SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ २४ व्यवहार - छेदसूत्रम्-१. तत्र कानामालांचनेतयित् प्रथमंद्वारं तत्प्रसिद्धत्वादन्यत्र वा कल्पाध्ययनादिपुव्याख्यातत्वादहिभाष्यकृता नव्याख्यातं, तथापिस्थानाशून्यार्थकिंचिदुच्यते, आलोचना नाम अवश्यकरणीयस्य कार्यस्य पूर्ववा कार्यसमाप्त रू वा यदविपूर्वमपि पश्चादपि च गुरोः पुरतोवचसाप्रकटीकरणं सा चालोचना उपरितनेषु प्राश्चित्तेषु केषुचित् संभवति केषुचिन्न संभवति तत्रयेषुसंभवति तत्प्रसिध्यर्थमिदमाह - [भा.५५] बिइएनस्थिवियडनावाउविवेगेतहाविटस्सग्गो । आलोयणाउनियमागीयमगीयेच कसिंचि ।। वृ-द्वितीयंसूत्रक्रमप्रामाण्यानुसरणात्प्रतिक्रमणं, तस्मिन् द्वितीयेप्रतिक्रमणलक्षणेप्रायश्चित्तेनास्ति विकटना आलोचना, तथाहि सहसानाभोगतोवा यदि किंचिदाचरितं भवति यथा मनोज्ञेषु शब्दादिष्विंद्रियगोचरमागतेषु गगगमनम् अमनोज्ञेषु द्वषगमनं, तदा तदनंतरमेव मिथ्यादुष्कृतमिति ब्रूतेतच्चतेनैवशुद्धियातीतिनालोचयति,वाउविवेगतिवाशब्दो विभाषायां विवेकविवेकाईप्रायश्चिते, आलोचना या विभाषाकदाचिदभवति, कदाचिन्न भवतीतिभावः, तथाहितद विवेकाहनाम प्रायश्चित्तं यत्परिस्थापनवाशुध्यति, तत्रयदकल्पिकमाधाकर्मिकादिपूर्वऽमविदितत्वेनगृहीतं, पश्चाच्चकथमपि ज्ञातं तद्यदा परिस्थापयतः शुभभावनाध्यारोहेकेवलज्ञानमुत्पद्यते, तदाऽ सौ कृतकृत्यो जात इतिनालोचयति, अनुत्पन्ने तुज्ञानातिशये नियमादागत्य गुरुसमीपमालोचयतीति,तहाविउस्सगेइति, यथा विवेक आलोचनायाविभाषा, तथा व्युत्सर्गेपि, किमुक्तंभवति, व्युत्सर्गेपि कदाचिदालोचना न भवति, यथास्वप्ने हिंसादिकमासेवितं तच्छुद्धिनिमित्तं च कायोत्सर्गः कृतः तदनंतरं च शुभभावनाप्रकार्पतः कंवलज्ञानमुदपादि, मरणं वा तस्याकस्मिकिमुपजातमिति नास्त्यालोचना, अनुत्पन्ने ज्ञाने जीवन् नियमादावश्यकं विकटयन् आलोचवति, यथा स्वप्नमया हिंसादिक मासवितं कायोत्सर्गेणच शांधितमिति, गतमालोचनतिद्वारमधुना कस्यसकाशे आलोचना कर्तव्यतिद्वार विवरीपुराह, सा आलोचना नियमाद वश्यतया गीतमिति प्राकृतत्वात्पठ्यर्थे प्रथमा तस्य गीतार्थस्य सकाशे कर्तव्या,नागीतार्थस्थ, अत्रैवभतांतरमाह अगायेकेसिंचिकेषांचिदाचार्याणामिदंमतं उत्सर्गतस्तावदाचार्यस्यसमीपेआलोचयितव्यं, बढापुनराचार्यः संज्ञादिप्रयोजनगतोभवतितदा अगीतार्थस्यापि समीपे भिक्षाद्यालोचनीयमिति, तच्चालोचनाहप्रायश्चित्तमेतेपुस्थानेषुभवति । [भा.५६] करणिज्जेसुउजोगेसु, छमत्थस्सभिक्खुणो। आलायणपच्छितं, गुरुणंअंतिएसिवा ।। वृ-करणीयाःनाम अवश्यकर्तव्यः योगाः श्रुतोपदिष्टाः संयमहेतवः क्रियाः अथवायोगामनोवाक्काय व्यापारा: जोगोविरिवंथामो, उच्छाहपरक्कमोतहाचेट्ठा । सत्तीसामत्थं चिय जोगस्स हवंति पजाया ।। इतिवचनात् ते चावश्यकर्त्तव्य इमे कूर्मइव वसतौसलीनगात्रः सुप्रणिहित पाणिपादोऽवतिष्ठते, वचनमपि सत्यमसत्यामृषां वाब्रूते, ना सत्यामृषेति, मनसोप्यकुशलस्य निरोधनं कुशलस्योदीरणमेवंरुपेषुकरणीयेपु सम्बगुपयुक्तस्य निरतिचारस्वतिवाक्यशेपः सातिचारस्योपरितनप्रायश्चित्तसंभवात् छद्मस्थस्यपरोक्षज्ञानिना, नतुकेवलज्ञानिनस्तस्यकृतकृत्यत्वेना लोचनाया अयोगात् उक्तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy