________________
२५३
उद्देशकः १, मूलं : २५, [भा, ७६१] इति गम्यते । तथा पव्वइसिक्ख त्ति प्रव्रजनं प्रव्रजितं प्रव्रज्या इत्यर्थः । शिक्षाग्रहणासेवनरूपं शिक्षाद्विकं । एतेढे द्वारेवक्तव्ये, एतच्चशेषद्वाराणामर्थग्रहणादीनामुपलक्षणमतस्तान्यपिवक्तव्यानि । ततः परिकर्मकरणं वक्तव्यं, तदनन्तरं परिकर्मितः परीक्षायां द्वौ योधौ दृष्टान्तत्वेनोपन्यसनीयौ । ततः स्थिरीकरणनिमित्तं तस्योपसर्गव्यावर्णनायां सूत्रार्थकरणव्यवस्थितैऽकाक्षरूपं क्षपकद्विकज्ञातं वक्तव्यम् ।ततएवंकृतपरिकर्मासन्गच्छारामात्सर्वर्तुकपुष्पफलोपगारामरूपात्गच्छाद्विनिर्गच्छति । एष द्वारगाथा संक्षेपार्थः । साम्प्रतमेनामेवविरीषुः प्रथमतो गृहशकुनिदृष्टान्तंभावयति[भा.७६२] वासगगयं तुपोसति चंचूपूरेहिं सउणियासावं ।
वारेइतंउड्डूंतंजावसमत्थं नजायं तु ।।। वृ-शकुनिका पक्षिणी आत्मीयं शावं, 'वासगगयं' ति प्राकृतत्वादाद्याकारस्य लोप आवासो नीडमावास एवावासकस्तद्गतं । तुरेवकारार्थः । आवासगगतमेवशावं चञ्चूपूरैश्चञ्चभरणैः पुष्णाति पुष्टीकरोति ।यदिकथमाप्यसञ्जातपक्षोपवालधापलेनावासाद्धहिर्जिगमिषुरुड्डीयते, ततस्तमुड्डीयमानं वारयति प्रतिषेधयति, । सा चैवं तावत्करोति यावत्समर्थो न जायते । गाथायां तु नपुंसकनिर्देश: प्राकृतत्वात् । समर्थस्तुजातः सन्न प्रतिषिध्यते । ततो निरुपद्रवं स्वेच्छया विहरति ।भावितः शकुनि दृष्टान्तः । सम्प्रति सिंहदृष्टान्तंभावयति[भा.७६३) एमेव वणेसीही सारक्खइछावपोयगंगहने ।
खीरमिउ पिसियचब्विय, जाखायइ अट्ठियाईपि ।। वृ-एवमेव शकुनिकागतेनैवप्रकारेण वने । किं विशिष्टे ? इत्याह-गहने अतिशयेन गुहिले स्थिता सती सिंही शावपोतकं शाव एवातिलघुत्वात् पोतः पोतकः शावपोतकस्तं रक्षयति व्याघ्रादिभ्यस्तथा क्षीरेणस्तन्येन मृदुचर्वितपिशितेन च तावदात्मीयंशावपोतकं पुष्णाति यावदस्थीन्यपिखादति । [भा.७६४) मारिय ममारिएहितं तीरावेति छावएहिंतु।
वणमहिस हस्थिवग्घाणपञ्चलोजाव सोजाती ।। वृ- वनमहिषादीनां शावकर्मारिरिमारितैर्वा तावत्तमात्मीयशावं तीरयति समर्थीकरोति यावतेषां वनमहिषहस्तिव्याघ्राणांस्वयमेव व्यापादने प्रत्यल समर्थो जातो भवति । कृता सिंहदृष्टान्तभावना ।। साम्प्रतमनयोरेव निदर्शनयोरुपनयनार्थमिदमाह. [भा.७६५] अकयपरिकम्ममसहं दुविहा सिक्खा अकोवियमवत्तं ।
पडिवक्खेण उवमिमोसउणिगसीहादिछावहिं ।। वृ-नकृतानि परिकर्माणि वक्ष्यमाणानि येन स तथा तमकृतपरिकर्माणमकृतपरिकर्मत्वादेवासहमेकाकिविहारप्रतिमांप्रतिपत्तुमसमर्थं, तथाद्विविधायांशिक्षायांग्रहणासेवनरूपायामपिकोविदमनभिज्ञ तथाश्रुतेन वयसाचाप्राप्तयोग्यताकंपडिवक्खेणंतियेप्राक्शकुनिपोतसिंहशावकानां संजातपक्षत्वादयो गुणा उक्तास्तेषां प्रतिपक्षण प्रतिकूल्येनासंजातपक्षत्वादिना विशिष्टाः शकुनिसिंहादिशावका आदिशब्दात्व्याघ्रादिपरिग्रहस्तैरुपमयामस्तथाहि-यथाशकुनिपोतोऽसंजातपक्षोयद्यावासाद्विनिर्गत्य स्वच्छंदसा परिभ्रमति,ततः सकाकर्टकादिभिर्विनाशमाविशति, सिंहपोतकोऽपियदिक्षीराहारोगुहातो विनिर्गत्य वनेस्वेच्छया विहरतिततःसोऽपिवनमहिषव्याघ्रादिभिरुपहन्यते ।एवं साधुरप्यकृतपरिकर्मा द्विविधशिक्षायामकोविदः श्रुतेन वयसाचाऽप्राप्तयोग्यताको यदिगच्छादेकाकिविहारप्रतिमाप्रतिपत्तये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org