________________
२०४
व्यवहार - छेदसूत्रम्-१. १/१८ भा.५८०] पुव्वं गुरूणिपडिसेविऊण पच्छा लहूणिसेवित्ता ।
लघुए पुव्वंकहयतिमा मेदो दिज्जपच्छित्ते ।। दृ-अत्र द्वितीयभङ्गभावनायांगुरुशब्दाबृहदभिधायी, लघुशब्दोऽल्पवाचकः । ततोऽयमर्थः-पूर्व गुरूणि मासलघुकादीनि प्रतिसेव्य पश्चात् लघूनि लघुपञ्चकादीनि प्रतिसेवते । प्रतिसेव्य च तदनन्तरमालोचनावेलायांपूर्वंलघुकानिलघुपञ्चकादीनिकथयतिपश्चात्मासलघुकादीनि । कस्मादेवं कथयतीति चेदत आह-'मा मे' इत्यादि । पूर्वमासलघुकादिकथने अवतनया प्रतिसेवित्वं मे गुरुणा विज्ञायेत । ततो द्वे प्रायश्चित्ते गुरुर्दद्यात् । अयतनानिष्पन्नं प्रतिसेवनानिष्पन्नं च । तस्मात् मामे द्वे प्रायश्चित्ते दद्यादिति पूर्व लघुपञ्चकादि कथयति । तृतीयभङ्गभावनायां त्वियं भावना-गुरुलधुपर्यालोचनामन्तरेण गुरूणि मासगुरुकादीनि प्रतिसेव्य पश्चात् लघूनि लघुपञ्चकादीनि प्रतिसेवते । प्रतिसेव्यच पूर्वं लधुकानि लघुपञ्चकादीनिकथयति ।पश्चात् गुरुमासादेवं कथयतीति चेदत्र आह-मा मे इत्यादि पूर्ववत् । अथवेयंतृतीयभङ्गविशेषतोभावना. [भा.५८१] अहवा जय पडिसेवित्ति नव दाहितिमझपच्छित्तं ।
इय दोमज्झिमभंगा चरमो पुन पढमसरिसोउ ।। वृ-अथवेतिप्रकारान्तरेयत्यतनया प्रतिसेवीप्रतिसेवनाकारीतिज्ञात्वानैव ममदास्यंतिप्रायश्चित्तं, उपलक्षणमेतत् । स्वल्पंवादास्यन्तिप्रायश्चित्तमिति हेतोरुक्तेन प्रकारेणकथयति । ततइति एवममुना प्रकारेण द्वौ मध्यमभङ्गो द्वितीयतृतीयभङ्गौ मायाविन इति शेषः । चरमः पुनर्भङ्गः पश्चादानुपूर्व्या प्रतिसेवितं पश्चादानुपूर्व्यालोचितमित्येवंरूपः प्रथमसदृशः । यथा प्रथमे भङ्गे यथैव प्रतिसेवना तथैवालोचनेत्यमायाविनः स भङ्गः । तथा चरमभङ्गेऽपि प्रतिसेवनाक्रमणालोचना न मायावशतोऽन्यथेत्येषोप्यमायिन एवेतिप्रथमसशश्चचरमभङ्गः । तदेवं यतः प्रथमचरमभङ्गावमायाविनोद्वितीयतृतीयभङ्गो प्रतिकुञ्चनायामतः प्रतिकुञ्चनाऽप्रतिकुञ्चनाविषयचतुर्भङ्गी सूत्रखण्डं अपलिउञ्चियं इत्यादि । तद्व्याख्यानार्थमाह ।। [भा.५८२] पलिउंचणचउभंगो वाहे गोणीय पढमतोसुद्धो ।
तंचेवयमच्छरिते सहसा पलिउंचमाणेउ ।। वृ-प्रतिकुञ्चनमधिकृत्य प्रतिषेधाप्रतिषेधाभ्यां चतुर्भङ्गी गाथायां पुंस्त्वनिर्देशः प्राकृत्वात् ।सा चचतुर्भङ्गी यथासूत्रेणतथोच्चारणीया । तद्यथाअप्रतिकुञ्चितेप्रतिकुञ्चितं १, अप्रतिकुञ्चितेप्रतिकुचितं २,प्रतिकुञ्चितेअप्रतिकुञ्चितं३,प्रतिकुञ्चितेप्रतिकुञ्चितं४ |अस्यांचतुर्भड्यांव्याधोगोणीच शब्दात भिक्षुकी चदृष्टान्तः । तत्रव्याधदृष्टान्तोऽयम्-जहा कोविवाहो कस्सइईसरस्स कववित्तीतोमंसंउवनेइ
अन्नया सोवाहो मंसंसुंदरं घेत्तुंईसरसमीवंसंपट्टितोचिंतेइयइमस्स सव्वंमसंदायव्वंतिपत्तोईसरसमीवं तेन आभट्ठो स्वागतं सुस्वागतं उवविसाहित्ति वाहणं तुटणं सव्वं मंसं दिन्नं । एवं कोवि सावराही आलोइउकामा आयरियस्सगासं द्वितो चिंतेइय सुहमबावरा सव्वे अइयारा मए आलोइयव्वा इति पत्तो आयरियसमीवं । आयरिएणं सुटु आढाइत्तो धनोसि तुमं, संपुग्नोसि तुमं, न दुक्करं जं पडिसेविजइ तं दुक्करं जं सम्मं आलोइजइ । तीत तुट्टेण सव्वं जहा चिंतियमपलिउंचियमालोइयं । इह चिंतावेलायामप्यप्रतिकुञ्चितमालोचनावेलायामप्यप्रतिकुञ्चितमिति प्रथमो भङ्गः शुद्धः । तं चैवय मच्छरिए इत्यादि । यदेव प्रथम व्याधोदाहरणे व्याधस्यागमनं तदेव द्वितीय भङ्गेऽपि वक्तव्यं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org