________________
२५४
व्यवहार - छेदसूत्रम्-१-१/२५ विनिर्गच्छति, ततः स नियमादात्मविराधनां संयमविराधनां च प्राप्नोति । तदेवं घरसउनिसीहत्ति व्याख्यातम् । सम्प्रतिप्रव्रजितशिक्षादीनि द्वाराणि वक्तव्यानितत्संग्राहिका चेयं गाथाभा.७६६] पव्वजासिक्खावयमत्थयगहणंच अनियतोवासो ।
निष्पत्तीय विहारो,सामायारी ठिती चेव ।। वृ-अस्याव्याख्यानंकल्पेसविस्तरमुक्तमत्रतुलेशतोऽर्थमात्रमभिधीयते । प्रथमतस्तावत्प्रवज्या भवति, सा च द्विधा धर्मश्रवणतोऽभिसमागमतश्च । तत्र या आचार्यादिभ्यो धर्मदेशनामाकर्ण्य संसाराद्विरज्य प्रतिपद्यतेसा धर्मश्रवणतः ।यापुनर्जातिस्मरणादिनासाअभिसमागमतः, प्रव्रजितस्य शिक्षापदं भवति । शिक्षा च द्विधा-ग्रहणशिक्षा, आसेवनाशिक्षा च । तत्र ग्रहणशिक्षा सूत्रावगाहनलक्षणा । आसेवनाशिक्षासामाचार्यभ्यसनं । शिक्षापदमन्तरंचार्थग्रहणंभवति, अर्थग्रहणकरणानन्तरं चानियतो वासो नानादेशपरिभ्रमणं कर्तव्यम् । तदनन्तरेण नानादेशीयशब्दाकौशलेन नानादेशीभाषात्मकस्य सूत्रस्य परिस्फुटरूपार्थनिर्णयकारित्वानुपपत्तेः, तदनन्तरं वाचनाप्रदानादिना गच्छस्य निष्पत्तिनिष्पादनकर्तव्यम् । तदनन्तरंविहारोऽभ्युद्यतो विहारोजिनकल्पादिप्रतिपत्तिलक्षणः करणीयः । तस्य च विहारस्य या सामाचारी सा वक्तव्या । तथा स्थितिर्जिनकल्पादीनां क्षेत्रकालादिनां क्षेत्रकालादिद्वारेषु चिन्तनीया तत्र प्रव्रज्या शिक्षापदमर्थगआहणमनियतो वासः निष्पत्तिविहारः । सामाचारीतिसप्तद्वाराणिप्रतिमायामुपयोगीनि तत्रापिप्रव्रज्या शिक्षापदमर्थग्रहणंचेति त्रीणि द्वाराणि प्रतिपत्तुकामस्य नियमतो भवन्ति, शेषाणां भजना तथा चाह[भा.७६७] पव्वज्जा सिक्खापयमत्थगहणंच सेसएभयणा ।
सामायारीविसेसो नवरं वुत्तो उपडिमाए ।। वृ- प्रव्रज्या प्रवर्जनं, शिक्षापदं ग्रहणं सेवनारूपं शिक्षाद्विकं अर्थग्रहणमर्थपरिज्ञानमित्येतत् त्रयं प्रतिमा प्रतिपित्सोर्नियमेन भवति । शेषके अनियतवासनिष्पत्तिलक्षणद्वारद्विके भजना विकल्पनाय आचार्यपदार्हस्तस्य नियमादिदं द्वारद्वयमस्ति, शेषस्य तु नास्तीत्यर्थः । विहारः पुनः प्रतिमाप्रतिपत्तिलक्षणोऽस्त्येव सामाचार्या अपि जिनकल्पिकसामाचारीतो विशेषोऽस्ति नवरं सामाचारीविशेषः प्रतिमायांप्रतिमागतो दशाश्रुतस्कन्धे भिक्षुप्रतिमाध्ययने उक्त प्रतिपादितः इतिन पुनरुच्यते ।। सम्प्रति परिकर्मकरणं वक्तव्यम् । तत्र पर आह-ननु तत्परिकर्म किं गच्छ एव स्थितः करोति उतगच्छाद्विनिर्गत्येति सूरिराह[भा.७६८] गणहरगुणेहिं जुत्तो,जति अन्नो गणहरो गणेअस्थि ।
नीतिगणातोइहरा कुणतिगणेचेवपरिकम्मं ।। वृ-यदि नाम गणे गच्छे अन्योन्यगणधरो गणधरसमानो गणधरपदार्ह इत्यर्थः । गणधरगुणैर्युक्तो विद्यतेन च प्रयोजनेनान्यत्रगतस्तर्हितंगणेस्थापयित्वा गणाद्विनिर्गच्छतिविनिर्गत्य चपरिकर्म करोति इतरथा तथाविधान्यगणधरगुणयुक्तगणधरत्वा भावे गण एव स्थितः सन्परिकर्म करोति । अत्र पर आह-ननु तेन पूर्वं द्विविधांशिक्षा शिक्षमाणेनात्मा भावित एव तत किमिदानीं भारत्वाभावेगण एवस्थितःसन्भावनाभिः परिकर्मणयेत्यत आह[भा.७६९] जइ विहुदुविहा सिक्खा, आइल्ला होतिगच्छवासम्मि ।
___ तहविय एगविहारे जाजोग्गा तीएभावेति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org