________________
१७४
व्यवहार - छंदसूत्रम् - १- १ / १४ भवन्ति । सप्तदशवारं त्रैमासिकं दीयते इति भावः । तदनन्तरं भूयो भूय आपत्ती सप्तदश निक्षेपा द्वैमासिकानां । तदनन्तरं सप्तदश निक्षेपा मासिकानां तत परं निक्षेपणता निक्षेपणं दानं भिन्ने भिन्नमासम्य विंशतिवारान् । ततः परं वारत्रयं छेद स्तदनन्तरं वास्त्रयं मूलं, ततः परं वास्त्रयमनवस्थाप्यं, तत एकवारं पाराञ्चितं - अनुद्वातं पूर्वप्रस्थापितं वहन् यदि भूयो भूयः स्तोकं बहु वा प्रायश्चित्तमन्यदापद्यते । तस्व पञ्चदश गुरूणां द्वैमासिकानां निक्षेपा भवन्ति । पञ्चदशवारं द्वैमासिकं गुरु दीयते इत्यर्थः । तत परं निक्षेपणता भिन्नमासानां गुरूणामष्टादशवारान् ततः परं वास्त्रयं च्छेदस्तदनन्तरं वारत्रयं मूलं, ततोऽनवस्थाप्यत्रिकं, ततः एकवारं पाराञ्चितमिति उक्ताऽन्यतरः ||
साम्प्रतमात्मतरस्य प्रायश्चित्तदानमुच्यते-संचयितमसंचयितं वा प्रत्येकमुद्धातमनुद्धातंवा बहन् यदि भूयो भूयः स्तोकं बहु वान्यदिन्द्रियादिभिः प्रायश्चित्तमापद्यते । तदा सप्तवारं लघुमासिकं दीयते । तत परं भूयो भूय आपत्ती चतुर्वार लघुकं चातुर्मासं । ततः परं च्छेदत्रिकं, तदनन्तरं मूलत्रिकं । तदनन्तरं अनवस्थाप्यत्रिकं । तत एकवारं पाराञ्चितं । यदि पुनः पूर्वप्रस्थापितमनुद्घातं वहन् स्तोकं बहु वान्यदापद्यते, भूयो भूयस्ततः पञ्चवारान् गुरुमासिकं दीयते । ततः परं त्रीन् वारान् चतुर्गुरुकं, ततो वास्त्रय च्छेदस्तदनन्तरं वारत्रयं मूलं ततो वास्त्रयमनवस्थाप्यं, तत एकवारं पाराञ्चितमेतदेवाहआइत्तरमाइयाणं मासा लहुगुरुगसत्तपंचेव । चउतिगचाउम्मासा तत्तोय चउव्विहो भेओ ।।
[ भा. ४९९ ]
वृ- आत्मतरो नाम यस्य वैयावृत्यकरणेलब्धिर्नास्ति । आदिशब्दात्परतरपरिग्रहः आत्मतर आदिर्वेषां ते आत्मतरादयः आत्मतराः परतराश्चेत्यर्थः । तेषामात्मतरादीनां प्रायश्चित्तदाविधिरुच्यतेतन्त्रात्मतराणामयमुद्घातं पूर्वप्रस्थापितं वहतां सप्तवारान् लघुमासा दीयन्ते । तदनन्तरं चतुरो वारान् चतुर्मासा लघवः । ततश्चतुर्विधो भेदस्छेदमूलानवस्थाप्य पाराञ्चितलक्षणो दातव्यः । अनुद्घातं पूर्वप्रस्थापितं वहतां पञ्च वाग़न् गुरुमासा दीयन्ते । तदनन्तरं त्रीन् वारान् गुरवश्चतुर्मासाः । ततो यथोक्तरूपश्ञ्चतुर्विधो भेदः । सम्प्रति परतरस्य प्रायश्चित्तदानविधिरभिधीयते । परतरो नाम यस्य वैयावृत्यकरणे लब्धिरस्ति न तपसि ततः स यदा तपः करोति न तदा वैयावृत्यं कर्तुं समर्थ इति । अत्रापि एकस्कन्धेन कापोतीद्वयं वोढुं न शक्यमिति दृष्टान्ती वक्तव्यः । यश्च प्रायश्चित्तं संचयितमसंचयितं वापन्नस्तत् तु यावद्वैयावृत्यं करोति, तावत् निक्षिप्तं क्रियते, वैयावृत्यं च कुर्वन् यद्यन्यदापद्यते तत् सर्वं झोष्यते । वैयावृत्त्ये च समाप्ते तत् पूर्वनिक्षिप्तं प्रस्थाप्यते तच्च वहन् यदि भूयो भूयः इन्द्रियादिभिरन्यदापद्यते । तत उद्यातं पूर्वप्रस्थापितं वहतः सप्तवारान् लघुमासिकं दीयते । तदनन्तरं पञ्चवारान् चतुर्लघुकं । ततः परं वास्त्रयं च्छेदस्तदनन्तरं वास्त्रयं मूलं, ततः परं वात्र्यमनवस्थाप्यं, ततः एकवारं पाराञ्चितमिति । अनुद्घातं पूर्वप्रस्थापितं वहतः षट्वारान् गुरुमासिकंदीयते । तदनन्तरं चतुरो बारान् चतुर्गुरुकं । ततः परं वास्त्रयं च्छेदस्तदनन्तरं वास्त्रयं मूलं, ततः परं वास्त्रयमनवस्थाप्यं । तत एकवारं पाराञ्चितं । एतदेव सुव्यक्तार्थमाह
[ भा. ५००/
आवन्नी इंदिएहिं परतरए झोसणा ततो परेण । . मासलगाय सत्त उ छच्चेव होति मास गुरु ।। चउ लहुगाणं पनगं चउगुरुगाणं तहा चउकंच । तत्ती च्छेदादीयं, होइ चउक्कं मुनेयव्वं ॥
[ भा. ५०१ ]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org