SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ १४ ___ व्यवहार - छदसूत्रम्-१. गीतार्थत्वादेवानाभाव्यनगृह्णातीति नतस्योपदेशः यः पुनरगीतार्थस्तस्यानाभाव्यंगृह्यतउपदेशी दीयते, यथा न युक्तं तवानाभवात् गृहीतुं यदि पुनरनाभवत् ग्रहीष्यसि, ततस्तन्निभित्तं प्रायश्चितं भविष्यतीत्युपदेशदानं,तत एवमुपदेशेदत्तेसतिदानप्रायश्चितंदीयतेइतिगाथासमासार्थः,अत्रशिष्यः प्राह कारणप्रतिसेवी भावव्यवहर्त्तव्य उक्तः स कथमुपपद्यते, प्रतिषिद्धं हि यतनयापि सेवमानो जिनाज्ञाप्रद्वेषकारी ननुसदुष्टभावइतिकथंभावव्यवहर्तव्यः? नेघदोषो, जिनाज्ञाप्रद्वेषकारित्वाभावात् सतिकारणे प्रतिसेवायामपि वर्तते, जिनाज्ञामवालंब्यैव यथास्यामवस्थायां दीर्धसंयमस्फातिनिमित्तमकृत्यप्रतिसेवायामपि प्रवर्तितव्यमिति, ततो न कश्चिद्दोषः, अपि च भगवंतो वीतरागा न मिथ्या कदाचनापिढवते, वीतरागतयातेषां मिथ्यावचन कारणभावात् उक्तंच - रागाद्वा द्वेषाद्वामोहाद्वावाक्यमुच्यतेह्यनृतम् । यस्यतुनैते दोषास्तस्याऽनृतकारणंकिं स्यात् ।। भगवता वा यतनयापि कारणे प्रतिसेविनो भावव्यवहर्तव्या उक्तास्तद्यदि भगवद्वचनाद द्वितीयभंगवर्त्तिनोपिभावव्यवहर्त्तव्यास्ततः प्रथमभंगवर्तिनः सुतसंभावव्यवहर्त्तव्याभवेयुःतथा चाह भा.२१) आहच्च कारणमि, सेवनी अजयणंसिया कुजा । एसोवि होइभावे, किं पुन जयणाएसेवंतो।। वृ-आहच्च कदाचित्गत्या कारणे अशिवादिलक्षणेअकृत्यं सेवमानःस्यात्कदाचित् अयतनांकुर्यात् अयतनया प्रतिसेवेतेतिभावः एषोपिभवद्वचनाद्भवतिभावेव्यवहर्तव्य किं पुनर्यतनयाप्रतिसेवमानः प्रथमभंगवर्ती ससुतरांभवेद्भावेव्यवहंतव्य इत्यर्थः, न तु केवलं प्रथमभंगवर्ती वा भगवद्वचनाद्भावे व्यवहर्तव्यः, किंतुतृतीयभंगवर्त्यपितथा चाह - [भा.२२] पडिसवियमिंसोहिंकाहं आलंबणं कुणइजोउ । सेवंतोविअकिञ्चं, ववहरियव्बोसखलुभावे ।। वृ. कारणमंतरेणाऽपि यतनया प्रतिसक्तेि अकृत्ये पश्चात् शोधि प्रायश्चित्तमहं करिष्यामीत्येवंरुपमालंबनंयः करोति, किमुक्तंभवति, एवंरुपेणालंबनेनाकृत्ये यःप्रवृत्तिं चिकीर्षति, स तथा रुपमालंबनं कृत्वा प्रतिसेवमानोऽप्य कृत्यं खलु निश्चितं भावे व्यवहर्त्तव्यः अंतःकरणविशुद्धिपुरस्सरं यतनया प्रवर्तमानत्वेन भावतोव्यवहारयोग्यत्वात्ः किमुक्तंभवति? अकारणेयतनयेति तृतीयभंगवर्त्यपि भगवद्वचनाद्य व्यवहर्तव्यो वेदितव्य इति, तदेवं चतुर्भागकायामाद्यभंगत्रयवर्तिनो भावव्यवहर्तव्य उक्ताःसंप्रतिचुतर्भगिकामनपैक्ष्यान्यथैवभावव्यवहर्तव्यलक्षणमाह[भा.२३] अहवा कजाकले जताजतोवावि सेविउंसाह। सम्भावसमाउट्टो, ववहरियव्वो हवइभावे ।। वृ-अथवेति प्रकारांतरे तच्च प्रकारांतरमिदंप्राक्चतुर्भगिकांप्ररुप्यभावव्यवहर्त्तव्या उक्ताः संप्रति तु तामनपेक्ष्यैव भावव्यवहर्तव्योऽभिधीयते, कथमितिचेदत आह, कजाकज कार्येऽशिवादिनिस्तरणलक्षणे प्रयोजने अकार्य तथाविधपुष्ट प्रयोजनाभावे जयाजयोवेति यतमानो वा अयतमानो वा साधुरस्कृत्यु सेवित्वा सद्भावे पुनकरणलक्षणया तात्विक्या वृत्त्यासमावृत्तोऽकृत्यकरणात् प्रत्यावृत्तः सन् गुरोः समीपे यः आलोचयतीतिशेषः, स भावे भवति व्यवहर्तव्यः, भावतोऽकृत्यकरणतः प्रत्यावृतत्वात् संप्रतिप्राप्रमपितायां चतुर्भगिकायां यश्चतुर्थो भंगस्तत्प्ररुपणार्थमाह - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy