________________
५१८
व्यवहार-छेदसूत्रम्-२- १०/२५१ निव्वितिगमादीयं जा आयाम तू उदावणे ॥ वृ. एकेन्द्रियम्यानन्तकायिकवर्जस्य पृथिव्यप्तेजोवायुप्रत्येकवनस्पतीनामित्यर्थः घट्टने अनागाढे तापने आगाढे च निर्विकृतिकादिकं यावदायामाम्लमप्रद्रावणे जीवितात् व्यपरोपणे इयमत्र भावना-पृथिवीकायिकाप्कायिकतेजस्कायकवायुकायिकप्रत्येकवनस्पतीनां घट्टने निर्विकृतिकमनागाढे परितापने पूर्वार्धमागाढपरितापने एकाशनमपद्रावणे आयामाम्लमिति । भा. [४५३६] विगलिंदियघट्टण तावणा गाढगाढे तहेव उद्दवणा ।
पुरिमड्ढाइ कमेण नायव्वं जाव खमणं तु ।। भा. [४५३७] पंचेंदिय घट्टण तावणा य गाढगाढे तहेव उद्दवणे।
एक्कासण जायामं खमणं तह पंचकल्लाणं ।। वृ. विकलेन्द्रियाणां द्वीन्द्रियप्रभृतीनां घटने तापने अनागाढे आगाढे च तथा अपदावणे पूर्वार्धादिक्रमेण ज्ञातव्यं यावत्क्षपणं किमुक्तं भवति । घट्टने पूर्वार्धमनागाढपरितापने एकाशनं गाढपरितापने आयामाम्लमपद्रावणे क्षपणमिति, तथा पंचेंद्रियाणाकघट्टने एकाशनमनागाढपरितापने आयामाम्लमागाढपरितापने अभक्तार्थमपद्रावणे पञ्चकल्याणं निर्विकृतिकपूर्वार्धएकाशनकायामाम्लक्षपणरूपम्। भा.[४५३८] एमाईउ एसो नायव्वो होइ जीयववहारो।
आयरियपरंपरएण आवतो जाव जस्स भवे ।। व.एवमादिक एष जीतव्यवहारो भवति ज्ञातव्यः यो वा यस्य आचार्यपरम्परकेणागतः से तस्य जीतव्यवहारो ज्ञातव्यः भा.[४५३९] बहुसो बहुस्सुए हि जा वत्तो न य निवारितो होइ।
वत्तणुवत्तपमाणं जीएण कयं भवति एयं ।। वृ.यो व्यवहारोबहुश्रुतै बहुशो अनेकवारं वृत्तः प्रवर्तितो न चान्यैर्बहुभिः श्रुतैर्भवति विद्यते निवारितः । एतेन वृत्तानवृत्तं जीतेन प्रमाणं कृतं भवति । स जीतव्यवहारः प्रमाणीकृत इति । भा. [४५४०] जं जीतं सावज्जं न तेन जीएन होइ ववहारो।
जं जीयमसावज्जं तेन उ जीएन ववहारो॥ वृ. यत् जीतं सावधं न तेन जीतेन भवति व्यवहारः, यत् जीतमसावद्यं तेन जीतेन व्यवहारः। अथ किं सावद्यजीतमित्यत आहभा.[४५४१] छारहम्मिहम्ममालापोट्टेण य रिंगणि तु सावजं ।
दसविह पायच्छित्तं होइ असावज्जं जीयं तु ॥ वृ. यत् प्रवचने लोके चापराधविशुद्धये समाचारितं क्षारावगण्डनं हडौ गुप्तिगृहप्रवेशनं खरमाशोपणं पोहेण उदरेण रंगणं तु शब्दत्वात् स्वरारूढं कृत्वा ग्रामे सर्वत: पर्यटनमित्येवमादि सावद्यं जीतं, यत्तु दशविद्यमालोचनादिकं प्रायश्चित्तं तदसावा जीतं अपवादतः कदाचित्सावयमपि जीतं दद्यात् । तथा चाहभा.[४५४२] उसन्नबहूदोसे निद्धंधसे पवयणे य निरवेक्खो।
एयारिसंमि पुरिसे दिज्जइ सावज्जं जीयंपि !!
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org