SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ उद्देशकः १, मूलं : १४. [भा. ४७१] १६५ मूलगुणा द्वे चक्रे उद्धी अक्षश्च, उतरगुमा वध्नकीलकलोहपट्टकादयः गर्मूलगुणैरुत्तरगुणेश्चसुसंप्रयुक्तं सत्शकटं यथा भारवाहनक्षम भवति, मार्गे च सुखं भवति, साधुर्गप मूलगुणैरुत्तरगुणैश्च सुसंप्रयुक्तः सन् अष्टादशशीलांगसहस्रभारवहनक्षमोभवति, विशिष्टविशिष्टतरोत्तरसंयमाध्यवसायस्थानपथेचसुखं वहति, अथ शकटस्य मूलांगानामेकमपि मूलांगं भग्नं भवति, तदा न भारवहनक्षम, नापि मार्गे वर्तते, उत्तरांगैस्तुकैश्चिद्विनापिशकटं कियत्कालंभारक्षमभवति, प्रबहतिच मार्गेकालेनपुनर्गच्छताऽन्यान्यपि परिशटनादयोग्यमेव तदुपजायते । ___ एवमिहापि मूलगुणानामेकस्मिन्नपि मूलगुणे हते न साधुनामष्टादशशीलांगसहस्रभारवहनक्षमता, नापि संयमश्रेणिपथे प्रवहनं, उत्तरगुणैस्तु कैश्चित् प्रतिसेवितैरपि भवति कियंतं कालं चरणभारवहनक्षमता, संयमश्रेणिपथेप्रवर्तनं च, कालेन पुनर्गच्छता तत्राप्यन्यान्यगुणप्रतिसेवनातो भवति समस्तचारित्रभ्रंशस्ततः शकटदृष्टांतादुपपद्यते,मूलगुणानां एकस्यापिमूलगुणस्यन नाशे तत्कालंचारित्रभ्रंश, उत्तरगुणनाशे कालक्रमेणेति, इतश्चैतदेवं मंडपसर्षपादिइष्टांतात्, तथाह्येरंडादिमंडपेयद्येको द्वौ बहवो वा सर्पपा, उपलक्षमेतत् तिलतंदुलादयो वा प्रक्षिप्यंते, तथापि न स मंडपो भंगमापद्यते, अतिप्रभूतैः आढकादिसंख्याकैर्भज्यते, अथतत्रमहती शिलाप्रक्षिप्यते, तदा तयैकयापितत्क्षणादेवध्वंसमुपयाति, एवं चारित्रमंडपोप्येकाद्वित्र्यादिभिः उत्तरगुणैरतिवर्यमाणैर्नभंगमुपयाति,बहुभिस्तुकालक्रमेणातिचर्यमाणैर्भज्यते, शिलाकल्पेन पुनरेकस्यापि मूलगुणस्यातिचारण तत्कालं भ्रंशमुपगच्छतीति, तदेवं यस्मात्मूलगुणातिचरणेक्षिप्रमुत्तगुणातिचरणेकालेन चारित्रभ्रशोभवति, तस्मान्मेमूलगुणाउत्तरगुणाश्च निरतिवाराः स्युरितिषट्कायरक्षणार्थं सम्यक्प्रतिपत्तव्यं, पट्कायरक्षणे हिमूलगुणाउत्तरगुणाश्चशुद्धा भवंतितेपुचद्वयेष्वपिशुद्धेषु, अत्रगाथायामेकवचनं प्राकृतत्वात्,प्राकृते हिवचनव्यत्ययोपिभवतीति, चरणशुमिद्धश्चारित्रशुद्धिः, अत्र शिष्य प्राह, ये प्राणातिपातादिनिवृत्त्यात्मकाः पंचमूलगुणास्ते ज्ञाता येतूतरगुणास्तान्नजानीमस्ततः केते उत्तरगुणा इति सूरिराह[भा.४७२] पिंडस्स जा विसोही, समितीओभावना तवो दुविहो । पडिमा अभिग्गहाविय, उत्तरगुणा मो वियाणाहि ।। वृ-पिंडस्यया विशोधिर्याश्च ईय्यासमित्यादिका याश्चभावना महाव्रतानां, यच्च द्विभेदंतपः, याश्च प्रतिमाभिक्षूणांद्वादशयेचाभिग्रहाद्रव्यादिभेदभिन्ना एतानुत्तरगुणान्मोइति पादपूरणेविजानीहि, एतेषां चोत्तरगुणानामियंक्रमेण संख्या ।। [भा.४७३] वायाला अट्टेवउ पणवीसाबारबारस यचेव । दव्वाइचउरभिग्गह, भेया खलु उत्तरगुणाणं ।। वृ-उत्तरगुणानांप्रागुक्तानां पिंडविशुध्यादीनांक्रमणखल्चमीभेदास्तद्यथा, पिंडविशुद्धाचत्वारिशद्भदाः षोडशविध उद्भमः, षोडशविधा उत्पादना, दशविधा एषणाच,समितीनामष्टो भेदास्तद्यथा पंचईर्यासमित्यादयस्तथा मनःसमितिकसमितिःकायसमितिरित्यष्टौ,भावनानांभेदाः पंचविशतिः, एकैकस्य महाव्रतस्यपंचपंचभावनाः सद्भावात्, तपसा द्विविधस्यापिसर्वसंख्ययाभेदाद्वादश, द्विविधं हितपोबाह्याभ्यंतरभेदात्, बाह्याभ्यंतरस्यच प्रत्येकंषट्भेदा इति,प्रतिमानांभेदाद्वादश,तेच मासित्तं ताइत्याद्यावश्यकग्रंथतो वेदितव्याः, अभिग्रहभेदाश्चत्वारो द्रव्यादिकाः द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाश्चतदेवमुक्ता उत्तरगुणाः; संप्रतियदधस्तात्प्रायश्चित्तमुपवर्णित्, तद्गतानां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy