SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ १२५ उद्देशक : १, मूलं : १४, [भा. ३५८] भावः ।। उत्कृष्टा भवति स्थापना पंचषष्ठं शतं पंचपष्टयधिकं रात्रिदिवानां शतं, शेषाणि तुस्थानानि मध्यमानि, संप्रतिप्रथमे आरोपणस्थाने याजघन्या आरोपणा याचोत्कृष्टा तां प्रतिपादयिपुराह - भा.३५९ आरोवणा जहन्ना पन्नरसाइंदियाइंपुनाई। उकोसंसद्विसयं, दोसविपक्खेवगो पंच ।। वृ- प्रथमे आरोपणास्थाने जधन्या आरोपणा पूर्णानि परिपूर्णानि पंचदश रात्रिंदिवानि, उत्कृष्टां पुनरारोपणां जानीयात्; षष्ठिशतं षष्ठ्यधिकं रात्रिंदिवशतं शेषाणि तु स्थानानि मध्यमानि तत्परिज्ञानार्थमाह दोसुवि पखेवगो पंच, द्वयोरपि स्थापनारोपणयोः प्रत्येकं जघन्यपदादारभ्योत्तरोत्तरे मध्यमेस्थाने प्रक्षेपकः पंच पंचपरिणामोज्ञातव्यो,यावदुत्कृष्टं पदं,इयमत्रभावना, प्रथमेस्थापनास्थाने जघन्यास्थापना विंशतिका, ततः पंचकप्रक्षेपेऽन्याद्वितीयापंचविंशतिदिनमाना, ततः पुनः पंचकप्रक्षेपे तृतीया त्रिंशद्दिना, एवं पंच पंच परिवर्धयता तावन्नेतव्यं, यावत् पंचपष्ठरात्रिंदिवशतप्रमाणा त्रिंशत्तमा स्थापनेति, तथा प्रथमे आरोपणास्थाने जघन्यारोपणा पक्षप्रमाणाततः पंचकप्रक्षेपेविंशतिदिनप्रमाणा द्वितीया, ततोपिपंचकप्रक्षेपे पंचविंशतिदिनमाना तृतीया, एवं योत्तरं पंच पंच परिवर्धयता तावन्नेयं यावत्षष्ट्यधिकरात्रिंदिवशतप्रमाणात्रिंशत्तमंति, एतदेव सुव्यक्तमाह - (भा.३६०] पंचण्हपरिखुट्टी, उक्कट्ठी चेव होइपंचण्हं । एएणपमाणेणं, नेयच्वं जाव चरिमंति ।। वृ- स्थापनायामारोपणायां च प्रत्येकं जघन्यपदादारभ्योतरोत्तरस्थान जिज्ञासायां पंचानां परिवृद्धिर्ज्ञातव्या; प्रत्येकमेवमेवांतिमस्थापनादारभ्यक्रमेणाधोऽधःस्थानचिंतायां पंचानामपकृष्टिानिर्भवत्यऽव सातव्या तद्यथा-पंचपष्ठ्यधिकरात्रिंदिवशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा स्थापना, ततः पंचानामपसारणे रात्रिं दिवषष्ठ्यधिकशतमाना एकोनत्रिंशत्तमा मध्यमा, ततोपि पंचानामपगमे पंचपंचाशदधिकशतप्रमाणा अष्टांविंशतितमा, एवं क्रमेणाधोधस्तात्पंच पंचपरिहापयता तावनेतव्यं, यावत् विंशतिदिनप्रमाणा प्रथमा स्थापना, तथा षष्ट्यधिकरात्रिंदिवशतप्रमाणा सर्वोत्कृष्टा त्रिंशत्तमा आरोपणा, ततः पंचानामपगमे पंचपंचाशदधिकशतमाना एकोनत्रिंशत्तमा मध्यमा, ततोपि पंचानामपगमे पंचाशच्छतप्रमाणा अष्टाविंशतितमा, एवंक्रमणाधोधः पंच पंच परिहापयता तावत्रेयं, यावत्प्रथमापक्षप्रमाणेति, तथाचाह, एएणेत्यादिएतेन पूर्वानुपूर्व्यापंचकपरिवृद्धिरूपेण पश्चादनुपूर्व्या पंचकापकृष्टिरूपेण प्रमाणेन पूर्वानुपूर्त्यां जघन्यपदादारभ्य पश्चादनुपूर्यामुत्कृष्टात् स्थानात् प्रभृति तावन्नेतव्यं, यावच्चरमंस्थानं परिवृद्धौसर्वातिमस्थानंचरममपकृष्टौ जधन्यमादिमं चरममिति, अथवेय गाथाअन्यथा आख्यायते, पूर्व किलस्थापनायामारोपणायांच प्रत्येकंजघन्यमध्यमोत्कृष्टभेदभिन्नानि स्थानानि उक्तानि, सांप्रतमेकैकस्मिन्स्थापनास्थाने जघन्यादौ किंयत्यारोपणास्थानानि एकैकस्मिन् वारोपणास्थाने कियंति स्थापनास्थानानीत्येतत् प्रतिपादियति पंचण्ह परिबुड्डि इत्यादि पूर्वस्मात् स्थापनास्थनादारोपणास्थानाद्वा उत्तरस्मिन्नुत्तरस्मिन् स्थापनास्थाने आरोपणस्थाने वा वृद्धिर्भवति, यस्मिंश्च यदपेक्षया स्थापनास्थाने आरोपणास्थाने वा पंचानां वृद्धिर्भवति, तस्मिन् तदपेक्षया स्थापनास्थाने आरोपणाचिंतायामारोपणास्थाने वा स्थापनास्थानचिंतायामते पंचानामपकृष्टिानिर्भवति, एतेन प्रमाणेन पंचकपरिवृद्धिरूपेण पंचकहानिरूपेण च तावन्नेयं, यावदेकत्रांतिम चरममपरत्रादिमं चरममिति, तथाहि विंशिकायां स्थापनायां जघन्या पाक्षिकी आरोपणा, ततोऽन्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy