________________
व्यवहार-छेदसूत्रम्-२- १०/२६५ त्पादानुगुण्येन उत्क्रमेणपि कथ्यते । यथा शस्त्र परिज्ञायामेकेन्द्रियाणां जीवत्वप्रसाधनविधौ पूर्व प्रथमोदेशके वनस्पतिः कथ्यते । अन्तिमे चोदशके वायुकायिकः। तत्र प्रथमत उत्क्रमेण वनस्पतीनां जीवत्वख्यापनार्थमाहभा.[४६२२] पत्तंति पुर्फति फलं वदंती, कालं वियाणंति तहेदियत्थे।
जाती य बुड्डी य जरा य जेहिं, कहं न जीवा उ भवंति ते ऊ॥ वृ.ये पत्रयन्ति पत्राणि मुञ्चन्ति। पुर्फति पुष्पभाजो भवन्ति फलं च ददति कालं च स्वपत्रपुष्पफलनिमित्तं जानन्ति । इन्द्रियार्थांश्च गीतादीन् ये विजानन्ति बकुलादीनं तथादर्शनात् । तथा तेषां जातिवृद्धिर्जराच, ते कथं न जीवा भवन्ति? भवन्त्येवेति भावः । पुरुषादिधर्माणां सर्वेषामपि तत्रोपम्यमानत्वात्, प्रयोगश्च वनस्पतयो जीवा जातिजरावृद्धयाधुपेतत्वात् मनुष्यवत्भा.[४६२३] जाहे ते सद्दहिया ताहे कहिज्जति पुढविकाइया।
जह उ पवालग लोणा उवल गिरीणं च परिवुड्डी ।। वृ. यदा ते वनस्पतयो जीवत्येन द्धिता भवन्ति तदा पृथिवीकायिका जीवाः (कथ्यन्ते, यथा) प्रवालादिषु परिवृद्धिदर्शनात्। भा.[४६२४] कललंडरसादीया जह जीवा तहेव आउजीवावि।
जोइंगणखज्जुए वा जहुण्ह तह तेउ जीवावि।। वृ. यथा कललं गर्भप्रथमावस्थारूपमण्डरस इत्येवमादयो जीवास्तथैवाप्कायजीवा अपि प्रतिपत्तव्याः, प्रयोग: अप्कायिका जीवा अनुपहत्वे सति द्रवत्वात् कललं च रसादिवत्। तथा यथा ज्योतिरङ्गण: स्वद्योतकः यथा वा ज्वरिते उषमेति स जीवनस्तथा तेजोजीवा अपि । प्रयोगभावना त्वेवम्-तेजस्कायिका जीवा असूर्यकिरणत्वे सत्यूषमधर्मोपेतत्वात्। भा.[४६२५] जाहे सद्दहिते तेऊ वाऊ जीवा से ताहे सीसंति।
सत्थपरिण्णाएवि य नुक्कमणं तु एयट्ठा॥ वृ. यदा तेजस्कायिकान् जीवत्वेन श्रद्दधाति तदा से तस्य वायवो जीवाः शिष्यन्ते तथा वायवो जीवा अपरे प्रेरितत्वे सति तिर्यग्गति गमनात् गवादिवत् शस्त्रपरिज्ञायामप्युत्क्रमकरणं पूर्वं वनस्पत्युदेशस्यान्ते वायुकायिकोद्देशस्य करणमित्यर्थः । तदर्थं सुखेन जीवत्वप्रतिप्रत्यर्थ; उपसंहारमाहभा.[४६२६] एस परिणामगो भणितो अहुणा उजम्मं वुच्छामि।
सो दुविहो नायव्वो भासाए सरीरजम्मो उ॥ वृ. एष द्विविधोऽपि परिणामक उक्तोऽधुना ज९ वक्ष्ये । स जड्डो द्विविधो ज्ञातव्य, तद्यथाभाषणायां भाषाजकुः शरीरजड्डश्च।।
भा.[४६२७] जलमुगएलमूगो मम्मणमूगो य भासजड्डो य! •
दुविहो सरीरजड्डो तुल्लो करणे अनिपुणो अ। वृ.भाषाजड्डस्त्रिविधस्तद्यथा-जडमूक एडकमूक मन्मनमूकश्च।शरीरजड्डो द्विविधस्तद्यथाशरीरेण क्रियायामनिपुणश्च। भा.[४६२८] पढमस्स नत्थि सद्दो जलमज्झे व भासए।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org