________________
४६४
बृहत्कल्प-छेदसूत्रम् -२-३/९४ [भा.४२७२] कोई तत्थ भणेज्जा, बाहिं खेत्तस्स कप्पती गहणं ।
गंतुंता पडिसिद्धं, कारण गमने बहुगुणं तु॥ वृ-कश्चिद् नोदकः तत्र' इति अनन्तरोक्तव्याख्याने इदं भणेत्-यदि पूर्वं प्रतिवृषभग्रामेषु ग्रहीतव्यं ततो मूलग्रामे, एवं तर्हि दूरत्वात् क्षेत्राद् बहिर्ग्रहणं सुतरां कल्पते । गुरुराह- क्षेत्राद् बहिर्वर्षासु गन्तुमपि तात् प्रतिषिद्धं किं पुनर्वस्त्रग्रहणम् ? । अथ कारणे वर्षासु क्षेत्रबहिर्गमनं करोति तत्रगतश्च वर्षाकल्पादिना निमन्त्रयतेतदासंयमस्य बहुगुणमितिकृत्वातदपिग्रहीतव्यम्।
इदमेव व्याचिख्यासुः प्रथमतः परवचनं व्याख्याति[भा.४२७३] एवं नामं कप्पति, जं दूरे तेन बाहि गिण्हंतु ।
एवं भणंति गुरुगा, गमने गुरुगा व लहुगा वा ।। वृ-यद् ‘दूरे ग्रामाबहिर्वस्त्र तयदि प्रथमं कल्पते तत एवं नाम क्षेत्रा बहि सुतरांप्रथमतरं गृह्णन्तु। सूरिराह-एवं भणतो भवतश्चतुर्गुरुकाः अथ क्षेत्राद् बहिर्गच्छति ततो गुरुका वा लघुका वा प्रायश्चित्तम् । तत्र नवप्रावृषि चत्वारो गुरवः, शेषे वर्षाकाले चत्वारो लघवः॥
"कारण गमने बहुगुण"मिति पदं व्याचष्टे[भा.४२७४] संबद्ध-भाविएसू, कप्पति जा पंचजोयणे कब्जे ।
जुन्ने व वासकप्पं, गेण्हतिजं बहुगुणं चऽन्नं ।। वृ-यानि साधर्मिकसम्बन्धेन सम्बद्धानि परस्परं गमना-ऽऽगमनभावितानि च क्षेत्राणि तेषु वर्षासु कल्पते साधर्मिकाणामुदन्तवहनार्थं चत्वारि पञ्च योजनानि वा यावद् गन्तुं वस्तुंवा । एवं कार्ये गतस्य तस्यापान्तराले वर्षात्राणेन कश्चिद् निमन्त्रणां कुर्यात्, तस्य च प्राक्तनो वर्षाकल्पः परिजीर्ण, तच्च वर्षात्राणंघन-मसृणमभिनवंच, ततो वर्षासुबहुगुणमितिकृत्वा गृह्णाति।कारणतः 'अन्यदपि पटलकादिकंघन-मसृणादिगुणोपेतमाचार्यप्रायोग्यंवायद्वस्त्र लभ्यते तदपि भूयान् गुणोऽत्रगृहीते भविष्यति' इति कृत्वा गृह्यते । एवं कारणेगमनंग्रहणंचोभयमपिष्टम्, कारणाभावे तु न कल्पते गन्तुंग्रहीतुंवा॥
अथ गृह्णाति ततोऽमून् षोडश दोषान् प्राप्नोति[मा.४२७५] आहाकम्मुद्देसिय, पूतीकम्मे य मीसजाए य।
ठवणा पाहुडियाए, पादोकर कीत पामिचे॥ [मा.४२७६] परियट्टिए अभिहडे, उब्भिन्ने मालोहडे इय |
अच्छिज्जे अणिसिडे, धोते रत्ते य घटे य॥ -आधाकर्म १ औद्देशिकं २ पूतिकर्म ३मिश्रजातं४स्थापना ५प्राभृतिका ६प्रादुष्करणं७ क्रीतं ८ प्रामित्यं ९ परिवर्तितम् १० अभ्याह्नतम् ११ उद्भिन्नं १२ मालापहतम् १३ आच्छेद्यम् १४ अनिसृष्टं चेति १५ पञ्चदश दोषाः । "धोए रत्ते य घढे य" त्ति साधूनामर्थाय मलिनवस्त्र 'धीतं चौखंकृतमित्यर्थः, एवं रक्त प्रदत्तरागम्, 'घृष्टं मसृणपाषाणादिनोत्तेजितम्, एतेत्रयोऽप्येक एव दोष इति॥ [भा.४२७७] एते सव्वे दोसा, पढमोसरणे न वज्जिता होति।
जिनदिठेहि अगहिते, जो गेण्हति तेहि सो पुट्ठो॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org