________________
उद्देश : १, मूलं : २५, [भा. ८०३ ]
२६३
वृ- गणं गच्छं, सह बालाद्यैस्ते च ते वृद्धाश्च तैराकुलमामन्त्र्य समाहूय क्षमयति, यथा यदि कञ्चित् प्रमादतो मया न सुष्ठु भवतां वर्तितं तदहं निःशल्यो निः कषायः क्षमयामीति, ये च पूर्वविरुद्धास्तानेवं स विशेषतः क्षमयति । एवमुक्ते ये लघवस्ते आनन्दाश्रुप्रपातं कुर्वाणा भूमिगतशीर्षास्तं क्षमयन्ति । ये पुनः श्रुतपर्यायवृद्धाः तान् पादेषु पतित्वा स क्षमयति । उक्तं च-
जई किं चि पमाएणं न सुभे वट्टियं मए पुव्विं ।
तं खामि अहं निस्सल्लो निक्कसाओय । ।
आनंदअंसुपायं कुणमाणा तेवि भूमीगयसीसा । तं खामेति जहरिहं, जहारिहं खामिया तेन ।। एवं क्षमयतस्तस्य के गुणा इति चेत् ? उच्यते-निःशल्यता विनयप्रतिपतिर्मार्गस्य प्रकाशन, अपहृतभारस्येव भारवाहस्य लघुता, एकाकित्वप्रतिपत्त्वभ्युपगमः । क्वचिदप्यप्रतिबद्धता एते प्रतिमासु प्रतिपद्यमानासु क्षमयतो गुणाः । उक्तं चः
-
खामेतस्स गुणा खलु निसल्लयविनयदीवनामगे । लाघवियंएगतं अप्पडिबद्धो य पडिमासु ।।
गतमामंत्रणद्वारं । स एवं च क्षामयित्वा भावितात्मा तपोभावनाभावितान्तः उग्रतपः करोति, गतं तपोद्वारं । सच तथा प्रतिमां प्रतिपन्नः संयमे प्रथमे वा सामायिकलक्षणे वर्तते, द्वितीये वा च्छेदोपस्थापने । तत्र प्रथमे संयमे मध्यमतीर्थकरतीर्थेषु विदेहतीर्थ करतीर्थेषु च द्वितीये भरतादि प्रथमपश्चिमतीर्थकरतीर्थेषु । एतच्च प्रतिपद्यमानकानधिकृत्पयोक्तं वेदितव्यम् । पूर्वप्रतिपन्नाः पुनः पञ्चानां संयमानामन्यतमस्मिन् संयमे भवेयुः । उक्तं च
'पढमे वा बिइए वा पडिवज्जइ संजमम्मि पडिमाती । पुव्व पडिवन्नतो पुन, अन्नयरे संजमे होखा ||
गतं संयमद्वारमधुना भक्तद्वारमुपधिद्वारं चाह[ भा. ८०४ ]
पग्गहियमेवकडं भत्तजहन्त्रेण नवविहो उवही । पाउरणवजियस्स उ इयरस्स दसा विजा बारा ।।
वृ- भक्तमुपलक्षणमेतत्, पानकं च अलेपकृत् कल्पते । तथाप्रगृहीतं इहालेपकृद्भिक्षाया उपरितनानां तिसृणां भिक्षाणां मध्यमा मध्यमग्रहणे चाद्यंतयोरपि ग्रहणं । ततोऽयमर्थः - सप्तसु पिण्डैषणासु मध्ये उपरितनीनां चतसृणामन्यतमस्याः पिएडैषणाया अभिग्रहः । आद्यानां तिसृणां पिएडैषणानां प्रतिषेधः । एतच्च चूर्णिकारोपदेशात् विवृतं । तथा चाह चूर्णिकृत्
[ भा. ८०५ ]
उपरिल्ला हिं चउहिं, पिंडेसणाहिं अन्नयरीए । अभिग्गही सेसास तिस अग्गहो इति ।।
वृ- गतं भक्तद्वारमुपधिद्वारमाह-जघन्येनोपधिर्नवविधः पात्रपात्रबन्धपात्रस्थापना पात्रकेसरिका पटलजस्त्राणगोच्छकमुखवस्त्रिकारजोहरणलक्षण एष च नवविधो जघन्यत उपधिर्यः प्रावरणवर्जीकृतप्रावरणपरिहाराभिग्रहस्तस्य वेदितव्यः । इतरस्य कृतप्रावरणपरिग्रहस्य दशादिको विज्ञेयां यावत् द्वादशविधः । तत्रैकसौत्रिककल्पपरिग्रहे दशविधः सौत्रिककल्पद्वयपरिग्रहे एकादशविधः कल्पत्रयस्यापि परिग्रहे द्वादशविधः । गतमुपधिद्वारं सम्प्रति निक्षेपद्वारमाहवसहीए निग्गमनं हिंण्डतो सव्वभंडमादाव ।
[ भा. ८०६)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org