________________
उद्देशक : १, मूलं : २०, [भा. ६८७]
२३५
अन्नेसिं गच्छाणं इमाई कञ्जाई जायाई ।।
वृ- यस्मात्स पारिहारिकः सूत्रार्थविशारदः सम्यक् सूत्रार्थ तदुभयकुशलः तथा स लब्धिकोऽनेकलब्धिसम्पन्नस्ततः सूत्रार्थप्रतिपृच्छाप्रदाननिमित्तं तदान्येषां गच्छादीनां षष्टी सप्तम्यर्थे प्राकृतत्वादन्येषु गच्छेषु इमानि वक्ष्यमाणानि कार्याणि जातानि । ततः साधनार्थं च गच्छेत् । इदं तु महत् प्रवचनस्य वैयावृत्यं यत्सूत्रार्थप्रदानादि करोति । अथकान्यन्येषु गच्छेषु जातानि कार्याणि यदर्थंस व्रजेत् अत आह[भा. ६८८ ] अकिरियजीए पिट्टण संजमबंधेय भत्तमलभंते । भत्तपरिणगिलाणे संजमतीए य वादी य ।।
बृ- अक्रियावादी नास्तिकवादी स राजसमक्षं वादं याचते । जीए त्ति जीविते साधूनां प्राणेषु वा राजा केनापि कारणेन प्रद्विष्टः । 'पिट्टण' त्ति पट्टियति वा लकुटादिभिः साधून् । 'संजम' त्ति संयमाद्वाच्यावयति उत्प्रव्राजयतीति भावः । बंधत्ति बध्नाति वा साधून् बन्धे च कृते साधवो राज्ञः सकाशाद्भक्तपानं लभन्ते वा न वा किमुक्तं भवति । बन्धयित्वा स्वयं ददाति वा अथवा वारयति एतेभ्यो हिण्डमानेभ्यः कोऽपि मा भिक्षां दद्यादितिभावभत्तित्ति दुर्भिक्षे वा समापतिते भक्तमतीव दुर्लभं जातमिति गत्वा स संपादयति, परिणत्ति भक्तप्रत्याख्यानं वा केनापि साधुना कृतं स च परिहारिकः शोभनो निर्यामकः । गिलाणत्ति प्लानो वाकोऽ प्याचार्यादिकः प्रवचनाधारभूतो जातः सच पारिहारिकः सम्यग् वैद्यकलाकुशलः । संजमतीतेति संयमातीता उत्प्रव्रजितास्ते राज्ञा कृताः कृत्वा च धृता वर्तन्ते इति तन्मोचनार्थं गच्छति, वादीत्ति नास्तिकवादिव्यतिरिक्तो दर्शनान्तरस्थः कोऽपि वादंयाचते । एतेषां कारणानामन्यतरस्मिन्नपि कारणे जाते अन्यगच्छ्वर्त्तिभिः सङ्घाटकः प्रेषितः । तेन च सङ्घाटकेन आचार्यस्य निवेदितम् ! तत आचार्यस्तस्य परिहारिकस्य माहात्म्यमवगच्छन्निदमाह
,
7
[ भा. ६८९ ] नविय समत्थो अन्नो अहियं गच्छामि निक्खिविय भूमिं । सरमाणोहिं विभणियं, आयरिया जाणिया तुज्झं ।।
वृ- परिहारिकं मुक्त्वा नैव अपिशब्दोऽवधारणार्थः अन्यः कोऽपि तं वादिनं निवारयितुं अन्यद्वा प्रयोजनं साधयितुं समर्थः । यदि वा स एव परिहारिको ब्रूते । प्रचण्ड स वादी ना मां मुक्त्वा अन्यः कोऽपि निवारयितुं समर्थः । न वा राजानां पिट्टनादिकारयंतं ततो यदि गुरवोऽनुजानते ततोऽहं गच्छामि एवं स्वयं तन्माहात्म्ये ज्ञातेऽन्येन वा कथिते तैराचार्यैरष परिहारतपोवहतीतिस्मरद्भिस्तं प्रतिभणितं कर्त्तव्यं, एतत् बूयात् तं प्रतीत्यर्थः । यथा - आर्य ! निक्षिप भूमिं आत्मीयां भूमिकां यावत्प्रत्यागममिह भवति तावत्मुच्यतां परिहारतप इति । एवमुक्ते यदि निक्षिपति ततो निक्षेपं कार्यते । अथब्रूते परिहारिको भगवन् शक्नोमि प्रायश्चित्तं वोढुं तदपि च प्रयोजनं कर्तुं तत आचार्यौर्वक्तव्यम् । आयरिणा जाणगा तुज्झमिति तव आचार्याज्ञकाः विमुक्तं भवति ? यत्र त्वं गच्छसि तत्र से आचार्यस्ति तत् ब्रुवते तत् कुर्या इति अत्र यदुक्तं । न त्थि य समत्थां अन्नो अहियं गच्छामित्ति तद्विभावयिषुरिदमाहजाणता माहप्पं, कहेंति सो वा सवं परिकहेइ ।
[भा. ६९०]
तत्थ सवादी हु मए, वादेसु पराजितो बहुसो ||
बृ- तस्य परिहारिकस्य माहात्म्यमद्भुतां शक्ति स्वयं जानाना इदं तस्मै कथयन्ति । यथा नान्यः कोऽपि समर्थस्त्वां मुक्त्वा अथवा स एव पारिहारिकः स्वयं गुरुभ्यः परिकथयति । यथा तत्र तस्मिन् गन्तव्ये स्थाने यो वादी वर्तते स मया हु निश्चितं बहुशो अनेकवारं वादेषु अक्रियावादादिषु पराजितः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org