________________
५२०
व्यवहार - छेदसूत्रम् - २ - १० / २५२
माय हुतहुज्जमत्ते कुणमाणं एस संबंधो ॥
वृ. पञ्चविधव्यवहारकोविदात्मा तदर्थे व्यवहार्थे योखे न मनोवाकायान् प्रमादयति न व्यवहारविषये प्रमादमाचरतीति भावः । मा च हु निश्चितं तस्मिन् व्यवहारे उद्यच्छति उद्यमं कुर्वति मानमहंकारं कार्षीदति ज्ञापयत्येवमादीनि सूत्राणि । एष पुरुषजातसूत्राणां सम्बन्धः । पुव्वुत्ता व पुरिसजाया अत्थतो न वि गंथउ । तेसि परूवणत्थं तदिदं सुत्तमागयं ॥
भा. [४५५१]
वृ. वा शब्दः प्रकारान्तरद्योतने अथवा अनेन व्यवहारेण सूत्रेण अर्थत: पुरुषजाता उक्ता: सूचिता न वै ग्रन्थत उक्ता तेषां प्ररूपणार्थं तादिदं सूत्रं पुरुषजातसूत्रमागतम् । अस्याक्षरगमनिका तु प्रतीता । विस्तरार्थं भाष्यकृदाह
भा. [ ४५५२]
पुरिसज्जाया चउरो वि भासियव्वा उ आनुपुवीए । अत्थकरे मानकरे उभयकरे नोभयकरे य ॥
वृ. अधिकृत भङ्गसूचिताश्चत्वारः पुरुषा इमे आनुपूर्व्या परिपाट्य विभाषितव्यास्तद्यथाप्रथमभङ्गेऽर्थकरो, द्वितीयभङ्गे मानकरः, तृतीय उभयकरश्चतुर्थे नोभयकरः चतुष्टयं । पडमतइया एत्थं तु सफला निष्फला दुवे इयरे । दिट्ठतो सगतेना सेवता अनेरायाणं ॥
भा. [ ४५५३]
भा. [४५५४ ]
वृ. अत्र एषु चतुर्षु पुरुषेषु मध्ये प्रथमतृतीयौ सफलावितरौ द्वितीयचतुर्थौ निष्फलावेषु चतुर्ष्वपि दृष्टान्तोऽन्यराजानां सेवमानाः शकस्तेनास्तमेव दृष्टान्तमभिधित्सुराहउज्जेनी सगरायं नीयागव्वा न सुट्टु सेवेंति । वित्तियदानं चोज्जं निवेसया अन्ननिवे सेवा ॥ धावयपुरतो तह मग्गतो य सेवइ य आसनं नीयं । भूमियंपि य निसीयइ । इंगियकारी उपढमो ॥ चिखले अन्या पुरतो उगतो से एगो नवरि सव्वतो । तुट्टेण तहा रन्ना विती उ सुपुक्खला दिन्ना ।।
भा. [४५५५ ]
भा. [४५५६]
वृ. यदा कालिकाचार्येण शका आनीतास्तदा उज्जयिन्यां नगर्यां शको राजा जात: । तस्य निजकात्मीया एकेऽस्माकं जात्या सदृश इति गर्वात्तं राजानं न सुष्ठु सेवन्ते । ततो राजा तेषां वृत्ति नादात् । अवृत्तिकाश्चते चौर्यं कर्तुं प्रवृत्ताः । ततो राज्ञा बहुभिर्जनैर्विज्ञप्तेन निर्विषयाः कृताः ततस्तै देशान्तरं गत्वा अन्यस्य नृपस्य सेवा कर्तुमारब्धा । तत्रैकः पुरुषो राज्ञो गच्छतो आगच्छतश्च पुरतो धावति तथा मार्ग तशश्च कदाचित्त धावति राज्ञः चोर्ध्वस्थितस्योपविष्टस्य वा पुरतः स्थितः सेवते यद्यपि चोपविष्टः सन् (ते) राजानुजानाति । तथापि स नीचमासनमाश्रयते । कदाचिच्च राज्ञः पुरतो भूमावपि निषीदति राज्ञश्चैङ्गित ज्ञात्वाऽनाज्ञप्तोपि विवक्षितप्रयोजनकारी अन्यदा च राजा पानीयस्य कर्दमस्य मध्येन धावितः शेषश्च भूयान् लोको निःकर्दमप्रदेशेन गन्तुं प्रवृत्तः स पुनः शकपुरुषोऽश्वस्वाग्रतः पानीयेन कर्दमेन च सेव्यमान एकः से तस्य पुरतो धावति ततस्तस्य राज्ञा तृष्टेन सुपुष्फला अतिप्रभूता वृत्तिर्दत्ता ।
T
भा. [४५५७ ]
बितिओ न करे अटुं मानं च करेइ जाइकुलमानी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org