________________
२३४
व्यवहार - छेदसूत्रम्-१-१/२० लाभेऽपि प्रतिबन्धमकुर्वता कारणमन्तरेण मयेकरात्रमेव वस्तव्यं नाधिकमित्येवं रूपेणाभिग्रहेण, जनं जनं दिसिमित्यादि । अत्र द्वितीया सप्तम्यर्थे । यस्यां वस्यांदिशि । नंशब्दो वाक्यालङ्कारे । अन्ये साधर्मिकाः प्रवचनसाधर्मिका वा संविग्नसंभोगिकादयो वक्ष्यमाणास्तिष्ठन्ति । तणं तणं दिशमिति तां तां दिशं णंशब्दो प्राग्वत् । उपलातुंग्रहीतुमाश्रयितुमित्यर्थः । ला आदाने इति वचनात् । ना से कप्पइ इत्यादिनोनैव सेतस्य परिहारकल्पस्थितस्य निक्षिप्तपरिहारतपसो वाकल्पते । तत्रेति गच्छन् यत्र वसति भिक्षांवाकरोति । तत्रसुन्दर आहारः, सुन्दर उपधिः,सुन्दर शय्येति, समीचीनी विहार इति विहारप्रत्ययं वस्तुंकप्पइसेत्यादिकल्पते, सेतस्यानन्तरोदितस्ययत्रभिक्षांकृतवान् उषितवान्वा । तत्रकारणप्रत्ययं वक्ष्यमाणसूत्रार्थप्रतिपृच्छादानादिकारणनिमित्तं वस्तुं, तस्सिंचणमित्यादि ।येन कारणेनोषितस्तस्मिन् कारणे निष्ठिते परिसमाप्ते यदि ब्रूयात् । अहो आर्यवस एकरात्रं द्विरात्रं वा तत एवं तदुपरोधतः से तस्य कल्पते । एकरात्रंद्विरात्रंवावस्तुंनपुनः सेतस्यकल्पतेएकरात्राद्विरात्रात्परंवस्तुं, यत्पुनस्तत्रैकरात्रात् द्विरात्राद्वापरं वसति निष्कारणं तस्मात्सान्तरात् स्वकृतादन्तरादपान्तराले निष्कारणवसनरूपात्से तस्य प्रायश्चित्तं च्छेदो वा परिहारतपो वति एष सूत्रं संक्षेपार्थः । साम्प्रतमेतदेव सूत्रं विवरीषुः प्रथमतो भिक्षुशब्दविषये चालना प्रत्यवस्थाने आह[भा.६८४ परिहारिय गहणणं भिक्खुगहणंतुहोइ किंन गयं ।
किंचगिहिणविभणित्तिगणि आयरियाणपडिसेहो? ।। वृ- अथवा पारिहारिकग्रहणेन परिहारकल्पस्थितग्रहणेन भिक्षुग्रहणं किं न भवतीति गतं गतार्थ भवत्येवेतिभावः । परिहारकस्यभिक्षुत्वाव्यभिचारात्नखलुपारिहारिकत्वंगृहस्थस्यापिभवति । एतदेव का क्या आह-किं च गिहीणवित्ति किं वा गृहिणामपि गृहस्थानामपि भवति पारिहारिकत्वं येन तद्वयवच्छेदकरणतो भिक्षुग्रहणं सफलतामनुवीत् । नैव भवतीतिभावः, । ततो निरर्थकं भिक्षुग्रहणं । अत्राह भण्यते उत्तरं दीयते, गण्याचार्ययोर्गणी गच्छाधिपतिराचार्योऽनुयोगाचार्यस्तयोः । उपलक्षणमेतत्, उपाध्यायस्य च प्रतिषेधो भिक्षुग्रहणेन आचार्योपाध्यायप्रतिषेधार्थं भिक्षुग्रहणमिति भावः । पुनरप्याक्षेपपरिहारावाह[भा.६८५] वेयावच्चुजमणे गणि आयरियाण किंनुपडिसेहो ।
भिक्खुपरिहारिउ वि हुकरेइ किमुआयरियमादी ।। वृ- वैयावृत्योद्यमेन वैयावृत्यविषयोधमकरणे किं नु खलु गण्याचार्ययोर्गच्छाधिपत्यनुयोगाचार्योपाध्यायानांप्रतिषेधः नैवासौयुक्तइतिभावः । यतोभिक्षुरपिशब्दो भिन्नक्रमत्वादन्यत्रोपात्तोऽप्यत्र सम्बध्यते परिहारकः करोति । सङ्घवैयावृत्यं किमुताचार्यादिन करोतिसुतरां तेन कर्तव्यं गुणोत्तमतया विशेषस्तस्यैतत्करणादिकारत्वात् । अत्रसूरिराह[भा.६८६] जम्हा आयरियादी निक्खिविऊणं करेइपरिहारं ।
। तम्हा आयरियादी विभिक्खुणो होति नियमेण ।। वृ• यस्मादाचार्यादिकः परिहारं परिहारतपः करोति । आचार्यादिपदं निक्षिप्य मुक्त्वा तस्मादाचार्यादयोऽपि भवन्ति नियमेन भिक्षव इति भिक्षुग्रहणेन तेऽपि तदवस्थोपगता गृहीता इति । अथ स्थविराणां वैयावृत्त्याय गच्छतीत्युक्तंतत्र किंवैयावृत्यं येन हेतुभूतेन स गच्छतितत आह[भा.६८७] परिहारिओ उगच्छे सुत्तत्थ विसारओसलद्धीओ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org