________________
२४५
उद्देशक ः १, मूलं :२०, [भा. ७२३]
वृ- अस्याः साधुगतगाथाया इव व्याख्या । सम्प्रति द्वयोरपि साधुसाध्वीवर्गयोः संयोगेन निस्तारणविधिमाह[भा.७२४] पंतावणमीसाणंदोण्हं वग्गाणं होइकरणंतु ।
पुव्वं तुसंजईणंपच्छा पुन संजयाणभवे ।। वृ-पंतावणं नाम पिट्टनं । तत्र मिश्रयोर्द्वयोरपि वर्गयोः साधुसाध्वीरूपयोः करणं निस्तारणकरणं भवति । पूर्व संयतीनां पश्चात्पुनर्भवतिसंयतानां । तद्यथा-भिक्षुभिक्षुक्योः पूर्वंभिक्षुकी पश्चाभिक्षुः। एवं क्षुल्लकक्षुल्लिकयोः पूर्वं क्षुल्लिका स्थविरास्थविरयोः स्थविरा । अभिषेकाभिषेकयोरभिषेका । आचार्यप्रवर्तिन्योः प्रवर्तिनी पश्चादाचार्यः । गतंपिट्टनद्वारमधुना संयमच्यावनद्वारमाह[भा.७२५) भिक्खू खुडेथेरे अभिसेयायरिय संजमे पड्डुप्पन्ने ।
करणे तेसिंइणमोसंजोगगमंतुवोच्छामि ।। वृ-भिक्षुक्षुल्लकःस्थविरोअभिषेक आचार्यः । कथंभूत? एकैकइत्याह-संयमेप्रत्युत्पन्नो वर्तमानः तेषां भिक्षुप्रभृतीनां पञ्चानां निस्तारणकरणमिदं वक्ष्यमाणंसंयोगगम संयोगतोऽनेकप्रकारं वक्ष्यामि । यथाप्रतिज्ञातमेव करोति[भा.७२६] तरुणे निप्फपन्नरिवारेसलद्धिएजे यहोति अब्भासे |
अभिसेयंमियचउरो संसाणं पंचचेवगमा ।। वृ. अस्या व्याख्याप्राग्वत् । सम्प्रतियदुक्तं उदिन्नवेदो तिनाणत्तमिति' तद्व्याचिख्यासुराह|भा.७२७) अपरिणतोसो जम्हा अन्नभावं वएज तो पुव्वं ।
अपरिणामो अहवान निजइ किंचिकाहीइ ।। वृ-स भिक्षुर्यस्मादपरिणतो परिणामत्वाच्चान्यंभावमुत्प्रवाजनाभिप्रायं लक्षणं व्रजेत् । ततः स सत्वरमेवोत्प्रव्राजते । अन्यच्च अथवा न ज्ञायते सोऽपरिणामः सन् किंचीति किमपि संमुखीभूय युद्धं करिष्यति । येन सकलस्यापि सङ्घस्योपद्रवो भवेत् । तत एतद्दोषभयात्पूर्व भिक्षुनिस्तारणीय इति पूर्व तस्योपादानं, शेषाणां तु क्रमोपन्यासे प्रयोजनं पिट्टनद्वारयदवसेयमिति । अत्रैव साध्वीरधिकृत्य निस्तारणविधिमाह[भा.७२८] भिक्खुणि खुडी थेरी अभिसेगपवित्तिनि संजमे पडुप्पना ।
करणंतासिंइणमोसंजोगगमंतुवोच्छामि ।। [भा.७२९] तरुणी निप्फन्त्रपरिवारा सलद्धिया जा यहोइअब्भासे ।
अभिसेयाएचउरो सेसाणं पंचचेवगमा ।। वृ-इदंगाथाद्वयमपि प्राग्वत् । सम्प्रतिबद्धे लभते इति द्वारव्याख्यानार्थमाह[भा.७३०] खुड्डे थेरे भिक्खु अभिसेयायरियभत्तपानंतु ।
करणंतेसिंइणमो संजोगगमंतुवोच्छामि ।। . वृ- क्षुल्लकः, स्थविरो, भिक्षुरभिषेक आचार्यस्तेषां पञ्चानामप्येवं क्रमव्यवस्थितानां राज्ञा निरुद्धं भक्तपानमधिकृत्य करणं निस्तारकरणं संयोगगम संयोगतोऽनेकप्रकारं वक्ष्यामि । यथा प्रतिज्ञातमेव करोति
[भा.७३१] तरुणेनिष्फन्नपरिवारेसनद्धीए जे व होइअब्भासे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org