SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ व्यवहार - छंदसूत्रम् - ११/१४ सेसं पंचहिं गुणए ठवणादिणजुया उ छम्मासा ।। वृ- इयमर्थत प्रागेव व्याख्याता परमन्यथा कियान् शब्दसंदर्भ इति भूयोपि व्याख्यायते, संचयमासेभ्यः स्थापनामासेषु शुद्धेषु चच्छंपमवतिष्ठते, तत्जइमित्तियतिमासाभवत्यारोपणा, किमुक्तं भवति, यतिभिमसिंनिष्पन्ना आरोपणा यतिभागं तावत्संख्याकं भागं करोति कृत्वा चाद्यं तिपंचगुणमिति त्रिपंचगुणं पंचदशगुणं करोति, शेषं समस्तमनेकभागात्मकमपि संपिंड्य पंचभिर्गुणयंत्, ततः स्थापनादिनयुताः पण्मासा भवंति एतत्कर्म पंचदशादिष्वारोपणासु कर्त्तव्यं, एकादिषु चतुर्द्दशदिनतासु पुनरारोपणासु यावंत्यारोपणादिनानि तावद्भिर्गुणयितव्यं, एवं संचचमासानां मध्ये यावती मासात् यत् गृहीतं तद्दिनपरिमाणाभिधानतो मासपरिमाणविषयलक्षणमभिहितं संप्रत्येतदेव प्रकारांतरेणाभिधित्सुराह , १४८ [ भा. ४२१ ] जतिमि भवे आरुवणा ततिभागं तस्स पनरसहिं गुणए । ठवणारोवणसहिया छम्मासा होति नायव्वा ।। वृ- ये संचयमासास्ते पूर्व स्थापनारोपणामासविशुद्धाः कर्त्तव्याः तोत जइमीति यतितमा प्रथमा द्वितीया तृतीया इत्यादि आरोपणा ततिभागस्थास्ते कर्त्तव्याः तत्र यद्येकभागस्थास्ततः सर्वानपि पंचदशभिर्गुणयति, गुणने च कृते स्थापनारोपणादिवससहिता झोषविशुद्धास्ते पण्मासा भवंति, अथानंककभागस्थास्तर्हि अनेकस्य भागस्य आद्यं भागं पंचदशभिर्गुणयेत्, शेषान् समस्तानपि पंचगुणानिति वाक्यशेषस्तेन स्थापनारी पणदिवससहिताः षण्मासा ज्ञातव्या भवंति, तद्यथा विंशतिदिनाचां स्थापनायां पंचदशदिनायां चारोपणायां त्रयोदश संचयमासास्तेभ्य एक आरोपणामासो स्थापनाभासा भवमीलने त्रयो मासाः शोधिता जाता दश मासा इयमारोपणा प्रथमे स्थाने प्रथमंति ते दश मासा एकभागस्थाः क्रियंते, कृत्वा पंचदशभिर्गुण्यंते, जातं पंचाशं शतं ।। अत्र झोप: पंचक इति पंच तती विशांधिता जातं पंचचत्वारिंशं शतं । । तत्र स्थापनादिवसा विंशतिः आरोपणादिवसाः पंचदशेति मीलिताः पंचत्रिंशत् ते प्रक्षिप्यते, जातमशीतं शतमिति, तथा विंशतिदिनायां स्थापनायां पंचविंशतिदिनायां आरोपणायां पंचविंशतिदिनायां आरोपणायां त्र्यांविंशतिः संचयमासाः तेभ्यांद्वा स्थापनामासौ त्रय आरोपणामासा उभयमीलनं पंचमासाः शोधिता जाता अष्टादश इयमागेपणा प्रथमे स्थाने तृतीयेति त्रिभागस्थाः क्रियते, जाता एकैकस्मिन् भागे पट् षट् तत्राद्यो भागः पंचदशभिर्गुण्यते, जाता नवतिः, अत्र पक्षी झोष इति तेभ्यः पंचदश शोधिता जाता पंचसप्ततिः । । शेषौ द्वावपि भागावेकत्र मीलितौ जाता द्वादश, ते पंचभिर्गुण्यंते जाता पष्ठिः ते पूर्वराशी प्रक्षिप्यते, जातं पंचत्रिंशंशतं । तत्र स्थापनादिवसाः विंशतिरारोपणादिवसाः पंचविंशतिः उभवमीलनं पंचचत्वारिंशत् प्रक्षिप्ता जातमशीतं शतमेवमन्यत्रापि भावनीयं, नवरमेतत्कर्म्म कचिदेव प्रतिनियतेषु पदप्रकर्त्तव्यं, नावश्यं सर्वत्रति संप्रति गुणकारवशेन यथा कृत्स्नारोपणापरिज्ञानं भवति तथा प्रतिपादयति [ भा. ४२२ ] जेन उ पण गुणिएहोऊणं सो न होइ गुणकारी । तस्सुवरि जेन गुणे होइ समं सह गुणकारी ।। वृ- जेणउ पएण गुणिया पदमेकद्वित्र्यादिकं येन पदेन दशादिलक्षणेन गुणिते आरोपणादिवसे षण्मासपरिमाणमशीतं दिवसशतमूनमुपलक्षणमेतत् अधिकं वा भवति, समकरणं प्रतीत्य गुणकारी न भवति, यथा पाक्षिक्या आरोपणाया दशादिकस्तथाहि विंशिकायां स्थापनायां पाक्षिकी आरोपणा For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy