________________
२०२
व्यवहार - छंटसूत्रम्-१-१/१८
भवति । तद्यथा-प्रतिसेवनेति प्रतिसेवना कृत्स्नमेवं संचयकृत्स्नमारोपणाकृत्स्नं अनुग्रहकृत्स्नमनुद्यातं कृत्स्नं निरवशेषं कृत्स्नमिति । तत्र प्रतिसेवनाकृत्स्नं । ततः परस्यान्यस्य प्रतिसेवनास्थानस्यासम्भवात् । सञ्चयकृत्स्नमशीतंमासशतं । ततः परस्य संचयस्याभावात् आरोपणाकृत्स्नंषाण्मासिकं, । ततः परस्य भगवतोवर्धमानस्वामिनः तीर्थे आरोपणस्याभावात्, अनुग्रहकृत्स्नं यत् षण्णां मासानामारोपितं षट् दिवसा गतास्तदनन्तरमन्यत् षण्मासान् आपन्नस्तती यत् अव्यूढं तत्समस्तंझोषितं पश्चात् यदन्यत् षाण्मासिकमापन्नं तद्वहति, तथा चाह- 'छद्दिणगहिएहिं ति, अत्र तृतीया सप्तम्यर्थे पूर्वषण्माससम्बन्धिषु षट्सु दिनेषु गतेषु यदन्यत् षाण्मासिकमारोपितमुह्यते । अत्र यस्मात् पञ्चमासाश्चतुर्विंशतिदिवसाश्चारोपितास्तत एतदनुग्रहकृत्स्नमनुग्रहकृत्स्नग्रहणेन निरनुग्रहकृत्स्नमपि सूचितं द्रष्टव्यं । तत्रैवं भावनीयंषण्मासे प्रतिस्थापिते पञ्चमासाश्चतुर्विंशतिदिवसाश्च व्यूढास्तदनन्तरमन्यत् षाण्मासिकमापन्नस्ततः तद्वहति । पूर्वषण्मासस्य षट् दिवसा झोषिताः अनुद्घातकृत्स्नं यत् कालगुरु यथा मासगुरुकादि अथवा निरन्तरं दानमनुद्घातकृत्स्नं । अत्र मासलघुकाद्यपि निरन्तरं दीयमानमनुद्घातमवसातव्यं । यदि वा अनुद्घातं त्रिविधं तद्यथा- कालगुरुतपोगुरु उभयगुरुच । तत्र कालगुरुनाम यत् ग्रीष्मादौ कर्कशे काले दीयते । तपोगुरु यदष्टमादि दीयते निरंतरं वा उभयगुरु यत् ग्रीष्मादौ काले निरन्तरं च दानं निरवशेषं कृत्स्नं नाम यदापन्नं तत्सर्वमन्यूनमनतिरिक्तं दीयते । अथात्र कतमेन कृत्स्नेनारोपयितव्यं । उच्यते[ भा. ५७६ ] एतो समारोहेजा अनुग्गहक सिणेण चिन्नसंसंमि
आलोवणं सुणेत्ता परिसज्जायं च विनाय ||
- एत्तो इति, प्राकृतशैलीवशात् षष्ट्यर्थे पञ्चमी । अमीषां षणां कृत्स्नानां मध्ये अनुग्रहकृत्स्नेन प्रागारोपितस्य चीर्णे शेषे चीर्णशेपेषु दिवसेषु आरोपयेत् । किं कृत्वा अनुग्रहकृत्स्नंनापयेत् इत्यत आहआलोचनां हा दुष्ट कृतमित्यादि निन्दन् पुरःसरं श्रुत्वा आकर्ण्य तथा पुरुषजातं धृतिसंहननाभ्यां दुर्बलं विज्ञाय | इयमत्र भावना - यदि पण्मासापन्नो धृतिसंहननाभ्यां च दुर्बलस्ततस्ते अनुग्रहकृत्स्नेन दीयन्ते । अथ तीव्राध्यवसायेन प्रतिसेवितं रागद्वेषाध्यवसायकलुषितेन वालोचितं धृतिसंहननाभ्यां च न दुर्बलस्ततस्ते निरनुग्रहकृत्स्नेनारोप्यन्ते षट्सु दिवसेषु शेषेषु तदन्यत् पाण्मासिकमारोप्यते इतिभावः । सम्प्रति प्रतिसेवनालोचनाविषयाचतुर्भगिकाखण्डसूत्रं पुव्वं पडिसेवियमित्यादि व्याख्यानयतिपुव्वानुपुव्वि दुविहा, पडिसेबणाए तहेव आलोए ।
भा. ५७७]
पडिसेवण आलोयणपुच्वं पच्छाव चउभंगी ।।
बू- सूत्रे पूर्वमिति पर्दैकदेशे पदसमुदायोपचारात् पूर्वानुपूर्वीति प्रतिपत्तव्यम् । पूर्वानुपूर्वीति प्रतिपत्तव्यम् । पूर्वानुपूर्वी नाम अनुपरिपाटिः सा द्विधा । तद्यथा प्रतिसेवने तथैव आलोचे आलोचनायां तत्र प्रतिसेवने आलोचनायां च पूर्वं पश्चादिति पदाभ्यां चतुर्भङ्गी । सा च यथा सूत्रे तथा उच्चारयितव्या परं सूत्रे पूर्वशब्दः पञ्चाच्छब्दश्च साक्षादुपात्तः । पूर्वशब्दश्च पूर्वानुपूर्वीवाचकः । पश्चाच्छब्दश्च पश्चादनुपूर्व्याभिधायी । तत एवं भङ्गोच्चारणं द्रष्टव्यम् । पूवानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्वा आलोचितम् १, पूर्वानुपूर्व्या प्रतिसंवितं पञ्चादनुपूर्व्या आलोचितम्, पश्चादानुपूर्व्या प्रतिसेवितं पूर्वानुपूर्व्वा आलोचितं ३, पञ्चादानुपूव्या प्रतिसेवितं पश्चादानुपूर्व्या आलोचितं ४ । चतुर्भङ्गी भावनार्थमेवाहपुव्वानुपुवि पढमो, विवरीए बिइय तइयएगुरुगो । आयरियकारणा वा पच्छा पच्छावसुणोउ !।
( भा. ५७८)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org