलिङ्गतोऽपिनापि ज्ञानतः ।एष शून्यः ।; तथा लिङ्गत्तोन चारित्रतो निह्नवो विषमचारित्री वा साधुः, चारित्रतो न लिङ्गतः प्रत्येकबुद्धस्तीर्थकरोवा, चारित्रतोऽपि लिङ्गतोऽपि समानचास्त्रिीसाधुः, न लिङ्गतो नापिचारित्रतः । एष शून्यः । तथा लिङ्गतो नाभिग्रहतः विचित्राभिग्राही साधु निहवो वा, अभिग्रहतो न लिङ्गतः, एष शून्यः, तथा लिङ्गत्तः साधर्मिको न भावनातः विषमभावनाकः साधुः, न लिङ्गत्तोऽपि न भावनातः एष शून्यः । तदेवमुक्ता लिङ्गेन सह दर्शनादिषु भङ्गाः सम्प्रति लिङ्गपदं त्यक्त्वा दर्शनपदं गृह्यते । तेन सहज्ञानादिषुउच्यन्ते-दर्शनतःसाधर्मिको नज्ञानतःक्षायिकदर्शनीएकः केवलज्ञानीएको द्विज्ञानीति, ज्ञानतःसाधर्मिको नदर्शनतःसमानज्ञानी विभिन्नदर्शनी,दशनतोऽपिज्ञानतोऽपिसमानदर्शनज्ञानी, नदर्शनतोनापिज्ञानतः शून्यो भङ्गः । तथा दर्शनतः समानज्ञानी विभिन्नदर्श, दशनतोऽपिज्ञानतोऽपि समानदर्शनज्ञानी, नदर्शनतोनापिज्ञानतः शून्यो भङ्गः । तथा दर्शनतः साधर्मिको न चारित्रतः समानदर्शनी श्रावकः, चारित्रतो न दर्शनतः समानचारित्री विभिन्नदर्शनी साधुः, । चारित्रतोऽपि दर्शनतोऽपि समानदर्शनी चारित्री साधु, न चारित्रतोऽपि नापिदर्शनतः । एषशून्यः, । तथा दर्शनतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org