________________
व्यवहार - छेदसूत्रम्-१
पक्षपातनिरपेक्षव्यवहारपरिच्छेत्ता इति, अथ प्रियधर्म्मदृढधर्म्मसंविग्रसूत्रार्थतदुभयविद्ग्रहणे किं
फलमित्यत आह ।। [ भा. १५)
१२
पियधम्मे दृढधम्मंय, पच्चओ होइ गीयसंविग्गे । रागो उ होइ निस्सा उवस्सितो दोससंजुत्तो ।।
- प्रियधर्म्मणि दृढधम्र्मे च समुच्चये भिन्नक्रमश्च, गीतंगीतार्थे सूत्रार्थतदुभयविदिसंविग्रेच प्रायश्चितं ददतिप्रत्येयो विश्वासी भवति यथायं प्रियधम्र्मी दृढधर्मोगीतार्थः संविग्नश्चेति नान्यथा प्रायश्चित्तव्यवहारकारीति, प्रियधर्मादिपदानामुपन्यासः तथा अनिश्रितव्यवहारकारिण इत्यत्र योनि श्राशद्वस्तदर्थमाचष्टे, रागस्तु भवति निश्रा, अनुपवितव्यवहारकारिण इत्यत्रोपचितशद्वस्य व्याख्यानमाह, उपश्रितोद्वेषसंयुक्तः, उपश्चा द्वेष इत्यनर्थातरमितिभावः; द्वितीयं व्याख्यानं निश्रोपश्राशद्वयोर्दर्शयति ।।
भा. [१६]
अहवा आहारादी दाहीइ मज्झ तु एस निस्साओ । सीसो पडिच्छओ वा होइ उवस्साकुलादी वा ।।
वृ- अथवेति व्याख्यानांतरोपदर्शने, एषोऽनुवर्त्तितः सन् मह्यमाहारादिकं दास्यतीत्येपापेज्ञा लंचोपजीवनस्वभावा, निश्रा तथाएष मे शिष्य एप मंप्रतीच्छकइदं मे मातृकुलमिदं पितृकुलमादिशब्दात् इमे मम सहदेशनिवासिनां भक्ता वा इमे सदैव ममेत्यपेज्ञाभ्युपगमस्वरुपा भवत्युपश्रा, अस्यां हि व्यवहारिणो द्रव्यव्यवहारिणो भवंति, गीयावालंचपक्खेहिं इति वचना तेत एतयोः प्रतिषेधः उक्ता व्यवहारिणः, संप्रति व्यवहर्त्तव्यास्तेच नामादिभेदाच्चतुर्द्धास्तद्यथा नामव्यवहर्त्तव्या स्थापनाव्यवहर्त्तव्या द्रव्यव्यवहर्त्तव्या भावव्यवहर्तव्याश्च तत्र नामस्थापन प्रतीत, द्रव्य व्यवहर्त्तव्या अपि द्विधा आगमती नो आगमतश्च, तत्रागमती व्यवहर्तव्यशद्वार्थज्ञास्ते चानुपयुक्ता नो आगमतोपि त्रिधा, इशरीरभव्यशरीररूपाः प्रतीताः तद्व्यतिरिक्तस्तु द्विधा, लौकिका, लोकोत्तरिकाश्च, भावव्यवहर्त्तव्या द्विधा, आगमनोआगमभेदात् तत्र आगमतो व्यवहर्तव्यपदार्थज्ञाः सूत्रे चोपयुक्ताः, नोआगमतो लौकिका लोकोत्तरिकाश्च तत्र लौकिकद्रव्यभावव्यवहर्तव्य प्रतिपादनार्थमाह
| भा. १७ ]
लीए चोराईया, दव्वे भावे विसोहिकामाओ ।
जामसुतकादिसु निजूढा पायकहयाओ ।।
वृ- लोके लोकविषया व्यवहर्त्तव्याद्विधा, तद्यथा द्रव्यव्यवहर्त्तव्या भावव्यवहर्त्तव्याश्च तत्र द्रव्ये द्रव्यव्यवहर्त्तव्यश्चौरादयः चौर: तस्कर: आदिशद्वात्पारदारिकघातक हेरिकादिपरिग्रहः, ते हि चौर्यादिकं कृत्वापि न सम्यक् प्रतिपद्यंते, बलात्प्रतिपद्यमानाअपि च न भावतो विशोधिमिच्छति, ततस्ते द्रव्यव्यवहर्त्तव्या, भावे भावविपया व्यवहर्त्तव्या विशोधिकामाएव, तुशब्दस्य एवकारार्थत्वात् विशोधी कामोऽभिलाषी येषां ते विशांधिकामाः कथमस्माकमेतत्कुकर्म्मविषया विशुद्धिर्भविष्यतीति विशुद्धिप्रतिपत्त्ययुता भावव्यवहर्तव्या इतिभावः, न केवलं द्रव्यव्यहर्तव्याश्चौरादयः, किंतु जायमयसूयगाइसु निजूढा इत्यादि सूतकशब्दः प्रत्येकमभिसंबध्यते, जातसूतकं मृतसूतकंच, सूतकं नाम जन्मानंतरं दशाहानि यावत्, मृतकसूतकं नाम मृतानंतरं दशदिवसान् यावत्, तत्र जातकसूतके मृतकसूतकेवा आदिशब्दात् तदाद्येषु शुद्रगृहाहिषु ये कृतभोजनाः संतो धिग्जातीयैर्निर्व्यूढा असंभाष्याः कृतास्तथा ये पातकहताश्च पातकेन ब्रह्महत्यालक्षणेन मातापितादिघातकलक्षणेन वा हताः पातकहताः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org