________________
२४०
व्यवहार - छेदसूत्रम् - १-१ / २० वृ- यः पुनरतिशयज्ञानी अवधिज्ञानादिकलितः स च बहुतरं तस्य दुःशीलत्वमवगम्य सर्वमुच्चैर्निः शङ्कितं भणति । यथैष भिन्नव्रत इति ततः कोऽनेन सममस्कां वादी च एष द्रष्टुमपिन युज्यते इति । अथ केन समं युज्यते वादः ? उच्यते- आर्यत्वादिगुणोपेतेन तथा चोक्तम्
अज्जेण भव्वेण वियाणएण धम्मपत्तिणेण अलीय भीरुणा । सीलकुलायारसमत्तिएण तेनं समं वाय समायरेज्जा ।।
आर्य आर्यकर्मकारी अजुगुप्सितकर्मकारीत्यर्थः तेन, भव्योऽनेकगुणसंभावनीयः । विज्ञां वादाभिज्ञः धर्मप्रतिज्ञो धर्मकरणाभ्युपगमपरः, अलीकभीरुः सत्यवादी । तथा शीलाचारसमन्वितः शीलदोषरहित इति भावः । कुलाचारसमन्वितः कुलदोषरहितः तेन समं वादं समाचरेत् । तत ईदृशेन समं वादस्तीर्थकरैरनुज्ञातो नान्यादशेनेति । अथ स शून्यवादी भवेत् न दर्शनी, ततः स्वशक्तिबलेन यं यं हेतुमुच्चरति स स प्रत्युच्चार्यासिद्धत्वविरुद्धत्वानैकान्तिकत्वदोषैर्दूषयितव्यः । प्रतिज्ञादिकमपि दूषयितव्यम् । अथ कदाचित्तेनास्मदीय एव सिद्धान्तां जगृहे यथा द्वौ जीवाजीवलक्षणों राशी जगतीतिममप्रतिज्ञेति अत्र पूर्वगाथा खंडस्यावकाशः पराजितोऽनिविसयं परूवणासमए इति तेन पारिहारिकेन त्रीन् राशीन् प्रस्थापयित्वा वादे पराजेतव्यः । एतच्च निदर्शनमात्रं, अन्यथापि सिद्धान्तोत्तीर्णमुच्चैर्भाषित्वा पराजेतव्यः । पराजितश्च स यदिभवेत् राज्ञा च निर्विषय आदिष्टस्ततः पश्चात् | सकलपर्यत्समक्षं स्वसमये स्वसमवविषवा प्ररूपणा कर्तव्या कथमित्याह
[भा. ७०५ ]
परिभूयमतिं एयरस एयदुत्तं न एसणे समती ।
समएण विनिग्ाहिए गज्जइ वसभोव्व परिसाए । ।
वृ-यदुक्तंमया त्रयोराशयो जीवोऽजीवां नोजीव इत्यादिन एषोऽस्माकं समयः; किन्त्वेतस्य वादिनी मतिं परिभवितुमेतदुक्तं यदि पुनः स्वसमयेन परो विनिगृहीतः स्यात्ततस्तस्मिन्विनि गृहीते वृषभ इव प्रतिवृषभं निर्जित्य षर्षदि पर्षन्मध्ये गर्जति, गर्जनविशेषतः स्वसमयप्ररूपणां कुरुते । तदेवभक्रियावादीति गतम् । सम्प्रतिजीव इति द्वाख्याख्यानार्थमाह
[ भा. ७०६ ]
अनुमानेउं रायं सणया गिण्हमाणविज्जादी । पच्छाकडे चरिते जहा तहानेव सुद्धोउ ।।
वृ- यदि राजा ब्रूते मया सहवादो दीयतामिति, तदा राजानमनुमानयेत् अनुकुलवचसा प्रतिबोधयेत् यथा राजा पृथिवीपतिस्त्वच्छत्रच्छायाश्रिताः प्रजाः सर्वे च दर्शनिनस्ततः कथं राज्ञा सह विवादः । अत्रार्थे चेदमुक्तं पठेत् किं तदित्याह
[भा. ७०७ ]
Jain Education International
अत्थवतिणा निवतिणा पक्खवता बलवया पयंडेणं ।
गुरुणा नीएण तवस्सिणा य सह वज्जए वादं ।।
वृ- अर्थपतिना धनपतिना नृपतिना राज्ञा पक्षवता नृपवर्गीयपक्षसमन्वितेन तथा बलवता विद्यामन्त्रचूर्णादिवलोपेतेन प्रचण्डेन तीव्र रोषेण तथा गुरुणा विद्यादायिना धर्मप्रदायिना च तथा नीचेन नीचजातीयेन तथा तपस्विना विकृष्टतपः कारिणा च सह वर्जयेत वादमिति । एवमनुमानितोऽपि वदा न तिष्ठति तदा ये राज्ञः सज्ञातिकाः समानज्ञातिकाः स्वजना इत्यर्थः तैरनुमानयेत् । तैरपि प्रतिबोध्यमानो यदि न तिष्ठति तदा विद्यादिना गृह्यते विद्यादिनावश्यं कुर्यात् । आदिशब्दात् मन्त्रेण चूर्णयोगर्वावश्यं कुर्यादिति परिग्रहः । विद्यादिनाप्यगृह्यमाणे चारित्रे चारित्रविषये पश्चात् कृतो भूयात् स्वलिङ्गं परित्यज्य
For Private & Personal Use Only
www.jainelibrary.org