________________
१७२
व्यवहार - छेदसूत्रम्-१-१/१४ अत्रान्तर अन्यत्पाण्मासिकमापन्नस्तत्परिपूर्णमारोप्यते । प्राकृताश्चशेषीभूताः पट् दिवसाः त्यज्यन्ते एतन्निरनुग्रहकृत्स्नं । इति । [भा.४९६] चोएइरागदोसे दुब्बलबलिएव जाणएचस्खू ।
भिन्ने खंधगिम्मिय, मास चउमासिएचेडे || वृ- परश्चादयति, यूयं रागद्वेषवन्तस्तथाहि यस्य पणां मासानां षट्सु दिवसेषु शेषीभूतेष्वन्यत् पाण्मासिकमापन्नं पट्सु दिवसेषुपरिसमाप्यते । तस्य दुर्बलस्योपरि गगोयतो यूयं जानीथ एष बलिकः सन्सुखं विनयवैयावृत्यं करोति । यस्यपुनः पूर्वप्रस्थापितषण्मासानांपञ्चसुमास'चतुर्विंशतो दिवसेषु व्यूढेपुषट् दिवसाःशेषीभूता झोपिताः ।। अन्यत्पाण्मासिकमारोपितं, तस्य बलिष्ठस्यापरिविद्वेषः । अत्रापि जानीथ यथैष तपःकृशशरीरो नास्माकं शक्नोति वैयावृत्यं कर्तुं तस्माद्दीयतामस्य निरनुग्रहप्रायश्चित्तमिति ।एवंभवन्तःकुर्वन्तोनूनंचक्षुर्मेलंकुरुथ ।चक्षुर्मेलो नामयदेकं चक्षुरुन्मीलयति अपरं निमीलयति । एवमकं सानुग्रप्रायश्चित्तदानेन जीवाफ्यथ । अपरं निरनुग्रहप्रायश्चित्तदानेन मारयथेति । अत्राचार्य आह भिन्नेत्यादि पश्चार्द्ध भिन्नो नाम तत्कालमरणिनिर्मन्थनेन नवोदित्तोऽग्निःस यथा महति काष्टादिके प्रक्षिप्ते तद्दग्धुमसमर्थो भवति, शीघ्रं च विध्यायति, स एव श्लक्ष्णकाष्टछगणादिचूर्णादिषु स्तोकं प्रक्षिप्यमाणेपुक्रमेण प्रबल उपजायते ।स्कन्धाग्निनाममहत्काष्टंप्रज्वल्याग्निरूपतया परिणमितः स महत्यपि काष्टादिक प्रक्षिप्ते तद्दग्धुं समर्थो भवति । प्रबलः प्रबलतरचोपजायते । एवं दुर्बलस्य पट्सु मासेषु पूर्वप्रस्थापितेषु बहुषु व्यूढेषु षट्सु दिवसेषु शेषीभूतेषु यदि वा पट्सु मासेषु पूर्वस्थापितेषु षट्सु दिवसेषु व्यूढेषु यदन्यत् पाण्मासिकं तपः पृथिग् दीयते । ततः सभिन्नाऽग्निरिव विषीदति धृतिसंहननाभ्यां बलीयानिति न विद्राति न च विषादमुपगच्छति, स्कन्धाग्निरिव । तथा द्वौ चेटौ, तद्यथा-मासजातश्चतुर्मासजातश्च तत्र यदि मासजातस्य चेटस्य चतुर्मासचटाहारो दीयते, तदा सोऽजीर्णेन विद्राति, चतुर्मासजातस्यापि यदि मासजातवदाहारो दीयते, तदा स तेनाहारेण नात्मानं सन्धारयितुमलं । एवं यो दुर्बलस्तस्य बदि बलिष्ठं प्रायश्चित्तं दीयते, तदा स विद्राति दुर्बलत्वात् मासिकचेटकवत, बलिष्ठस्यापियदिदुर्बलप्रयाश्चित्तंदीयते, तदासतावतानशुद्धिमासादयतीत्यशुद्धया विषीदति । ततो यथा भिन्नागौ स्तोकमिन्धनं स्कंधाग्नी प्रभूतमिन्धनं तथा मासजातेचेटेस्तोकमाहार, चतुर्मासजातप्रभूतमाहारं प्रयच्छतो नरागद्वेषवत्तायोम्यतानुरूपप्रवृत्तः । तथाटुर्बले बलिष्ठेच यथोक्तरूपं प्रायश्चित्तं ददानान वयं रागद्वेषवंत इति उक्तउभयतरकः । ___ इदानीं आत्मतरकादयोवक्तव्याः । परमुभवतरसशोऽन्यतर इतिसएवोत्क्रमेणप्रथमतोभण्यते। तस्य स्वरूपमिदम्यथा एकेन स्कन्धेन द्वेकापात्या युगपत् वोढुं न शक्नोति तथा सोऽप्यन्यतरकः प्रायश्चित्तवैयावृत्ये युगपत्कर्तुं न शक्नोति । स च संचयितमसंचयितं वा प्रायश्चित्तमापन्नोऽथ च नदा गुरूणामन्या वयावृत्वको न विद्यते । ततस्तदापन्नं प्रायश्चित्तं निक्षिप्तं क्रियते । एतन यदुक्तमधस्तात निक्षिप्तमितितद्भावितमवसेयं । गुरूणांवैवावृत्यं कार्यततच्चवैयावृत्यं कुर्वन् यदीन्द्रियादिभिरन्यदापद्यते तत्सर्वं झोष्यते यदा तुवैयावृत्यं समाप्तं भवति, तदा तत्प्रग निक्षिप्तं प्रायश्चित्तमुत्क्षिप्यत । तच्च वहन यदीन्द्रियादिभिरन्यदापद्यते तदनेन विधिना दातव्यं ।। [भा.४९७] सत्तचउक्का उग्धाइयाण पंचव होति अनुग्धाया ।
पंच लहुपंच गुरुगा, गुरुगा पुनपंचगा तिन्नि ! !
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org