SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ १० ( भा. ११] अपरिणाकालाइसु, अपडिक्कतस्स निव्विगइयंतु । निव्वीतियं पुरिमड्डो अंबिलखवणाय आवासे ।। वृ- अपरिज्ञा प्रत्याख्यानपरिज्ञाया अग्रहणं गृहीताया वा भंगः, ततः सूत्रे विभक्तिलोप आर्षत्वात् तथा कालादिषु अप्रतिक्रामतो अव्यावर्तमानस्य प्रायश्चित्तं निर्विकृतिकं किमुक्तं भवति, यदि नमस्कारपौरुष्यादिदिवसप्रत्याख्यानं वैकालिकंच पानाहारप्रत्याख्यानं न गृह्णाति, गृहित्वा विराधयति, तथा स्वाध्यायं प्रस्थाप्य यदि कालस्य न प्रतिक्रामति, न कालप्रतिक्रमणनिमित्तं कायोत्सर्ग करांती. आदिशब्दात् येषु स्थानेष्वीर्यापथिकया प्रतिक्रमेतव्यं, तेषु चेत् तथा न प्रतिक्रामति, तर्हि प्रायश्चित्तं निर्विकृतमिति, तथा निव्वीतिय इत्यादि आवासे आवश्यके एकादिकायोत्सर्गे सर्वावश्यकाकरणच यथासंख्यं निर्विकृतिकपूर्वार्द्धाचाम्लक्षपणानि, इयमत्र भावना आवश्यके यद्येकं कायोत्सर्ग न करोति ततः प्रायश्चित्तं निर्विकृतिकं, कायोत्सर्गद्वायाकरणेपूर्वार्द्ध, त्रयाणामपि कायोत्सर्गाणामकरणे आचाम्लं, सर्वस्यापि वावश्यकस्याकरणे अभक्तार्थमितिः [ भा. १२] जं जस्स च पच्छितं आयरियपरंपराए अविरुद्धं । गाव बहु विगप्पा एसो खलु जीवकप्पो ।। बृ- यत् प्रायश्चित्तं यस्याचार्यस्य गच्छे आचार्यपरंपरागतत्वेनाविरुद्धं, न पूर्वपुरुषमर्यादातिक्रमेण विरोधभाक् यथान्येषामाचार्याणां नमस्कारपौरुष्यादिप्रत्याख्यानस्याकरणे कृतस्य वा भंगे प्रायश्चित्तमाचाम्लं, तथा आवश्यकगतैककायोत्सर्गाकरणे पूर्वार्द्ध कायोत्सर्ग द्वयाकरणे एकाशनक मित्यादी तथा ये योगा उपधानानि बहुविकल्पा गच्छभेदेन बहुभेदा आचार्य परंपरा गतत्वेन चाविरुद्धायथा नागिलकुलवंशवर्तिनां साधूनामाचारादारभ्य यावदनुत्तरोपपातिकदशाः, तावन्नास्ति आचाम्लं केवलं निर्विकृतिकेन ते पठति आचार्यानुज्ञाताश्च विधिना कायांत्सर्ग कृत्वा विकृतीः परिभुंजते, तथा कल्पव्यवहारयाः चंद्रप्रज्ञप्तिसूर्यप्रज्ञप्त्योश्च केचिदागाढं योग प्रतिपन्ना अपर त्वनागाढमिति, एस खलु जीयकप्पो उ इति एष सर्व्वेपि खलु गच्छभेदन प्रायश्चित्तभेदो योगभेदश्चाचार्यपरंपरागतो जीतकल्पी जीतव्यवहारो वेदितव्यः उक्तो व्यवहारः संप्रति व्यवहारिणः इति द्वितीयं द्वारमभिधित्सुराहदव्वंमि लोइया खलु. लंचिल्ला भावतां उमज्झत्था । उत्तरदव्व अगीयागीव्यावालंचपक्खेहिं ।। [ भा. १३) व्यवहार - छेदसूत्रम् - १ 7 वृ- व्यवहारिणञ्चतुर्द्धा तद्यथा नामव्यवहारिणः, स्थापनाव्यवहारिणः, द्रव्यव्यवहारिणो, भावव्यवहारिणञ्च, तत्र नामस्थापने सुज्ञातं द्रव्यव्यवहारिणो द्विधा आगमतो नो आगमतश्च तत्रागमती व्यवहारिशब्दार्थज्ञास्ते चानुपयुक्ता, नोआगमतस्त्रिविधाज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्, तत्र ज्ञशरीरभव्यशरीर द्रव्यव्यवहारिणः प्रतीताः, तद् व्यतिरिक्ता द्विविधा लौकिका लोकोत्तरिकाश्च, भावव्यवहारिणीऽपि द्विधा आगमती नोआगमतश्च आगमती व्यवहारिशब्दार्थज्ञास्तत्रैवोपयुक्ताः नो आगमती द्विधा लौकिका लोकोत्तरिकाश्च तत्र पूर्वार्द्धन नो आगमती द्रव्यभाव लोकिक व्यवहारिणः प्रतिपादयति, द्रव्यं विचार्यमाणे नो आगमता ज्ञशरीभव्यशरीरव्यतिरिक्तालौकिकाव्यवहारिणः खलु लंचिल्लाइति, लंचा उत्कोच इत्यनर्थांतरं तद्वन्तः किमुक्तं भवति ? परतंचामुपजीव्य ये सापेक्षा: संतो व्यवहारपरिच्छेदकारिणस्तं द्रव्यतो लौकिका व्यवहारिणः, भावतो उ मज्झत्थाइति भावतः पुनर्नोआगमती व्यवहारिणो मध्यस्था मध्य रागद्वेपयारपांतरालं तिष्ठतीति मध्यस्था: ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy