SearchBrowseAboutContactDonate
Page Preview
Page 1002
Loading...
Download File
Download File
Page Text
________________ ५१७ उद्देशकः-१०, मूलं-२५१, [ भा. ४५२८ ] व्यवहरन्ति । ये पुनच्छेदश्रुतस्यार्थधरास्ते आज्ञया धारणया च व्यवहरन्ति । छेदश्रुतस्य च सूत्रमर्थश्चाश्चाद्यापि धरते विद्यते दशपूर्वधरा अपि चागमव्यवहारिणस्ततो व्यवहारचतुष्कस्य चतुर्दशपूर्विणि व्यवच्छेद इति यद्भणितं तान्मिथ्या। अन्यच्चभा. [४५२९] तित्थोगालीएत्थं, वत्तव्वा होइ आनुपुत्वीए; जे तस्स उ अंगस्स, वुच्छेदा जहिं विनिदिट्ठो । वृ. तेषां मिथ्यावादित्वप्रकटनाय यो यस्यां यो यस्यान्यस्य वा यत्र व्यवच्छेदो निर्दिष्टः सा तीर्थोगालिरत्रानपा कमेण वक्तव्या, येन विशेषस्तेषां प्रत्यय उपजायते । अथ कोऽसौ जीतव्यवहारं प्रयुञ्जीतेत्यत आहभा.[४५३०] जो आगमेन सुत्ते य सुन्नतो आणधारणाए य। सो ववहारं जीएण कुणइ वत्तानुवत्तेण ।। वृ. य आगमेन सूत्रेण च तथा आज्ञया धारणया च शून्यो रहितः स जीतेन वृत्तानुवृत्तेन, अस्य व्याख्यानं प्राग्वव्यवहारं करोति । वृत्तानुवृत्तत्वमेव भावयतिभा. [४५३१] अमुगो अमुगत्थ कउ जह अमुयस्स अमुएण ववहारो। अमुगस्सवि य तह कतो अमुगो अमुगेन ववहारो॥ भा.[४५३२] तं चेवणुमज्जंतो ववहारविहिं पउंजति जहुत्तं । __ जीएण एस भणितो ववहारो धीरपुरिस्सेहिं॥ वृ. अमुको व्यवहारोऽमुके कारणे समुत्पन्ने अमुकस्य पुरुषस्यामुकेनाचर्येण यथा कृत एतेन वृत्तव्यं भावितं, तथैव वामुकस्य यादृशे एव कारणेनामुकेनाचार्येणामुको व्यवहारः कृतः एतेनानुवृत्तत्वमुपदर्शितं तमेव वृत्तानुवृत्तं जीतमनुमज्जन् आश्रयन् यथोक्तं व्यवहारविधि यत् प्रयुक्ते एष जीतेन व्यवहारो धीरपुरुषैर्भणितः । भा.[४५३३] धीरपुरिसपन्नत्तो पंचमगो आगमो वि उ पसत्थो। पियधम्मवज्जभीरू पुरिसज्जायाणुचिन्नो य॥ वृ. एष पञ्चमको जीतव्यवहारो धीरपुरुषप्रज्ञप्तस्तीर्थकरगणधरैः प्ररूपितः आगमपञ्चविध: व्यवहारसूत्रात्मकतया श्रुतज्ञानविदश्चतुर्दशपूर्विणस्तैः कालं प्रतीत्य प्रशस्तः प्रशंसितस्तथापि प्रियधर्मभिरवद्यभीरुभिः पुरुषजातैरनुचोर्णस्तस्मात्सत्यतया प्रत्येतव्यो अर्थतः सूत्रतश्चयथाक्रम तीर्थंकरगणधरैरभिहितत्वात् । तथाहि-पञ्चविहे ववहारे पण्णत्ते इत्यस्य सूत्रस्यर्थः । तीर्थकरैर्भाषितो गणधरैश्च श्रद्धाय सूत्रीकृतोऽत एवोतमैः पुरुषजातै आचीर्णस्ततः कथमत्र न प्रत्यय इति। अधुना जीतव्यवहारे निदर्शमाहभा.[४५३४] सो जह कालादीनं, अप्पडिकंतस्स निव्विगईयं तु । मुहनंतफिडियपाणग असंवरणे एवमादीसु॥ वृ. स जीतव्यवहारो यथेत्युदाहरणमात्रोपदर्शनकालादिभ्य आदिशद्वात् स्वाध्यायादिपरिग्रहो अप्रतिकान्तस्तस्य ते मुखानन्तिके मुखे पोतिकायां स्फिटितायां मुखपोतिकामन्तरेणेत्यर्थः । तथा पानकस्यासंवरणे पानाहारप्रत्याख्यानाकरणे निर्विकृतिकं प्रायश्चित्तम्। भा. [४५३५] एगिदियानंतवज्जे घट्टण तावण गाढगाढे य; Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003372
Book TitleAgam Sutra Satik 36 Vyavahar ChhedSutra 3
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1046
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 36, & agam_vyavahara
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy